Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 333
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 326 विशेषा. ततो निर्दिष्टस्य सामायिकाथस्य त्रिलिङ्गत्वाद् निर्देश्यवशादपि संग्रह-व्यवहारमतेन सामायिकस्य त्रिलिङ्गानापि भवति, यथा 'सामायिक स्त्री' इत्यादि, एतच्च स्वयमेव द्रष्टव्यम् ॥ १५१३ ॥ १५१४ ॥ "निसियमुज्जुसुओ' इति व्याचिख्यासुराहउज्जुसुओ निदेसगवसेण सामाइयं विणिदिसइ । वयणं वत्तुरहीणं तप्पज्जाओ य तं जम्हा ॥१५१५॥ . ऋजुमूत्रनयो निर्देशकवशेनाभिधालुपारतन्येण सामायिक निर्दिशति, यदेव निर्देशकस्य लिङ्ग तदेव सामायिकस्यासौ मन्यते, यथा- 'सामायिकं स्त्री इत्यादि, वचनस्य वक्त्रधीनत्वात् , तत्पयार्यत्वाच, विज्ञानवदिति ॥ १५१५॥ .. अथ वचनस्य वक्त्रधीनत्वे युक्तिमाह कैरणत्तणओ मण इव सपजयाओ घडाइरूवमिव । साहीणत्तणओ विय सधणं व वओ वयंतस्स ॥१५१६॥ 'वदत एव संवन्धि वचः" इति पर्यन्ते प्रतिज्ञा । अत्र सदृष्टान्तान् हेतूनाह- करणत्वात् , मनोवत् । तथा, स्वपर्यायत्वात् , घटादे रूपादिवत् । तथा, स्वाधीनत्वात् , स्वधनवदिति ।। १५१६ ॥ युक्त्यन्तरमाहतह सुत्त-दुरुत्ताओ तस्सेवाणुग्गहो-वघायाओ । तस्स तयमिदियं पिव इहरा अकयागमो होज्जा ॥ १५१७ ॥ 'तस्यैव वक्तुस्तद् वचः' इति पक्षः, वचनस्य सूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरेवानुग्रहो-पघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तस्य तदात्मीयम् , यथा देवदत्तादेरिन्द्रियम् , दृश्येतेच बचनमूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरनुग्रहो-पघातो, तस्मात् . तत् तस्यात्मीयम् । विपर्यये बाधकमाह- इतरथा अन्यथा वचनस्य वक्तुरसंबन्धित्वे तस्यानुग्रहो-पघातयोरकृताभ्यागम एव स्यादिति ॥ १५१७॥ अत्र पर: पाह १ गाथा १५०५। २ ऋजुसूत्रो निर्देशकवशेन सामायिकं विनिर्दिशति । वचनं वक्तुरधीनं तत्पर्यायश्च तद् यस्मात् ॥ १५१५ ॥ ३ करणत्वतो मन इव स्वपययाद् घटादिरूपमिव । स्वाधीनत्वतोऽपिच स्वधनमिव वचो वदतः ॥ १५॥६॥ ४ तथा सूक्त-दुरुकाभ्यां तस्यैवानुग्रहो-पघाताभ्याम् । तस्य तदिन्द्रियमिवेतरथाऽकृतागमो भवेत् ॥ १५१७ ॥ 'निद्देस्स वि कस्सचि नणूवघायाइओ तयं जुत्तं । ते तस्स सकारणाओ इहरा थाणुस्स वि हवेजा ॥१५१८॥ ननु न केवल निर्देशकस्य, किन्तु निर्दिष्टस्याप्यभिधेयस्यापि कस्यचित् तस्करादेवचनादुपघातादयो दृश्यन्ते, यथा- 'बध्यता, हन्यतां चायं तस्करः, मुच्यतां चायम्' इत्याद्युक्ते तस्य विपादाद्युत्पत्तरुपघातादयोऽध्यक्षत एवोपलभ्यन्ते । अतस्तदर्शनाद् निर्दिष्टस्यापि संबन्धि तद् वचनं वक्तुं युज्यते । अत्रोत्तरमाह- 'ते इत्यादि' य इष्टा-ऽनिष्टवचनश्रवणात् तस्करादेनिर्दिष्टस्यानुग्रहादयो दृश्यन्ते ते तस्य स्वकीयश्रवणेन्द्रिय-मनःपुण्य-पापादिकात् कारणादेव मन्तव्याः, न त्विष्टा-निष्टवचनोक्तिमात्रात् , अन्यथा श्रोत्रादिकरणविकलानां स्थावादीनामपि तदुक्तिमात्रात् ते भवेयुरिति ॥ १५१८ ॥ वक्तृधर्मत्वमेव वचनस्य हेत्वन्तरोक्तेः समर्थयन्नाह सैरनामोदयजणियं वयणं देहो व्व वत्तुपजाओ । तं नाभिधेयधम्मो जुत्तमभावाभिहाणाओ ॥१५१९॥ ___ 'वक्तृपर्यायो वचनम्' इति प्रतिज्ञा, स्वररूपनामकर्मोदयजन्यत्वात् , इह यद् नामकर्मोदयजन्यं तत् तस्यैव वक्तुदेवदत्तादेः पर्यायः, यथा तस्यैव देहः, नामकर्मोदयजन्यं च वचनम् , तस्मात् तस्यैव वक्तुः पर्यायः । तत् तस्माद् न वचनमभिधेयधर्मो युक्तम् , किन्त्वभिधातुरेव । उपचयमाह- अभावस्यापि वचनेनाभिधानात् । इदमुक्तं भवति- अभावोऽपि हि वचनेनाभिधीयते, न च वचनं तद्धर्म इति वक्तुं शक्यते, अभावस्यासत्त्वात् , यदि च वचनं तद्धर्मः स्यात् , तदा सोऽपि भावः स्यात् , वचनाश्रयत्वात् , देवदत्तादिनदिति ॥ १५१९ ॥ ___ यस्यापि च घटादिशब्दाभिधेयस्य घटादेर्भावस्य वचनं तत्मत्ययकारणत्वाद् धर्मत्वेनाभ्युपगम्यते, तत्रापि पृच्छयते । किम् ? इत्याह भावम्मि वि संबद्धं तमसंबद्ध व तं पगासेज्जा । जइ संबद्धं तिहुयणवावि त्ति तयं पगासेउ ॥ १५२० ॥ , भावेऽपि घटादिके वचनाभिधेये पृच्छामो भवन्त- तद् वचनं तत्र भावे किं संबद्धं सत् तं भावं प्रकाशयति, आहोखिदसंबद्धम् । १ निर्दिष्टस्यापि कस्यचिद् ननूपघातादितस्तद् युक्तम् । ते तस्य स्वकारणादितरथा स्थाणोरपि भवेयुः ॥ १५१८॥ २ स्वरनामोदयजनितं वचनं देह इन वक्तृपर्यायः । तद् नाभिधेयधर्मों युक्तमभावाभिधानात् ॥ १५१९॥ ३ भावेऽपि संबद्धं तदसंबद्ध वा तं प्रकाशयेत् । यदि संबद्धं त्रिभुवनव्यापीति तत् प्रकाशयतु ॥ १५२० ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339