Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 331
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir .324 विशेषाः नैके गमा वस्तुधर्मपरिच्छेदा यस्यासौ ककारवर्णनाशाद नैगमः, अनेकमकारवस्त्वभ्युपगमपर इत्यर्थः, नैगमश्चासौ नयश्च नैगमनयः । स द्विविधमपि 'निर्देश्यवशा निर्देशकवशाच निर्देशमिच्छति' इति शेषः, लोकव्यवहारपरत्वात् , अनेकगमरूपत्वाचास्य नयस्य । लोके च निर्देश्यवशात, निर्देशकवशाच निर्देशमवृत्तिश्यते । तत्र निर्देश्यवाद् यथा- 'वासवदत्ता, तरङ्गवती, प्रियदर्शनाकथा' इत्यादि । निर्देष्ट्रवशात्तु मनुना प्रणीतो मन्थो मनुः, अक्षपादेनोक्तोऽक्षपाद इत्यादि । लोकोत्तरे तु निर्देश्यवशात , षड्जीवनिकायमतिपादकमध्ययनं षड्जीवनिका, साध्वाचारमतिपादको ग्रन्थ आचार इत्यादि । तथा, निर्देशकवशाद् निर्देशो यथाकपिलेन प्रणीतं कापिलीयमध्ययनम् , हरिकेशिना प्रणीतं हरिकेशीयम् , केशि-गौतमाभ्यामभिहित केशि-गौतमीयम् , नन्दिसंहिता, जिनप्रवचनमित्यादि । एवं सावधविरमणरूपं सामायिक रूढितो नपुंसकमिति कृत्वा निर्देश्यवशाद् नैगमो नपुंसकनिर्देशमेवाऽस्य मन्यते, यथा- सामायिक नपुंसकमिति । तथा, सामायिक निर्देष्टुः स्त्री-पुं-नपुंसकलिङ्गत्वात् तद्वशात् सामायिकस्य त्रिलिङ्गताऽप्येतन्मतेन भवति, यथा सामायिक स्त्री, सामायिक पुरुषः, सामायिक नपुंसकमिति; यथा वा देवदचादिना घटादिशब्दे समुच्चारिते स घटादिशब्द उच्चारयितदेवदत्तादिपरिणामत्वाद् देवदत्तादिशब्दत्वेन व्यपदिश्यते; तथा, तदभिधेयपृथुवुनोदराद्याकारघटादिपदार्थपरिणामत्वाद् घटादिशब्दत्वेनापि लोके निर्दिश्यते । एवं स्वाभिधेयसावधविरमणपर्यायत्वात् सामायिकस्य नैगमो नपुंसकनिर्देशं मन्यते, अभिधायकस्त्री-पुरुषादिपरिणामत्वात्तु लिङ्गत्रयनिर्देशमप्यस्याभ्युपगच्छति, यथा 'सामायिक स्त्री' इत्यादि । नन्द) आह- 'दुविहं पि नेगमनओ' एतावन्मात्रोक्तौ 'निर्देश्यवशाद् निर्देशकवशाच द्विविधं निर्देशमिच्छति' इति कुतो लभ्यते ? इति । अत्रोच्यते- 'निद्दिढ संग्रहो य ववहारों' इति वचनात् । अत्र ह्ययमर्थः- निर्दिष्टमभिधेयं वस्त्वङ्गीकृत्य संग्रह-व्यवहारौ निर्देशमिच्छतः, निर्देश्यपर्यायवाद् वचनस्य, इत्यादियुक्तिश्च भाष्ये वक्ष्यते । तदिदं 'निर्दिष्टं वस्त्वाश्रित्य' इति वचनात् प्रागपि 'दुविहं पि' इत्यत्र निर्दिष्टनिर्देशकवशा निर्देश इति गम्यते । 'निदेसयमुज्जुसुउत्ति' निर्दिशतीति निर्देशको वक्ता तमङ्गीकृत्य ऋजुत्रो निर्देशमिच्छति, । यथा 'सामायिकं स्त्री' इत्यादिः वक्तृपर्यायत्वाद् वचनस्येत्यादि युक्तिरत्रापि भाष्येऽभिधास्यते । 'उभयसरिच्छं च सदस्स ति' उभयमिह निर्देश्यं निर्देशकं च वस्तु तस्योभयस्य सदृशं समानलिङ्गमवाश्रित्य शब्दनयस्य 'निर्देशप्रवृत्तिः' इति गम्यते । यदि हि निर्देश्य नपुंसकं तदा निर्देष्टाऽपि स्त्री-पु-नपुंसकलक्षणो नपुंसकमेव, वक्तुर्वाच्योपयोगानन्यत्वेन तद्रूपत्वात् । उपयोगप्रधाना हि शब्दनयाः, ततो यो यत्रोपयुक्तः स तद्रूप एव, यथाऽग्न्युपयुक्तोऽग्निः, तथा च सति स्त्री-पुरुषावपि यदा रूढितो नपुंसके सामायिक उपयुक्तौ भवतः, तदा निर्देश्यनपुंसकोपयुक्तत्वाद् नपुंसकमेव, तदुपयोगानन्यत्वेन तद्रूपत्वादिति । स्त्री पुरुषो वा नपुंसकं ब्रूत इत्यस्य त्वर्थस्य शब्दनयमतेनाऽसंभव एव ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १५०५॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकारः प्राह- .. में संववहारपरो णेगगमो णेगमो तओ दुविहं । इच्छइ, संववहारो दुविहो जं दीसए पायं ॥ १५०६ ॥ यद् यस्माल्लोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्माद् निर्देश्यवशाद् निर्देशकवशाच्च द्विविधमपि निर्देशमिच्छति । लोकव्यवहारश्च पायो द्विधां दृश्यते ॥ १५०६॥ कथम् ? इत्याह छज्जीवणियाऽऽयारो निदिवसेण तह सुयं चण्णं । तं चेव य जिणवयणं सव्वं निदेसयवसेणं ॥१५.७॥ जह वा निविठ्वसा वासवदत्ता-तरंगवइयाइं । तह निदेसगवसओ लोए मणुरक्खवाउ ति॥१५०८॥ लोको द्विधा- अर्थदर्शनानुगतो लोकोत्तररूपः, तद्वयतिरिक्तश्च । तत्र लोकोत्तरे निर्दिष्टार्थवशाद् निर्देशो यथा-पड्जीवनिका नामाध्ययनम् , आचारः, आवश्यकमित्यादि । 'तह सुयं चण्णं तं चेव येत्यादि' तथा, अत्रैव लोकोत्तरे तदन्यच्च श्रुतं निर्देशकवशात् सर्वमपि जिनप्रवचनमुच्यो । तथा, अन्यत् किमपि श्रुतं निर्देशकवशादेवीच्यते, यथा भद्रबाहुनिमित्तम् , नन्दसंहिता, कापिलीयमित्यादि । यथा वा, इतरलोके निर्दिष्टवशाद् वासवदत्ता, तरङ्गवतीत्यादि निर्देशः, निर्देशकवशात्तु मनुः, अक्षपाद इत्यादि ॥ १५०७॥१५०८॥ तथा किम् ? इत्याशय प्रकृते योजयत्राह तह निद्दिवसाओ नपुंसगं नेगमस्स सामइयं । थी पुं नपुंसगं वा तं चिय निदेसयवसाओ ॥१५०९॥ यथा पहजीवनिका. आचार इत्यादौ निर्दिष्टार्थवशा निर्देशः, तथात्रापि सावधविरमणलक्षणनिर्दिष्टनपुंसकार्यवशात यत् संव्यवहारपरो नैकगमो नैगमस्ततो द्विविधम् । इच्छति, संव्यवहारो द्विविधो यद् श्यते प्रायः ॥ १५०६॥ २ क. ग, ज, 'धापि दृ' । ३ परजीवनिकाऽऽचारो निर्दिष्टवशेन तथा श्रुतं चान्यत् । तदेव च जिमवचनं सर्व निर्देशकवशेन ॥ १५ ॥ यथा वा निर्दिष्टवशाद् वासवदत्ता-तरङ्गवत्यादि । तथा निर्देशकशतो लोके मनुरक्षपाद इति ॥ १५.८॥ ४ तथा निर्दिष्टवशाद् नपुंसक नैगमस्य सामायिकम् । स्त्री पुमान् नपुंसकं वा तदेव निर्देशकवशात् ॥ १५०९ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339