Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
316 विशेषाः तावसखउरकठिणयं चालणिपडिवक्खो न सबइ दव्वं पि । परिपूणगम्मि उ गुणा गलति दोसा य चिट्ठति॥१४६५॥
चालनीप्रतिपक्षः भवति' इति शेषः । कीदृशः ? इत्याह- तापसानां भोजनादिनिमित्तमुपकरणविशेषः 'खउरकठिनकम्' उच्यते। तच्च किल वंशं शुम्बादिकं च द्रव्यमतिश्लक्ष्णं कुट्टयित्वा कमठकाकारं क्रियते । इदं चातिनिबिडत्वाद् द्रव्यं, जलमपि प्रक्षिप्तं न स्रवति, किन्तु सम्यग् धरति । एवं शिष्योऽपि यो गुरुभिराख्यातं सर्वमेव धरति, न विस्मरति, स ग्राह्यः, चालनीसमस्त्वग्राह्य इति भावः।
अथ परिपूणकोदाहरणमाह- 'परिपूणग-' इत्याद्युत्तरार्धम् । परिपूणको नाम सुघरीचिटिकाविरचितो नीडविशेषः, तेन च किल घृतं गाल्यते, ततस्तत्र कचवरमवतिष्ठते, घृतं गलित्वाऽधः पतति, एवं परिपूणकसदृशः शिष्योऽप्युपचारात् परिपूणकः । तत्र हि श्रुतसंबन्धिनो गुणाः सर्वेऽपि घृतवद् गलन्ति, दोषास्तु घृतगतकचवरवदवतिष्ठन्ते, श्रुतस्य दोषानेव गृह्णाति, गुणांस्तु सर्वथा परिहरत्यसौ, अतोऽयोग्य इति भाव इति ।। १४६५ ॥
अत्र प्रेर्यमुत्थाप्य परिहरनाह
सवण्णुपामन्ना दोसा हु न संति जिणमए केइ । जं अणुवउत्तकहणं अपत्तमासज्ज व हवेज ॥१४६६॥
ननु सर्वज्ञप्रामाण्यात् सर्वज्ञोऽस्य प्रवर्तक इति हेतोर्जिनमते दोषाः केचिदपि न सन्तीत्यर्थः, तत् कथमस्य कोऽपि दोषान् ग्रहीष्यति, असत्त्वादेव इति भावः । सत्यम् , किन्तु यद्यपि जिनमते दोषा न सन्ति, तथाऽप्यनुपयुक्तस्य गुरोर्यत् कथनं व्याख्या
विधानं तदाश्रित्य दोषा भवेयुरिति संबन्धः । अथवा, अपात्रमयोग्यं शिष्यमङ्गीकृत्य जिनमतेऽपि तदुत्पेक्षिता दोषा भवेयुः, चिर्दोष) ऽपि जिनमतेऽपात्रभूताः शिष्या असतोऽपि दोषानुद्भावयन्त्येवेत्यर्थः । तथाच ते वक्तारो भवन्ति, तद्यथा
"पोगयभासनिबद्धं को वा जाणइ पणीय केणेयं । किंवा चरणेणं णु दाणेण विणा उ हवइ ति ॥१॥
कायावया य त च्चिय ते चेव पमाय-अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं कजं ! ॥२॥ , तापस-'उरकठिनक' चालनीप्रतिपक्षो न सवति दव्यमपि । परिपूर्णके तु गुणा गलन्ति दोषाश्च तिष्ठन्ति ॥ ११६५ ॥ २ क.ग. 'वंशकुन्दादिकं द्र। ३ सर्वज्ञप्रामाण्याद् दोषाः खलु न सन्ति जिनमते केचित् । यदनुपयुक्तकथनमपात्रमासाच वा भवेयुः ॥ १४६६ ॥ ४ प्राकृतभाषानिबद्धं को वा जानाति प्रणीतं केनेदम् ? । किंवा चरणेन नु दानेन विना तु भवतीति ॥1॥ कायापदश्च ता एवं तावेव प्रमादा-प्रमादौ च । मोक्षाधिकारिकाणो ज्योतियोनिभिः किं कार्यम् ॥१. कामा: बतायतन
को आउरस्स कालो महलंबरधोयणे य को कालो ! । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा! ॥३॥".. इत्यादि । असन्तश्च सर्वेऽप्यमी दोषाः,
"बाल-स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥१॥"
"पुव्वभणियं पिजं वत्थु भण्णए तत्थ कारणं अस्थि । पडिसेहो य अणुन्ना बत्थुविसेसोबलभो वा ॥१॥" इत्यादिना शास्त्रान्तरे विस्तरेण निराकृतत्वादिति ॥१४६६ ॥ अथ हंसोदाहरणव्याख्यामाहअंबत्तणेण जीहाए कूचिया होइ खीरमुदगम्मि । हंसो मुत्तूण जलं आवियइ पयं तह सुसीसो ॥१४६७॥
दुग्धं च जलं च मिश्रयित्वा भाजने व्यवस्थाप्य कोऽपि हंसस्य पानार्थमुपनयति । स च तन्मध्ये चञ्चुं प्रक्षिपति । तस्य च जिहा स्वभावत एवाम्ला भवति । तेन च जिह्वाया आम्लत्वेन हेतुभूतेनोदकमध्यगतं दुग्ध विलित्वा कूचिका बिन्दुरूपा बुद्बुदा भवन्तीत्यर्थः । ततश्च जलं मुक्त्वा तद् बुबुदीभूतं दुग्धमापिबति हंसः । तथा सुशिष्योऽपि गुरोर्जलस्थानीयान् दोषान् परित्यज्य दुग्धस्थानीयान् गुणान् गृह्णातीत्यर्थ इति ॥ १४६७॥
अथ महिषोदाहरणं विवृण्वन्नाह- . सैंयमविन पियइ महिसो न य जूहं पियइ लोडियं उदग। विग्गह-विगहाहि तहा अत्थकुपुच्छाहिय कुसीसो ॥१४६८॥
खयुथेन समं वनमहिषो जलाशये कचिद् गत्वा तन्मध्ये च प्रविश्योद्वर्तन-परावर्तनादिभिस्तथा तज्जलमालोडयति यथा कलुषित सदन स्वयं पिबनि, नापि तयूथम् । एवं कुशिष्योऽपि व्याख्यामण्डालिकायामुपविष्टो गुरुणा, अन्येन चा शिष्येण सह विग्रह कलहमुदीरयति, विकथाप्रबन्धं वा किचिच्चालयति, संबद्धा-संबद्धरूपाभिरनवरतमुपर्युपरि पृच्छाभिश्च तथा कथश्चिद् व्याख्यानमालोडयति, यथा नात्मनः किश्चित् पर्यवस्यति, नापि शेषविनेयानामिति ॥ १४६८ ॥
आतुरस्य कालो मलिनाम्बरधावने च कः कालः । यदि मोक्षहेतुशेनं कः कालस्तस्थाऽकालो वा!॥३॥ पूर्वभणितमपि पद वस्तु भण्यते तत्र कारणमसि । प्रतिषेधश्चानुज्ञा वस्तविशेषोपलम्भो वा ॥1॥x बिनलित्पा.विसटिसाबाम्हत्वेन जिवायाः कृषिका भवति क्षारमुदके । सो मुक्त्वा जलमापिबति पयस्तया शिष्यः । 1080॥ . स्वयमपि न पिवति महिषो न पूर्व पिवति कोरितमुदकम् । विग्रह-विकथाभिस्तथाऽर्थकुपच्छामिन कशिष्यः ॥१६॥
For Private and Personal Use Only

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339