Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie 220 अभिधाय च निर्गतः / ततो गतश्च गङ्गायाम् , निरीक्षिता चासौ स्वयम् , पृष्टा च परंभ्यः, शुष्कतृणादिवहनेम चान्वय-ध्यतिरेकाभ्यां तस्याः पूर्वाभिमुखवाहित्वं निश्चित्य निवेदितमागत्य गुरुभ्यः- इस्थमित्थं च निश्चिता मया पूर्वाभिमुखी बहति गङ्गा, तत्त्वं तु गुरवो विदन्ति। ' प्रच्छन्नहेरिकेण चास्यापि संबन्धिनी चेष्टा सर्वापि राज्ञे निवेदिता। ततश्चाभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति // 932 // 933 // 934 / / तदेवं गुरुभावोपक्रमे युक्ततयाऽत्र व्यवस्थापिते सति परः पाह जुत्तं गुरुमयगहणं को सेसोवक्कमोवओगोऽत्थ ? / गुरुचित्तपसायत्थं ते वि जहाजोगमाओज्जा // 935 // . ननूक्तन्यायेन युक्तं तर्हि गुरुमतग्रहण- गुरुभावोपक्रमणम् , शेषाणां तु नाम-स्थापना-द्रव्याधुपक्रमाणां क इहोपयोगः, येन ने उपन्यस्ताः / अत्रोत्तरमाह- ननु गुरुचित्तप्रसादनार्थ तेऽपि शेषोपक्रमा यथायोग यथाप्रस्तावमायोज्याः सप्रयोजनत्वेनाऽभ्यूह्या ति // 935 // तदेवं द्रव्याधुपक्रमाणां गुरुचित्तप्रसादनोपयोगित्वमाह परिकम्म-नासणाओ देसे काले य जा जहा जोग्गा / ताओ दव्वाईणं कजाहाराइकज्जेसु // 936 / / उवहियजोग्गदवो देसे काले परेण विणएणं / चित्तण्णू अणुकूलो सीसो सम्मं सुर्य लहइ // 937 // याः काश्चिद् देशे मरुमण्डलादौ, काले ग्रीष्मादौ येन केनचित् प्रकारेण योग्या उचिताः परिकर्म-नाशनाः परिकर्म-विनाशा भवन्ति, ता द्रव्य-क्षेत्र-कालानां गुरोराहारादिकार्येषु शिष्येण तच्चित्तप्रसादनार्थ कर्तव्याः / तत्र द्रव्यस्य दधि-क्षीर-नीरादेर्गुड-शुण्ठ्युशीर-मुस्तादिक्षेपेण परिकर्म भावनीयम् / क्षेत्रस्योपाश्रयादेरुपलेपनादिना / कालस्य मुहूर्तादेः शिक्षकदीक्षादौ घटिकादिनेति / विनाशोऽपि द्रव्यादीनां द्रव्यान्तरसंयोगादिना भावनीय इति / तत इत्थं गुरुचित्तं प्रसादयन् शिष्यः किमामोति?, इत्याह- 'उवहिएत्यादि उपहितानि गुरोराहाराद्यर्थ दौकितानि कृतपरिकर्माणि योग्याऽशन-पान-वस्त्र-पात्रौषधादीनि द्रव्याणि येन, असावुपहितयोग्यद्रव्यः शिष्यः / शेष सुगमम् // 936 // 937 // युक्तं गुरुमतमार्ण का शेषोपकमोपयोगोऽन्न / गुरुचित्तप्रसादार्थ तेऽपि यथायोगमायोज्याः // 935 // 2 परिकर्म-नाशना देश का च या यथा योग्याः / ता द्रव्यादीमा कार्या आहारादिकार्येषु // 13 // उपहितयोग्यगन्यो देशे काले परेण विनयेन / चित्तज्ञोऽनुकूलः शिष्यः सम्यक् श्रुतं लभते // 937 // क. ग. 'न पं'। 229 अथ निर्गमनं निर्गमः / स च 'कुतः सामायिक निर्गतम् ?' इत्येवरूपो वक्ष्यते / अत्राक्षेप-परिहारौ माह नणु निग्गमो गउ च्चिय अत्ता-जंतर-परंपरागमओ। तित्थयराईहितो आगयमेयं परंपरया // 981 // ननु पूर्वमागमद्वार एवात्मा-ऽनन्तर-परम्परागमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभिधानात् तीर्थकरादिभ्यो निर्गमनमस्य, इत्यवगतत्वाद् गतार्थ एव निर्गमः, किं पुनरिहोपात्तः इति // 981 // परिहारमाह इह तेसिं चिय भण्णइ निद्देसो निग्गमो जहा तं च / उवयातं तेहिंतो खेत्ताइविसेसियं बहुहा // 982 // तेषामेव तीर्थकरादीनां सामान्योद्देशमात्रेण प्रागवगतानामिह विशेषाभिधानरूपो निर्देशो भण्यते, यथा श्रीमन्महावीरतीर्थकरादेतत् सामायिकमर्थतो निर्गतम् , सूत्रतस्तु गौतमादिगणधरेभ्यो निर्गतम् , तथा निर्गमश्वेह मिथ्यात्वाविरत्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यते 'अवरविदेहे गामस्स चिंतओ' इत्यादिना ग्रन्थेन / तथा, तच्च सामायिकं बहुधाऽनेकशः क्षेत्र-काल-पुरुष-कारण-प्रत्ययविशेपितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम् , तचेह भण्यत इति विशेषः॥ 982 // . अथ लक्षणद्वारविषयमाक्षेपमाह अज्झयणलक्खणं नणु खओवसमियं गुणप्पमाणे वा / नाणागमाइगहणे भणियं किमिहं पुणो गहणं // 983 // लक्ष्यतेऽनेनेति लक्षणम् , तच्च 'सद्दहण-जाणणा खलु' इत्यादिना सामायिकस्य सावधयोगविरत्यादिकं वक्ष्यति / अत्र परः प्रेरयति- नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम्, इति मागुपक्रमभेदरूपे षड्नाम्नि क्षायोपशमिके भाचे समवतारादर्थापच्या भणितमेव / अथवा, 'गुणप्रमाणे ज्ञानमिदम्, तत्राप्यागमः' इत्यादभिधानादिदं क्षायोपशमिकभावरूपं लक्षणमर्थापच्याऽभिहितमेव', आगमस्य क्षायोपशमिकभावलक्षणत्वात् , किमिहानुगमे लक्षणस्य पुनर्ग्रहणम् / इति // 983 // 1 ननु निगमो गत एवाऽऽत्मा-ऽनन्तर-परम्परागमतः / तीर्थकरादिभ्य आगतमेतत् परम्परया // 941 // 2 तेषामेव भण्यते निर्देशो निर्गमो गया तच्च / उपयातं तेभ्यः क्षेत्रादिविशोषित बहुधा // 18 // / अपरविदेहे ग्रामस्य चिन्तकः। . अध्ययनकक्षणं ननु क्षायोपश मिकं गुणप्रमाणे वा / ज्ञाना-ऽऽगमादिग्रहणे भणितं किमिह पुनर्ग्रहणम् / // 9855 श्रद्धान-ज्ञाने खलु / 4 For Private and Personal Use Only

Page Navigation
1 ... 337 338 339