Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 324
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org ArtiasmKalammacundyanmande 317 विशेषा० मेषोदाहरणमाह अवि गोपयम्मि पिवे सुढिओ तणुयत्तणेण तुंडस्स । न करइ कलुसं तोयं मेसो एवं सुसीसो वि ॥१४६९॥ . जलभृते कचिद् गोष्पदेऽपि 'सुढिउत्ति' संकुचिताको मेष ऊरणकः पिबेज्जलम् , न च तत् कलुषं करोति । केन हेतुना ? इत्याह तनुकत्वेनाग्रभागे श्लश्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवनम्य तीक्ष्णेम मुखेन तथासौ जलं पिबति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्योऽपि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति यथा तस्य, परिषदो वा न कस्यचिद् मनोवाधादिक कालुष्यं भवतीति ॥ १४६९ ॥ मशक-जलूकोदाहरणद्वयविकृतिमाह-- मैसउ व्ब तुदं जच्चाइएहिं निच्छुब्भए कुसीसो वि। जलुगा व अदूमंतो पिबइ सुसीसो वि सुयनाणं ॥१४७०॥ यथा मशको जन्तूंस्तुदते व्यथयति । ततश्च वस्खाश्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्घाटनैर्गुरु तुदन व्यश्रयमानो निश्कास्यते परिहियत इति । जलूका पुनर्यथाऽसग पिवति, न चामुग्मन्तं व्यथयति, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिबति गृह्णाति न तु जात्युद्धाटनादिना दुनोतीति ॥ १४७० ॥ विडाल्युदाहरणमाह छेड्डेउं भूमीए खीरं जह पियइ दुट्ठमजारी । परिसदुठियाण पासे सिक्खइ एवं विणयभंसी ॥ १४७१ ॥ यथा दुष्टमार्जारी तथाविधस्वभावतया स्थाल्याः क्षीरं भूमौ छर्दयित्वा पिबति, न पुनस्तत्स्थम् । तथाच सति न तत् तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी विनयकरणभीरुः कुशिष्यो गोष्ठामाहिलवत् परिषदुत्थितानां विन्ध्यादीनामिव पार्थे शिक्षते श्रुतं गृह्णाति, न तु गुरोः समीपे, तद्विनयकरणभयात् । इह च दुष्टमार्जारीस्थानीय. कुशिष्यः, भूमिकल्पस्तु परिषदुत्थिताः शिष्याः, छर्दितदुग्धपानसदृश तु तद्गतश्रुतश्रवणमिति ॥ १४७१ ॥ । अपि गोष्पदे पिछेद् मेपकस्तनुकत्वेन तुण्डस्य । न करोति कलुष तोयं मेष एवं सुशिष्योऽपि ॥ १४६९ ॥ २ मशक हव तुदात्यादिभिनिष्कास्यते कुशिष्योऽपि । जलकेवाऽदुनन् पिबति सुशिष्योऽपि श्रुतज्ञानम् ॥ १७ ॥ पर्दयित्वा भूमी क्षीरं यथा पियति दुष्टमार्जारी । परिषदुस्थिताना पाचे शिक्षत एवं विनयशी ॥१ ॥ जाहकोदाहरणमाहपाउं थोडं थोडं खीरं पासाई जाहगो जह लिहइ । एमेब जियं काउं पुच्छइ मइमं न खेएइ॥१४७२ ॥ यथा भाजनगतं क्षीरं स्तोकं स्तोकं पीत्वा ततो जाहकः सेहलको भाजनस्य पार्थानि लेढि, पुनरपि च स्तोकं तत् पीत्वा भाजनपार्थानि लेडि, एवं पुनः पुनस्तावत् करोति यावत् सर्वमपि क्षीरं पीतमिति । एवं मतिमान् सुशिष्योऽतनं गृहीतं श्रुतं जितं परिचितं कृत्वा पुनरन्यद् गृह्णाति, एवं पुनः पुनस्तावद् विदधाति यावत् सर्वमपि श्रुतं गुरोः सकाशाद् गृह्णाति, नच गुरुं खेदयतीति ॥ १४७२ ॥ ___ अथ गोदृष्टान्त उच्यते- तत्र च केनापि यजमानेन वेदान्तर्गतग्रन्थविशेषाध्ययननिमित्तचरणशब्दवाच्येभ्यश्चतुर्यो बाह्मणविशेषेभ्यो गौः प्रदत्ता। प्रोक्ताश्र तेन ते ब्राह्मणा:- 'वारकेणासौ भवद्भिर्दोग्धव्या' इति । अन्येभ्योऽपि च चतुर्यश्चरणद्विजेभ्यो गौरेका तेन पदत्ता । तेऽपि च तेन तथैवोक्ताः। तत्र च प्रथमद्विजानां मध्ये ज्येष्ठब्राह्मणेन केनचिद् गौः खग्रहे नीत्वा दुग्धा । ततश्चारीप्रदानवेलायां चिन्तितं तेन । किम् ? इत्याह अन्नो दोजिइ कल्ले निरत्थियं किं वहामि से चारिं । चउचरणगवी उ मया अवन्न-हाणी य बहुयाणं ॥१४७३॥ तेनैतचिन्तितम्- हन्त ! वारकमाप्तोऽन्यो ब्राह्मणः कल्ये तावदेतां धेनुं धोक्ष्यति, तत् किमद्य निरर्थिकामस्याश्चारी बहामि । कल्येऽन्योऽपि हि तां दास्यति, इति विनिश्चित्य न तस्याश्वारी प्रदत्ता । ततो द्वितीये दिने द्वितीयेनापि द्विजातीयेन तथैव कृतम् । एवं तृतीये दिने तृतीयेनापि, चतुर्थे दिने चतुर्थेनापि तथैव चेष्टितम् । इत्थं च चारीविरहिता दुह्यमाना कतिपयदिनमध्ये चतुर्णा चरणानां संवन्धिनी सा गौप॑ता । ततश्च तेषां बहूनां गोहत्या समभवत् । जने चावर्णवादो जातः, हानिश्च, तेषां ततो यजमानात् , अन्यस्माद् वा पुनर्गवादिलाभाभावादिति ॥ १४७३॥ अन्यैश्च यैश्चतुर्भिश्चरणगौर्लब्धा, तन्मध्ये प्रथमद्विजस्ता दुग्ध्वा चारीमदानवेलायामचिन्तयत् , किम् १, इत्याहमा मे होज अवण्णो गोवज्झा वा पुणो वि न दविज्जा। वयमवि दोज्झामो पुणो अणुग्गहो अन्नदुडे वि॥१४७४॥ .पीवा स्तोकं स्तोकं क्षीरं पार्थानि जाहको यथा लेदि । एवमेव जितं कृत्वा पृच्छति मतिमान् न खेदयति ॥ १४७२॥ २ अन्यो धोक्ष्यति कल्ये निरर्थिका किंबहामि तस्याबारीम् । चतुश्चरणगौस्तु मृताऽवर्ण-हाम्यौ च बहुकानाम् ॥१३॥ ३ मा मम भूदवर्णो गोहत्या वा पुनरपि न दास्यति । अयमपि धोक्ष्यामः पुनरजुग्रहोऽन्यदुग्धायामपि ॥१४॥ . se For Private and Personal Use Only

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339