Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
इत्यभिधाय गतो नारा
त
! तामेव कन्यको
गमेलान्तिकं गतः ।
त
305 विशेषा० तया। ततो 'नूनं मदीयपुत्रो मारयित्वा भक्षितोऽनेन' इति विचिन्त्य कोपावेशाद् मुसलेन हत्वा मारितो नकुलः, गताच पुत्रसमीपे । इष्टश्च पुत्रेण सह विनष्टः सर्पः। ज्ञातं च यथा सर्पण पुत्रः, नकुलेन तु सो निहतः। ततो हन्त । इत्थं निरपराधोऽपि, उपकार्यपि मया निकृष्टया इतो बराको नकुल इति विचिन्त्य द्विगुणतरं शोकमापना। पूर्वमनपराधिनमध्यपराधिनं विज्ञाय नकुलं प्रत्यास्तस्या भावाननुयोगः, यथावत्परिज्ञाने तु भावानुयोग इति । प्रस्तुतयोजना त्वनन्तरोक्तवदिति । [x लिखन)
अथ कमलामेलोदाहरणम्-तत्र द्वारवत्यां नगर्या बलदेवपुत्रो निषधः। तस्यापि पुत्रः सागरचन्द्रः। स च रूपेणातीवोत्कृष्टः, शम्बादीनां च कुमाराणां सर्वेषामप्यतिमियः। तस्यामेव चद्वारवत्यां नगयोमन्यस्य राज्ञो दहिता कमलामेला ना प्रसेनतनयस्य नभःसेनकुमारस्य दत्ता, अवताच तिष्ठति । अन्यदाच तत्र नारदः सागरचन्द्रस्य समीपं गतः । तेनाऽप्यभ्युत्थित उपवेश्य प्रणम्य च पृष्टः-एवं भगवन् ! आश्चर्यं किमपि कापि । नारदेनोक्तम्- हष्टं कमलामेलाभिधानराजपुत्रिकाया न खलु ममैव, किन्तु भुवनत्रयस्याऽप्याश्चर्यकारि रूपम् । सागरचन्द्रेणोक्तम्- किं दत्ता कस्यचित् सानारदेनोक्तम्-दत्ता, परं नाथापि परिणीता। कथं पुनर्मम सा संपत्स्यते इति सागरचन्द्रेणोक्ते 'न जानाम्येतदहम्' इत्यभिधाय गतो नारदः । सागरचन्द्रस्तुतदिनादारभ्य नयानी नाप्यासीनः कापि रति लभते । तामेव कन्यको फलकादिष्वालिखत् । तमाममन्त्रजापंचानवरतं कुर्वनास्ते । नारदोऽपि कमलामेलान्तिकं गतः । तथापि तथैवाश्चर्य किमपि दृष्टमिति पृष्टः कलहदर्शनपिपतया स माह- दृष्टमाश्चर्यद्वयं मया, सागरचन्द्रे सरूपत्वम, नभासेने तु कुरूपत्वम् । ततो गित्येव सा विरक्ता नभासेने, अनुरक्ता च सागरचन्द्रे । समाप्तिचिन्तातुरा च समावासिता नारदेन सा । वत्से ! स्थिरीभव, संपत्स्यतेऽचिरादेव तवाऽयम् । इत्युक्त्वा गतःसागरचन्द्रसमीपे 'यत्स ! इच्छति त्वां सा' इत्यभिधाय च गतः । ततो बिरहावस्थाध्यथिते प्रलपति च सागरचन्द्रे आर्तः सर्वोऽपि मात्रादिस्वजनवर्यः । खियन्ते यादवाः । तदप्रान्तरे समायातः कथमपि सागरचन्द्रसमीपे शम्बकुमारः। दृष्टश्च तेनाऽसौ तदवस्थः । ततः पृष्तस्तस्य स्थित्वा हस्तद्वयेनाच्छादिते तदक्षिणी शम्बेन । सागरचन्द्रेणोक्तम्- किं कमलामेला'। शम्बेनोक्तम्-- नाई कमलामेला, किन्तु कमलामेलोऽहम् । ततः सागरचन्द्रेण 'शम्बोऽयम्' इति ज्ञात्वा प्रोक्तम्- सत्यमेतत् , त्वमेव मम कमलदीर्घलोचना कमलामेला मेलयिष्यसि, कोऽत्रार्थेऽन्यः समर्थः इति । ततोऽन्यैर्यदुकुमारैः पीतमयः परवशीभूतः शम्बो ग्राहितस्तदापनप्रतिज्ञाम् । उत्तीर्णे च मदभावे विचिन्तितं शम्बेनअहो! आलं मयाऽभ्युपगतम्, अशक्य ह्येतद् वस्तु, कथमियं प्रतिज्ञा निर्वाहयिष्यते । ततः प्रद्युम्नपार्थात् प्रज्ञप्तिविद्या याचिता शम्बेन । विवाहदिवसे च बहुभिर्यादवकुमारैः परिवृतेन तेन सुरगां पातयित्वा पितृयहादाकृष्य नीता बहिरुद्याने कमलामेला । नारदं च साक्षिणं कृत्वा कारितस्तत्पाणिग्रहणसंबन्धः सागरचन्द्रस्य । ततः सर्वेऽपि कृतविद्यारस्वरूपाः क्रीडन्तस्तिष्ठन्ति उद्याने । पित श्वशुरपाक्षिकश्चान्वेषयद्भिद्देष्टा कृतविद्याधररूपा नवपरिणीतवेषधारिणी च क्रीडन्ती कमलामेला। विद्याधरैरपहत्य परिणीता कमलामेलनि कथितं तेर्वासुदेवस्य । निर्गतश्च विद्याधरोपरि कुपितः सबलवाहनोऽसौ । लग्नं च महदायोधनं तावत, यावत पश्चाच्छम्बः परिहतक्रियरूपः पतितो जनकस्याहियुग्मे । ततश्चोपसंहृतः संग्रामः । दत्ता च कृष्णन कमलामेला सागरचन्द्रस्यैव । गताश्च सर्वे स्वस्थानम् । तत्र सागरचन्द्रस्य शम्ब कमलामेलां मन्यमानस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । विपरीतादिप्ररूपणयोजना तु प्रस्तुता पूर्ववदिति ।
-अथ शम्बस्योदाहरणम्- वासुदेवात् , शेषजनाच्च सदैव शृणोति जाम्बुवती, समस्तानामप्यालीनां मन्दिरं त्वत्पुत्रः शम्ब इति । ततो जाम्बुवत्या विष्णुरभिहितः- मया पुत्रसत्कैकाऽप्यालिन दृष्टा । विष्णुना प्रोक्तम् - आगच्छ, येनाऽद्य दर्शयामि । ततो जाम्बुवती उत्कृष्ट लावण्यमाभीरीरूपं कारिता । खयं पुनराभीररूपं कृत्वा दण्डहस्तः स्वयं पृष्ठे व्यवस्थितः, अग्रतस्तु मस्तकन्यस्तदधिहण्डिका जाम्बुवती कृता । प्रविष्टोऽथ दधिविक्रयार्थ नगरीमध्ये । दृष्टा च शम्बेन माता तदोत्कृष्टरूपाऽऽभीरीति विज्ञाय प्रोक्ता शम्बनेपा । आगच्छ मद्हम, सर्वस्यापि स्वदीयदनो यावन्मानं मूल्यं याचसे, तदहं दास्यामि, इत्यग्रतः स्वयम् , पृष्ठतस्त्वामीरी. पश्चात् स्वाभीरः । ततः शून्यदेवकुलिकायामेकस्यां गत्वा प्रोक्ता शम्वेनामीरी-प्रविशैतन्मध्ये, मुश्च दधि, तया च विरूपाभिमायं तं विज्ञाय प्रोक्तम् - नाहमत्र प्रविशामि, द्वारस्थिताया एवं गृहाण दधि, प्रयच्छ मूल्यम् । बलादपि प्रवेशयिष्यामीत्यभिधाय गृहीता शम्न वाही । ततो धावित्वा द्वितीयवाही लग्न आभीरः। द्वयोरपि चाकर्षण-विकर्षणं कुर्वतोभन भण्डनम् । ततः कृतं सहजरूपमात्मनः, जाम्बुवत्याश्च विष्णुना । तच्च दृष्टा लज्जितो नष्टः शम्बः । नागच्छति चावसरेऽपि लज्जया राजकुले । ततोऽन्यदिवसे विष्णुनियुक्तबृहत्पुरुषः कष्टेनानीयमानः क्षुरिकया वंशकीलकं घटयन्नागच्छत्यसौ । प्रणामे च कृते पृष्टो वासुदेवेन-शम्ब ! किमेतत् क्षुरिकया घव्यते । तेनोक्तम् - कीलकोऽयम् । किमर्थः पुनरसौ । यः पर्युषितानतीतजल्पान् वदिष्यति तन्मुखे आहननार्थ इति । तदत्र शम्बस्य मातरमप्याभीरी मन्यमानस्य भावाननुयोगः, पश्चाद् यथावदवगमे तु भावानुयोगः । प्रस्तुतयोजना तु पूर्ववदिति
अथ श्रेणिककोपोदाहरणम्-राजगृहे नगरे समवस्तस्य भगवतः श्रीमन्महावीरस्य श्रेणिकनराधिपो राझ्या चेल्लणया सह माघमासे हिमकणप्रवर्षिणि महाशीते पतिते वन्दनार्थ गतः । ततो निवर्तमानस्य च तस्य राझ्या चेल्लणया मार्गासनस्तपःकर्षितशरीर
क. ग. छ. 'शम्ब'। १. ग. घ. 'मिति' । मध्य- प्रत्यन्तरे जाम्बवतीति नाम).
For Private and Personal Use Only

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339