Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassarsur Gyanmandir
323 विशेषा० भावनीयेति । तेन वा सचित्तादिद्रव्यविशेषेण निर्देशः, यथा गोमानित्यादि, दण्डीत्यादि, रथीत्यादि ॥ १४९८ ॥
अथ क्षेत्र-कालनिर्देशाबाह-- खेत्ते भरहं तत्थ व भवो त्ति मगह त्ति मागहो व त्ति । सरउ ति सारउ त्तिय संवच्छरिउ त्ति कालम्मि॥१४९९॥
क्षेत्र क्षेत्रीत्यादिकः क्षेत्रोद्देश उक्तः, इह तु तदेव विशिष्ट क्षेत्र क्षेत्रनिर्देशः, यथा 'भरतम्' इत्यादि । अथवा. 'मगह त्ति'. मगधा जनपद इत्यादि । तस्मिन् वा क्षेत्रविशेषे भवः क्षेत्रनिर्देश उच्यते, यथा भारत इत्यादि । एतच्च स्वयमेव द्रष्टव्यम् । मगधासु भवो मागध इत्यादि । एतत्तु गाथायामप्यस्तीति । 'कालो कालाईय' इत्यादिकः कालोदेश उक्तः इह तु तस्यैव कालस्य विशिष्टस्य विशिष्टमभिधानं स कालनिर्देशः, यथा शरदित्यादि । तत्र वा कालविशेषे भवः कालनिर्देशोऽभिधीयते, यथा शरदि भवः शारदः, संवत्सरे भवः सांवत्सरिक इत्यादि ॥ १४९९ ।।
अथ समासनिर्देशम् , उद्देशनिर्देशं नाहआयारो आयारवमायारधरो त्ति वा समासम्मि। आवस्सयमावासइ सुत्तत्थधरोऽहवा यं ति ॥ १५०० ॥ सत्थपरिण्णाई य व अज्झेयाऽयं समासनिदेसो । उद्देसयनिद्देसो सपएसो पोग्गलुद्देसो ॥ १५०१ ॥
विस्तरवतो वस्तुनः संक्षेपः समासः, तस्य सामान्याभिधानं समासोद्देश उक्तः । इह तु तस्यैव समासस्य विशेषाभिधानं समासनिर्देशः । तत्र चाङ्ग-श्रुतस्कन्धा-ऽध्ययनभेदात् त्रिविधः समासोदेशः पूर्वमुक्तः । इह तु तेषामेव प्रयाणामङ्गादीनां विशेषाभिधानरूपखिविध एव समासनिर्देशः । तथा चाह- 'आयारो इत्यादि' आचाररूपेणाऽङ्गविशेषाभिधानेन निर्देश्यमानत्वादाचार इति समासनिर्देशः । तेन वाऽऽचारसमासेन निर्देशो यथा-आचारवानित्यादि । तस्माद्वाऽऽचारसमासाद् निर्देशो यथा-आचारधर इत्यादि । श्रुतस्कन्धसमासनिर्देशो यथा- आवश्यकमिति । तेन वाऽऽवश्यकसमासेन निर्देशो यथा- आवश्यकीति । अथवा, तस्मादावश्यकसमासाद् निर्देशो यथा- आवश्यकमूत्रा-ऽर्थधरोऽयमिति । अध्ययनमाश्रित्य समासनिर्देशः कः? इत्याह- 'आचाराने प्रथममध्ययन
क्षेत्रे भरतं तत्र ना भव इति मगधा इति मागधो वेति । शरदिति शारद इति च सांवत्सरिक इति काले ॥ १४९९ ॥ २ गाथा १४९३ । ३ आचार आचारवानाचारधर इति वा समासे । आवश्यकमावश्यकी सम्रा-ऽर्थधरोऽधयाडामिति ।।१५..॥
शाम्रपरिशादिश्र वाऽध्येताऽयं समासनिर्देशः । उद्देशकनिर्देशः सप्रदेशः पुद्गलोदेशः ।। १५० ॥ शस्त्रपरिज्ञा' इत्यादि । तेन वा शत्रपरिज्ञासमासविशेषेण निर्देशो यथा- 'अज्ञयाऽयं ति' शस्त्रपरिज्ञाध्येताऽयमित्यर्थः, इत्यादि समासनिर्देशः । उद्देशनिर्देशस्तु स उच्यते । कः ? इत्याह- 'पएसो त्ति' अध्ययनस्य प्रदेशोश इत्यर्थः, यथा भगवत्यां पुनलोद्देशकः, तस्य निर्देशोऽभिधानमुदेशनिर्देश इत्यादीति ॥ १५०० ॥ १५०१॥ अथ भावनिर्देशं, यकाभ्यां चोदेश-निर्देशाभ्यामिहाधिकारस्तदाह
ओदइओ खइउ त्ति व नाणं चरणं ति भावनिदेसो । एत्थ विसाहिगओ समासउद्देस निदेसो ॥१५०२॥ अज्झयणं उद्देसो तं चिय सामाइयं ति निदेसो । बुद्धीए जहासंभवमाजोज्ज सेसएसुं पि ॥ १५०३ ॥
औदयिको भावः, क्षायिको भाव इत्यादि, अथवा, ज्ञानं दर्शनं चारित्रमित्यादिको ज्ञानादीनां क्षयिक-क्षायोपशमिकभाववृत्तित्वाद् भावनिर्देशः । इह च प्रत्येकमष्टविध उद्देशे निर्देशे च समासोद्देशः समासनिर्देशश्च विशेषणाधिकृत; तथाहि- प्रस्तुते 'अध्ययनम्' इत्येष समासोद्देशः, 'सामायिकम्' इति च विशेषाभिधानरूपत्वात् समासनिर्देशः । एवं स्वबुद्ध्या यथासंभवं शेषेष्वपि श्रुतस्कन्ध-चतुर्विंशतिस्तवाध्ययनेष्वायोज्यम् , यथा श्रुतस्कन्ध इति समासोद्देशः, आवश्यकमिति समासनिर्देश इत्यादि ॥ १५०२ ॥ १५५३ ॥
उत्तरगाथासंबन्धनार्थमाहसामाइयं ति नपुंसयमस्स पुमं थी नपुंसगं वावि । निदिट्ठा तत्थिच्छइ कं निद्देसं नओ को गु १ ॥१५०४॥
इह सामायिकमिति नपुंसकतया रूढम् । अस्य च त्रिविधो निर्देष्टा- उच्चारयिता, स्त्री-पु-नपुंसकभेदात । तत्रेदं नयैर्विचा. येते- 'को नयः के निर्देश मिच्छति -किं निर्देश्यवशात , निर्देशकवशावू वा?' इति विनेयः पृच्छति ॥ इति गाथासप्तकार्थः॥१५०४||
अमिश्च प्रश्ने सत्याहदुविहं पि नेगमनओ निदिटुं संगहो य ववहारो । निदेसयमुज्जुसुओभयसरिच्छं च सदस्स ॥ १५०५ ॥
. औदयिकः क्षयिक इति वा ज्ञानं चरणमिति भावनिर्देशः । अत्र विशेषाधिकृतौ समासोद्देश-निर्देशौ ॥ १५०२ ॥
अध्ययनमदेशस्तदेव सामायिकामिति निर्देशः। बुड्या यथासंभवमायोज्यं शेषकेष्वपि ॥ १५०३॥ " २ सामायिकामति नपुंसकमस्य पुमान् स्त्री नपुंसकं वापि । निर्देष्टा तत्रेच्छति के निर्देशं नयः को नु॥ १५०४ ॥ । द्विविधमपि नैगमनयो निर्दिष्टं संग्रहश्च व्यवहारः । निर्देशकमजुसूत्रोभयसदृशं च शब्दस्य ॥ १५०५॥
For Private and Personal Use Only

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339