Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
... 319 विशेषा मदाने केवलं त्वम् , अहं च क्लेशमेवानुभवावः । तदित्थं खदोषापतिपत्तौ गुरुदोषोद्भावनेनाभीरमिथुनस्यैव गुरु-शिष्ययोः कलह एव प्रवर्तते । तथाच सति व्याख्याव्यवच्छित्ति-मूत्रा-ऽर्थहान्यादयो दोषाः। . अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः, तथाहि- अन्योऽप्याभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थ गतः। कलत्रस्य च चारके समर्पिते भने 'अहो ! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति बुवाणो झगिति गन्त्र्याः समुत्तीर्य कर्परकैर्वृतं संवृणोति । भार्याऽपि 'धिग मयाऽनुपयुक्तया दुष्परिगृहीतः कृतोऽसौ, तेन भन्नः' इति वदन्ती तथैव तत् संवृणोति । ततश्चान्योन्यं कलहेऽज्ञात उभयसंवृत्या घृतं शीघ्रमेव विक्रीतम् । सार्थिकैश्च सह क्षेमेण स्वस्थान जग्मतुः । एवं गुरु-शिष्या अपि स्वदोष प्रतिपद्यमानाः परदोषं तु निनुवाना येज्योन्यं न विवदन्ते, त एव सूत्रा-ऽर्थग्रहण-प्रदानयोर्योग्या भवन्ति, निर्जरादिलामभागिनश्चेति ॥ १४८१॥
तदेवं योग्या-ऽयोगान् गुरून् शिष्यांवोपदोपसंहारपूर्वकं तत्फलमाह
भणिया जोग्गा-जोगा सीसा गुरवोय तत्थ दोण्हं पि। पेयालियगुण-दोसो जोग्गो जोग्गस्स भासेजा॥१४८२॥
भणिता योग्या-ऽयोग्या गुरु-शिष्याः । तत्र द्वयोरपि गुरु-शिष्ययोविंचारितगुण-दोषो योग्यो गुरुयोग्याय शिष्याय सूत्रा-ौँ भाषेतेति ॥ १४८२॥
अथ क्रमप्रातमुपोद्वातद्वारमभिधित्सुः प्रस्तावनामाह
कैयमंगलोवयारो संपइ वण्णियपसंगवक्खाणो । दाइयवक्खाणविही वोच्छमुवग्घायदारविहिं ॥१४८३॥
तदेवं 'तित्थयरे भगवंते' इत्यादिना कृतमलोपचारो वर्णितप्रसङ्गागतजिनप्रवचनोत्पत्यादिव्याख्यानः पूर्वोक्तकारणाद् दर्शितव्याख्यानविधिश्च, सांप्रतं उपोद्धननं व्याख्येयस्य सूत्रस्य व्याख्यानविधिसमीपीकरणमुपोद्धातः, तद्विषयो द्वारविधिस्तं वक्ष्ये ॥ इत्येकोनत्रिंशद्गाथार्थः॥१४८३ ॥
स चार्य द्वारविधिः । कः? इत्याह
उद्देसे निदेसे य निग्गमे खत्त-काल-पुरिसे य । कारण-पच्चय-लक्खण-नए समोयरणा-णुमए ॥ १४८४ ॥ वारके- भणिता योग्या अयोग्याः शिष्या गुरवच, तत्र द्वयोः । विचारितगुण-दोषो योग्यो योग्याय भाषेत ॥१५८२ ॥+संवित्था
२ कृतमङ्गलोपचारः संप्रति वर्णितप्रखजाण्याख्यानः। दर्शितव्याख्यानविधिर्वक्ष्ये उपोदातद्वारविधिम् ॥ १४८३॥ गाथा १.२५।
४ उदेशश्न निर्देशो निर्गमश्च क्षेत्र-काल-पुरुषाश्च । कारण प्रत्यय-लक्षण-नयाः समवतारा-ऽनुमतौ ॥ १४८४ ॥ 'कि कइविहं करस कहि केसु कह केचिरं हवइ कालं । कइ संतरमविरहियं भवा-गरिस-फोसणनिरुत्ती ॥१४८५।।
उद्देशन वस्तुनः सामान्याभिधानमुद्देशः, यथा- 'अध्ययनम्' इति । वक्तव्य इति क्रिया सर्वत्र द्रष्टव्या। तथा, निर्देशनं वस्तुन एव विशेषाभिधानं निर्देशः, यथा 'सामायिकम्' इति । निर्गमनं निर्गमः 'कुतः सामायिक निर्गतम्' इत्येवंरूपो वक्तव्यः । तथा, क्षेत्रकालौ च ययोः सामायिकमुत्पन्न, तौ वक्तव्यौ । यद् वक्ष्यत्यत्रैव
'वइसाहसुद्धएकारसीए पुब्वण्हदेसकालम्मि । महसेणवणुज्जाणे अणंतरं परंपर सेसं ॥ १ ॥ इति । तथा, कुतः पुरुषात् तद् निर्गतमिति वक्तव्यम् । तथा, 'केन कारणेन गौतमादयः सामायिक भगवतः समीपे शृण्वन्ति' इत्येवंरूपं कारणं वाच्यम् । तथा च वक्ष्यति- 'गोयममाई य सामाइयं तु किंकारणं निसामंति' इत्यादि । तथा, प्रत्याययतीति प्रत्ययः स वक्तव्यः, केन प्रत्ययेन भगवता सामायिकमुपदिष्टम्, केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तत् शृण्वन्ति , इत्येतद् वाच्यमित्यर्थः । तथाचाभिधास्यति
"केवलनाणि त्ति अहं अरिहा सामाइयं परिकहेइ । तेसि पि पच्चओ खलु सव्वण्णू तो निसामति ॥ १॥ तथा, सम्यक्त्वसामायिकस्य च तत्त्वश्रद्धानं लक्षणं वक्तव्यम् , श्रुतसामायिकस्य जीवादिपरिज्ञानम् , चारित्रसामायिकस्य सावद्यविरतिः, देशविरतिसामायिकस्य तु विरत्य-ऽविरतिस्वरूपं मिश्रलक्षणम् । तथा च सति निर्देक्ष्यति- संदहण-जाणणा खलु विरई मीसं च लक्खणं कहए' इत्यादि । एवं नैगमादयो नया बाच्याः । तेषां य नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः। यतोऽभिधास्यति
'मूनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥ १॥' . इत्यादि । तथा, कस्य व्यवहारादिनयस्य किं सामायिकमनुमतमिति निर्देष्टव्यम् । तथाच निर्देक्ष्यति
1 किं कतिविधं कस्य कुत्र केषु कथं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भवा-ऽऽकर्ष-स्पर्शननिरुक्तिः ॥ १४८५ ॥ २ वैशाखशुक्लकादश्यां पूर्वाहदेशकाले । महासेनवनोद्यानेऽनन्तरं परंपरं शेषम् ॥1॥ . गीतमादयश्च सामायिकं तु किंकारणं निशाम्यन्ति ।। - केवलज्ञानीत्यहमहन् सामायिक परिकथयति । तेषामपि प्रत्ययः खलु सर्वज्ञ इति निशाम्यन्ति 1॥ ५ श्रद्धान-शाने खलु विरति मिथं च लक्षणं कथयति । 1 मूवनयिकं श्रुतं कालिक तु न नयाः समवतरन्तीह । अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः ॥1॥
For Private and Personal Use Only

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339