Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 239 विशेषा० इह केचित् तीर्थका मन्यन्ते नद्यादेः संबन्धि द्रव्यतीर्थं किल स्नान- पाना-ज्वगाहनादिभिर्विधिवदासेव्यमानं भवतारकं संसारमहामकरालयमापकं भवत्येव । कुतः १, तारणादिफलमिति कृत्वा शरीरतारण-मलक्षालन-तृव्यवच्छेद- देहोपशमादिफलत्वादित्यर्थः ; अनेन चाध्यक्षसमीक्षितदेहतारणादिफलेन परोक्षस्यापि संसारतारणफलस्याऽनुमीयमानत्वादिति भावः । तदेतद् नोपपद्यते, स्नानादे जीवोपघातहेतुत्वात् खड़ा-सि- धेनु- शूलादिवदिति । एतदुक्तं भवति जीवोपघातहेतुत्वाद् दुर्गतिफला एव स्नानादयः कथं नु भवतारकास्ते भवेयुः, सूना वध्यभूम्यादीनामपि भवतारकत्वमसङ्गात् । इति । इतश्च नद्यादितीर्थं भवतारकं न भवति, सूनाङ्गत्वाद- सूनाप्रकारत्वात् उदूखलादिवदिति । न च पुण्यकारणं स्नानम्, नापि यतिजनयोग्यं तत् कामाङ्गत्वात् मण्डनवत् अन्यथा ताम्बूलभक्ष- पुष्पबन्धन - देहादिधूपनाऽभ्यञ्जनादयोऽपि च भुजङ्गादीनां पुण्यहेतवः स्युः । न च देहतारणादिमात्रफलदर्शनेन विशिष्टं भवतारणादिकं फलमुपपद्यते, नियामकाभावात्, प्रत्यक्षवीक्षितमाण्युपमदेवाधितत्वाश्च इत्याद्यभ्यूव स्वधियाऽत्र दोपजालमभिधानीयमिति ।। १०२९ ।। १०३० ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ परो ब्रूयात् किम् ?, इत्याह देहोत्रगारि वा तेण तित्थमिह दानासणाईहिं । महु-मज्ज - मंस- वेस्सादओ वि तो तित्थमावन्नं ॥ १०३ ॥ यदि प्रेरको मन्येत - जाह्नवी जलादिकं तीर्थमेव, दाहनाश-पिपासोपशमादिभिर्देहोपकारित्वात् । अत्रोच्यते एवं सति ततो मधु-म-मांस- वेश्यादयोऽपि तीर्थमापयन्ते तेषामपि देहोपकारित्वाविशेषादिति । उक्तं द्रव्यतीर्थम् ।। १०३१ । (च) अथ भावतीर्थमाह भावे तित्थं संघो सुविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरियव्त्रं भवसमुद्दोऽयं ॥ १०३२ ॥ भावे भावविषयं श्रुतविहितं श्रुतप्रतिपादितं सङ्घस्तीर्थम्, तथा च भगवत्यामुक्तम्, ""तिस्थं भंते ! तित्थं तित्थवरे तित्थं १ । अथम्। १ क. ग. 'पयुज्यते ' । १ देहोपकारि वा तेन तीर्थमिह दाह-नाशनादिभिः । मधु-मय-मांस- वेश्यादयोऽपि ततस्तीर्थमापन्नम् ॥ १०३१ ॥ २ भावे सीधे संघः श्रुतविहितं तारकस्तत्र साधुः । ज्ञानादित्रिकं तरणं तरयितव्यं भवसमुद्रः ॥ १३२ ॥ * समीहित- 1 ३ तीर्थं भगवम् ! तीर्थं तीर्थंकरस्तीर्थम् १ । गौतम ! अर्हन्तस्तावद् नियमात् तीर्थहरा, सीधे पुनश्चासुवर्णः श्रमणसंघः 1 +(दाहो) tear ! अरहा ताव नियमा तिर्थकरे, तिस्थं पुण चावन्नो समणसंयो" इति । इह च तीर्थसिद्धौ तारकादयो नियमादाक्षिष्यन्त एव । सह संघ तीर्थे तद्विशेषभूत एव तारका साधुः, ज्ञान-दर्शन- चारित्रत्रिकं पुनस्तरणम्, तरणीयं तु भवसमुद्रः । इह च तीर्थतारकादीनां परस्सरतोsन्यता, अनन्यता च विवक्षात्रशतो बोद्धव्या । तत्र सम्यग्दर्शनादिपरिणामात्मकत्वात् संघस्तीर्थम्, तत्रावतीर्णानामवश्यं भवोधितरणात् । तद्विशेषभूतत्वात् तदन्तर्गत एव साधुस्तरीता, सम्यग्दर्शनाद्यनुष्ठानात् । साधकतमत्वेन तत्करणरूपतापाप ज्ञानादित्रयं तु तरणम् । तरणीयं त्वादयिकादिभावपरिणामात्मकः संसारसमुद्र इति ।। १०३२ ।। कस्मात् पुनः संघो भावतीर्थम् १, इत्याह जं नाण- दंसण चरित भावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ १०३३ ॥ यद्यस्मात् तारयति पारं प्रापयति तेन तत् संघलक्षणं भावतस्तीर्थमिति संबन्धः । कुतस्तारयति १, इत्याह- तद्विपक्षभावादिति तेषां ज्ञान-दर्शन-चारित्राणां विपक्षोऽज्ञान- मिथ्यात्वाविरमणानि तद्विपक्षस्तलक्षणो भात्रो जीवपरिणामस्तद्विपक्षभावस्तस्मात् तारयति । कुतः १, इत्याह- ज्ञान-दर्शन- चारित्रभावतः - ज्ञानाद्यात्मकत्वादित्यर्थः । यो हि ज्ञानाद्यात्मको भवति सोऽज्ञानादिभावान् परं तारयत्येवेति भावः । न केवलमज्ञानादिभावात् तारयति, तथा, भवभावतश्च तारयति, भवः संसारस्तत्र भवनं भावस्तस्मादित्यर्थः । यस्मात् स्वयं ज्ञानादिभावात्मकः, तथाऽज्ञानादिभावाद् भवभावाच्च भव्यस्तारयति, तस्मादसौ संघो भावतीर्थमितीह - तात्पर्यम्; उक्तं च- " रागाद्यम्भाः प्रमादव्यसनशतचलदीर्घकल्लोलमालः क्रोधेवाडवाग्निर्मृतिजननमहान क्रचक्रौघरौद्रः । तृष्णापातालकुम्भो भवजलधिरयं तीर्यते येन तूर्ण तज्ज्ञानादिस्वभावं कथितमिह सुरेन्द्रार्चितैर्भावितीर्थम् ॥ १ ॥ इति ।। १०३३ ।। उपपत्यन्तरमाह - कोह- लोह - कम्ममयदाह - तरहा- मलावणयणाई । एगंतेणच्चंतं च कुणइ य सुद्धिं भवोघाओ ॥ १०३४ ।' १ यज्ज्ञान-दर्शन- चारित्रभावतस्तद्विपक्षभावात् । भवभावतश्च तारयति तेन तद् भावतस्तीर्थम् ॥ १०३३ ॥ २ तथा क्रोध लोभ कर्ममयदाह तृष्णा-मलापनयनानि । एकान्तेनाऽत्यन्तं च करोति शुद्धिं भवौघात् ॥ १०३४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339