Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 328
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 321 विशेषा० विशेषाकारग्राहकम् । ततस्तस्मात् कारणाद् वस्तुनः सामान्याभिधानलक्षणः प्रथममुद्देशः, ततस्तस्यैत्र विशेषाभिधानरूपो निर्देशः ।। इति गांधार्थः || १४८६ ॥ तदेवं स्थापित आदावुद्देशः । अथ 'तस्त्र भेद- पर्यायैर्व्याख्या' इति कृत्वा तमेव भेदकथनद्वारेण व्याख्यातुमाह-नाठवणादवि खिते काले समासउसे । उद्देसुद्दे सम्मि य भावम्मि होइ अट्ठमओ ॥ १४८७ ॥ नामादिभेदादुद्देशोऽष्टविधः, तथथा- नामोद्देशः, स्थापनोद्देशः, द्रव्योद्देशः, क्षेत्रोवदेशः कालोदेशः, समासोद्देशः, उद्देशोद्देशः, भावोदेशो भवत्यष्टमः । इति निर्मुक्तिगाथासंक्षेपार्थः ॥ १४८७ ॥ Acharya Shri Kallassagarsuri Gyanmandir तत्र नामोद्देशं व्याख्यातुमाह भाष्यकारः- ना जस्सुसो माणुस एव जो जेणं । उद्देस्सो नामस्स व नामुद्देसोऽभिहाणं ति ॥ १४८८ ॥ यस्य जीवास्तुन 'उद्देश:' इति नाम क्रियते स नामोद्देशः, नामरूप उद्देशो नामोद्देशः, यथा गोपालदारकादेरुदेश इति नाम । 'नामेणुस एव जो जेणं ति' यो घट-पट-स्तम्भादिः पदार्थो येन घट-पट स्तम्भादिनान्नोद्दिश्यते प्रतिपाद्यते सोऽपि घटपटादिपदार्थो नामोद्देश इति उच्यते, उद्दिश्यतेऽभिधीयते प्रतिपाद्यते निजेन नान्नेति कृत्वा । 'उद्देसो नामस्स व नामुदेसो सि' नाम्नो वा वस्तुसामान्याभिधानस्योद्देशन मुच्चारणं नामोद्देशः । किमुक्तं भवति १, इत्याह- 'अभिहाणं ति' वस्तुनः सामान्यं यदभिधानं स नामोदेश इत्यर्थः । यथा - आम्रादेर्वृक्षादि नाम । वाशब्दः सर्वत्र प्रकारान्तरमूचकः ।। १४८८ ।। अत्र परोऽतिप्रसङ्गमुद्भावयन्नाह न सव्वोच्च नामुद्देसो जओऽभिहाणं ति । दव्वाईणं तेहिं व तेसु व जंकीरए जस्स ॥१४८९|| ननु यदि वस्तुनः सामान्याभिधानमात्र मुद्देशोऽभिधीयते, एवं तर्हि सर्व एवायं स्थापना- द्रव्य-क्षेत्र कालानुदेशो नामोद्देश एव प्रामोतिः यतो द्रव्याणामपि हेम-रजतादीनां हेमादिकं सामान्याभिधानमस्ति, तैर्वा कुसुम्भ-हरिद्रादिद्रव्यैर्हेतुभूतैर्वखादीनां रक्तं पीत १ नाम स्थापना द्रव्ये क्षेत्रे काले समासोद्देशे । उद्देशोद्देशे च भावे च भवत्यष्टमकः || १४८७ ॥ २ नाम यस्योद्देशो नाम्नोद्देश एव यो येन । उद्देशो नाम्नो वा नामोद्देशोऽभिधानमिति ।। १४८८ ॥ ३ एवं ननु सर्व एव नामोद्देशो यतोऽभिधानमिति । द्रव्यादीनां तैव तेषु वा यत् क्रियते यस्य ॥ १४८९ ॥ मित्यादि सामान्याभिधानं प्रवर्तते, तेषु वा दण्ड- कुण्डल - किरीटादिद्रव्येषु सत्सु दण्डी, कुण्डली, किरीटीत्यादिकं सामान्याभिधानं वर्तमानं दृश्यते । एवं स्थापना - क्षेत्रादिष्वपि वाच्यम् । ततो य एव द्रव्याद्युद्देशोऽभिमतः स एव सर्वोऽपि नामोद्देशः प्रामोति, इत्युद्देशस्यैकविधत्वादष्टविधत्वं विशीर्यत इति ।। १४८९ ॥ 1 अत्र पराभिहितमभ्युपगम्य परिहारमाह सेयं सव्वाणुगओ नामुद्देसोऽभिहाणमेत्तं जं । नाणत्तं तहवि मयं मइ - किरिया वत्थुभेएहिं ॥ १४९० ॥ । सत्यमुक्तं भवता यतो यत् सामान्यमभिधानमात्रं नामोद्देशः स खलु सर्वानुगत एवं, तथापि नाम-स्थापना- द्रव्याद्युद्देशानां नानात्वं भेदरूपं मतं संमनमेत्र परमार्थवेदिनाम् । कैः १, इत्याह- मतिक्रिया वस्तुभेदैः; तथाहि - यादृशी नामेन्द्रे मतिः, न तादृश्येव स्थापनेन्द्रादित्पद्यते, किन्तु विलक्षणैव न च यां क्रियां नामेन्द्रः करोति तामेव स्थापना -द्रव्येन्द्रादयः, किन्तु विसदृशीमेव । अत ratnaserai परस्परं वस्तुभेदो विज्ञेयः भिन्नमत्यादिहेतुत्वात्, घटपटादिवस्तुवदिति । एवं प्रस्तुतनाम-स्थापना-द्रव्याद्युद्देशानामपि मत्यादिभेदाद् भेदो योजनीय इति ।। १४९० ॥ अथ स्थापनाद्युद्देशानाह ठेवणार उद्देसो ठवणुद्देसो त्ति तस्स वा ठवणा । तं तेण तओ तम्मि व दव्वाईयाणमुद्देसो ॥ १४९१ ॥ दव्सो दव्वं दव्वपई दव्ववं सदव्वोत्ति । एवं खेत्तं खेत्ती खेत्तपई खेत्तजायं ति ॥ १४९२ ॥ स्थापनाया उद्देशानमुच्चारणं सामान्येनाभिधानं स्थापनादेशः । तस्य वोदेशस्य अक्षा-ऽक्षरादिषु स्थापना स्थापनोद्देशः । द्रव्योदेशमाह- द्रव्यादीनामुद्देशो द्रव्योद्देशः, आदिशब्दाद् द्रव्यपति- द्रव्यवदादिपरिग्रहः । कया पुनर्व्युत्पत्त्या द्रव्यादयो वाच्या भवन्ति ?, इत्याह- 'तमित्यादि' तदेव द्रव्यमुद्दिश्यते उच्चार्यते 'द्रव्यम्' इत्येवं सामान्येनाभिधीयत इति द्रव्योद्देशः । द्रव्यं च तदुद्देशवेति कर्मधारय समासः । अत्र च पक्षे द्रव्यमेवोद्देशशब्दवाच्यम् । अत एव द्वितीयगाथायामाह - दव्वमिति । अथवा, तेन द्रव्येण १ सत्यं सर्वानुगतो नामोद्देशोऽभिधानमात्रं यत् । नानात्वं तथापि मतं मति क्रिया वस्तुभेदैः ॥ १४९० ॥ २ स्थापनाया उद्देशः स्थापनोद्देश इति तस्य वा स्थापना । तत्तेन ततस्तस्मिन् वा द्रव्यादिकानामुद्देशः ॥ १४९१ ॥ योद्देशो द्वयं द्रव्यपतिद्रव्यवान् सङ्घस्य इति । एवं क्षेत्रं क्षेत्री क्षेत्रपत्तिः क्षेत्रजातमिति ॥ १४९२ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339