Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 336
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 331 विशेषा हवाई पोग्गलाओ कसाय-नाणादओ य जीवाओ । निति पभवंति ते वा तेहितो तबिओगम्मि ॥१५४२ ॥... . भावोऽपि कालवद् द्रव्यधर्म एव । तस्य च ततो द्रव्याद् यो निर्गमः प्रभवः स भावनिर्गमः, द्रव्यस्य वा भावाद् निर्गमो भाव- निर्गमः । का? इत्याह--भावतो भावमाश्रित्य यो द्रव्यस्यापगमो विनाशः । इदमुक्तं भवति- यदा' द्रव्यं पूर्वपर्यायेण विनश्यति, - अपूर्वपर्यायेण तूत्पद्यते, तदा पूर्वपर्यायात् प्राक्तनभावाद् द्रव्यस्य निर्गतत्वाद् भावाद् निर्गमो भावनिर्गम इत्युच्यते । तथा, रूपादयो भावाः पुदलद्रव्यात् , कषाय-बानादयश्च जीवाद निर्गच्छन्ति प्रभवन्तीति भावानां निर्गमो भावनिर्गम उच्यते । 'ते वा तेहितो त्ति' अथवा ते पुद्गल-जीवादया पदार्थास्तेभ्यो रूपादिभ्यः कषायादिभ्यश्च भावेभ्यस्तद्वियोगे प्राक्तनभावविनाशे निर्गच्छन्तीति भावेभ्यो निर्गपो भावनिर्गम इत्युच्यत इति । तदेवं विनेयमतिव्युत्पादनार्थमभिहितः षड्विधो निर्गमः ॥ १५४१ ॥ १५४२ ।। ईदानी प्रकृते यावता प्रयोजन तदुपदर्शयितुम् , प्रशस्तभावनिर्गमस्वरूपं तावत् दर्शयन्नाह तत्थ पसत्थं मिच्छत्तण्णाणाविरइभावनिग्गमणं । जीवस्स संभवति य जं सम्मत्तादओ तत्तो ॥१५४३॥ तत्रानन्तरोक्ते भावनिर्गमे प्रशस्तं शुभं निर्गमनम् । किम् ? इत्याह- मिथ्यात्वा-ज्ञाना-विरतिलक्षणादपशस्तभावाद् यनिर्गमने निसरणं जीवस्य । किमिति ? इत्याह- यद्यस्मात् संभवन्त्येव ततो मिथ्यात्वाधप्रशस्तभावनिर्गमाज्जीवस्य मुक्तिपदमाप्तिईतवः सभ्यक्वादयो गुणा इति ॥ १५४३ ।। भवत्येवम्, प्रस्तुते केन प्रयोजनम् ' इत्याह ऐत्थ उ पसत्यभावप्पसइमेत्तं विसेसओऽहिगयं । अपसत्थावगमो विय सेसा वि तदंगभावाओ ॥१५४४॥ इह च प्रक्रमे सामायिकाध्ययनं प्रस्तुतम् । तच्च क्षायोपशामके भावे वर्तते । अन इह तस्यैव प्रशस्तक्षायोपशमिकभावस्य या प्रसूतिमहावीरात् तनिर्गमरूपा, तयैव विशेषतोऽधिकृतमधिकारः । तथा, अपशस्तमिथ्यात्वादिविषयौदायिकभावस्य योऽपगमो विनाशस्तेनापि चाधिकारः, तदपगमाभावे प्रशस्तभावप्रसूतेरेवायोगादिति । शेषास्तु निर्गमभेदारतदङ्गभावेन प्रशस्तभावनिर्गमकारणतयाऽऽनन्तर्येण पारम्पर्येण वा कोऽपि कथञ्चित् व्यापियत इतीह निर्दिष्टा इति ॥ १५४४॥ रूपादयः पुद्गलात् कपाय-ज्ञानादयश्च जीवात् । निर्गच्छन्ति प्रभवन्ति ते वा तेभ्यतद्वियोगे ॥ १५४२ ॥ सत्र प्रशस्तं मिथ्यारवा-ज्ञाना-विरतिभावनिर्गमनम् । जीवस्य संभवन्ति च यत् सम्यकवादयस्ततः ।।५४३ ॥ तु प्रशसभावप्रसूनिमा विशेषतोऽधिकृतम् । प्रशसापगमोऽपिच शेषा अपि समभावात् ॥१५॥ सदङ्गत्वमेव द्रव्यादीनां दर्शयति-- वीरो दब्बं खेत्तं महसेणवर्ण पमाणकालो य । भावो य भावपुरिसो समासओ निग्गमंगाई ॥ १५४५ ।। यतो द्रव्यात् सामायिक निर्गतं तद् द्रव्यमत्र श्रीमन्महावीरों मन्तव्यः । यस्मिंश्च क्षेत्रे तद् निर्गतं तदिह महसेनवनमवगन्तव्यम् । कालस्तु प्रथमपौरुषीलक्षणः प्रमाणकालः । भावस्तु भावपुरुषो वक्ष्यमाणलक्षणः। एतानि समासतः संक्षेपतः सामायिकस्य निर्गमाङ्गानीति ॥ १५४५॥ एतदेव दर्शयति-- सामइयं वीराओ महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं ॥१५४६॥ गतार्था । नवरं श्रीमन्महावीरजीवलक्षणाद् भावपुरुषादयं वक्ष्यमाणविस्तरस्वरूपः सामायिकलक्षणो भावो विनिर्गतः । इह च सायोपशपिके भावे वर्तमानत्वात 'सामायिक भावः' इत्युक्तम् ॥ १५४६ ॥ अथ महावीरलक्षणस्य द्रव्यस्य निर्गमं तावदभिधित्सुराह-- इच्चेवमाइं सव्वं दव्वाहीणं जओ जिणस्सेव । तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तओ ॥ १५४७ ॥ इत्येवमादिक क्षेत्र-कालनिर्गमनादिकं सामाग्निकाध्ययना-ऽऽवश्यकश्रुतस्कन्धा-ऽऽचारादिकं वा सर्वमपि यतो यस्मा द्रव्यस्य महावीरलक्षणस्याधीनम् । ततस्तस्यैव महावीरजिनस्य निर्गमनमुक्त्वा ततः सामायिकस्य निर्गमनं वक्ष्य इति ॥ १५४७॥ ननु महावीराजेनस्यापि निर्गमनं कथं वक्तव्यम् ? इत्याह-- "मिच्छत्ताइतमाओ स निग्गओ जह य केवलं पत्तो । जह य पसूर्य तत्तो सामइयं तं पवक्खामि ॥१५४८॥ समिति तदेतत् सर्व प्रवक्ष्यामि ॥ इति गाथापश्चदशकार्यः ॥ १५४८॥ वीरो अध्य क्षेत्र महासेनवनं प्रमाणकालमा । भावस भावपुरुषः समासतो निर्गमानानि ॥१५४५. २ सामायिक वीरा महासेनवने प्रामाणकाले । भावपुरुषादि भावो विनिर्गतो वक्ष्यमाणोऽयम् ॥ 144॥ इत्येवमादि सर्व प्रयाधीनं यतो जिनस्यैव । ततो निर्गमनमुक्या वक्ष्ये सामायिकस्य ततः॥ १५॥ मिध्यावादितमसः स मिर्गतो यथा च केवलं प्राप्तः । यथा च प्रसूनं ततः सामायिकं तत् प्रवक्ष्यामि ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 334 335 336 337 338 339