Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• विशेष बात - १. विशेषावश्यक भाष्यसंपूर्ण गाथा का अकारादिक्रमा
भाग-२ में दिया है। २. भाग-१ में मुद्रणदोष से पेज नंबर-२६-२२0२२९-२६०-१२९७ जो छपने के रहगयें है . वे नीचे दिये मुताबिक समझ लेना।
26 दुज्जुसुया पज्जायवायगा भावसंगहं बेंति । उवरिमया विवरीआ भावं भिंदति तो निययं ॥ ७७ ॥
यद् यस्मात् कारणात् संग्रहनयः सामान्यग्राही सामान्यवादी, सेन कारणेन संग्रहात्येकत्वेनाऽध्यबस्यति प्रत्येकं त्रितय नाम-स्थापना-द्रव्यनिक्षेपलक्षणं यानि कानिचिन् नाममङ्गलानि तत् सर्वमप्येकं नाममङ्गलम् , तथा स्थापनामङ्गलान्यशेषाण्यप्येकं स्थापनामङ्गलम् , एवं द्रव्यमङ्गलान्यपरिशिष्टान्यप्येकं द्रव्यमङ्गलमित्यर्थः । व्यवहारनयस्तु येन कारणेन विशेषग्राही, ततो नामादिनिक्षेपाने विशेषयति भेदेनेच्छति-नाममङ्गलानि सर्वाण्यपि पृथग नाममङ्गलत्वेनेच्छति, एवं स्थापनादिनिक्षेपेष्वपि वाच्यम् । 'सडुज्जुसुयेत्यादि' शब्द-र्जुसूत्रनयौ पुनः पर्यायरेकार्थभिन्नाभिधानैर्वस्तु वक्तुं शीलं ययोस्तौ पर्यायवाचिनौ सन्तौ नाम-स्थापना-द्रव्यनिक्षेपपरिहारेणैकस्यैवं भावस्य भावनिक्षेपस्य संगृहीतिः संग्रहोऽभिन्नत्वमेकत्वं भावसंग्रहस्तं ब्रूतः प्रतिपादयतः, इदमुक्तं भवति-ऋजुसूत्र-शब्दनयौ पूर्वनयेभ्यो विशुद्धत्वाद् नाम-स्थापना-द्रव्यनिक्षेपं तावद् नेच्छतः, किन्त्वेकमेव भावनिक्षेपमभ्युपगच्छतः, केवलं समभिरूडै-भूतनयाऽपेक्षयाऽविशुद्धत्वाद् विभिन्नानेकपर्यायाभिधेयत्वेऽपि भावनिक्षेपस्य संग्रहमेकत्वमेव प्रतिपद्यते, न भिन्नत्वमिति भावः । ततश्चैतन्मतेन यदेव मङ्गलशब्दवाव्यं भावमङ्गल प्रत्यूहोपशमका-निष्टविघातकृद्-विघ्नापहरणादिशब्दानामपि तदेव वाच्यम्, न भिन्नम्, इति तात्पर्यम् । 'उवरिमया विवरीएत्यादि उपरितनौ तु समभिरूडै-भूतौ नयौ ऋजुसूत्र-शब्दनयापेक्षया विपरीतौ भिन्नानेकपर्यायाऽभिधेयस्य भावस्यैकत्वं नेच्छतः, किन्तु भिनत्वमभ्युपगच्छतः, तथाहि-समभिरुडमतेनाऽन्यदेव मालशब्दवाच्यं भावमङ्गलम् , अन्यच्च प्रत्येकं प्रत्यूहोपशमकादिपर्यायवाच्यम् । एवम्भूतस्याऽप्येवमेव, केवलमयं पूर्वस्माद् विशुद्धत्वादेकपर्यायाभिधेयमपि भावमङ्गलं भावमालकार्य कुर्वदेव मन्यते, नाऽन्यदा, यथा धर्मोपकरणान्वितः सम्यक्चारित्रोपयोगे वर्तमानः साधुरिति । तदेवमृजुमूत्र-शब्दनयाऽभ्युपगमापेक्ष्या विपरीताभ्युपगमपरत्वाद् विपरीतावेतौ । 'तो ति' तस्माद् भावं भावमङ्गलादिकमर्थं नियतं निश्चितं पर्यायभेदा भिन्तः-भेदेनेच्छतइत्यर्थः, यदि हि पर्यायभेदेऽपि वस्तुनो न भेदः, तर्हि घट-पटादीनामपि स न स्यादित्यादियुक्तः पर्यायभेदेन भिन्नमेव भावमङ्गलमभ्युपगच्छत इति भावः ॥ इति गाथाद्वयार्थः ॥ ७६ ॥७७॥
तदेवमवसितं प्रासङ्गिकम् । प्रकृतमुच्यते, तच्चेदम्-पूर्व नोआगमतो भावमाल नोशब्दस्य सर्वनिषेधवचनत्वे विशुद्धः क्षायिकादिर्भाव उक्तः, मिश्रवचनत्वे तस्य ज्ञान-दर्शन-चारित्रोपयोगः, एकदेशवचनत्ये पुनस्तस्याऽर्हन्नमस्कारादिज्ञान-क्रियाविमिश्रपरिणामः प्रोक्तः । सांप्रतं नोशब्दस्यैकदेवाचित्वे नोआगमतो भावमङ्गलं ज्ञानपश्चकरूपा नन्यपि भवतीति दर्शयन्नाह
शब्द-सूत्रौ पर्यायवाचकौ भावसंग्रहं बूतः । उपरितनौ विपरीती भावं भिन्तस्तस्माद् नियतम् ॥ ७७ ॥ + धात-।।
For Private and Personal Use Only

Page Navigation
1 ... 336 337 338 339