Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 315 विशेषाः कुप्पवयणआसेन्नेहिं भाविया एवमेव भावकुडा । संविग्गेहिं पसत्था वम्मा अवम्मा य तह चेव ॥१४६१॥ कुटा घटाः, ते च तावद् द्विविधा:- एके आपाकोत्तीर्णा नूतना अव्याप्रियमाणत्वादद्यापि पुरुष-जल-तैलादिनाऽभाविताः, अन्ये तु व्याप्रियमाणत्वाद् भाविताः । तत्र भाविता द्विविधाः-सुरभिपाटलाकुसुम-पटवासादिप्रशस्तवस्तुभिर्भाविताः प्रशस्तभाविताः, सुरा-तैलाबप्रशस्तवस्तुभावितास्त्वप्रशस्तभाविताः । प्रशस्तभाविताः पुनरपि द्विविधाः- तद्भावं वमयितुं शक्या वाम्याः, तद्विपरीतास्त्ववाम्याः । एवमेवापशस्तभाविता अपि वाम्या-ऽवाम्यभेदद्वयादेव द्विविधाः । तत्र ये प्रशस्तवाम्याः प्रशस्तभावं. वमयितुं शक्यास्तेऽग्राह्या भवन्ति, अनादेयाः, असुन्दरा इति यावत् । तथा, येप्रशस्तभावं वमयितुमशक्या अप्रशस्तावाम्यास्तेऽप्यग्राह्या भवन्ति । 'तप्पडिवक्खा भवे गेज्झ त्ति तेषां प्रशस्तवाम्यानाम् , अप्रशस्तावाम्यानां च ये प्रतिपक्षाः प्रशस्तावाम्या, अप्रशस्तवाम्याश्च ते ग्राह्या आदेयाः सुन्दरा भवन्ति । तदेवं द्रव्यकूटास्तावत् प्ररूपिताः। भावकुटा अपि प्रशस्ता-प्रशस्तगुणजलाधारत्वाच्छिष्यजीवा एवमेव भाविता-ऽभावितादिभेदाद् द्रष्टव्याः। केवलमत्र पक्षे कुपवचनावसन्नादिभिर्भाविताः 'अप्रशस्तभाविता उच्यन्ते' इत्यध्याहारः। ये तु संविनरेव साधुभिर्भावितास्ते प्रशस्ता प्रशस्तभाविता इत्यर्थः । 'वम्मा अवम्मा य तह चेव ति वाम्या ऽवाम्यभावना यथा द्रव्यकुटपक्षे तथैव भावकुटपक्षेऽपि द्रष्टव्येत्यर्थः । सा चैवम्-प्रशस्तभाविता वाभ्याः, अप्रशस्तभावितास्त्वपाम्याः, एते उभयेऽप्यग्राह्याः । उक्तविपरीतास्तु ग्राह्या इति । तदेवमुक्तो भावितकुटपक्षः ॥ १४५९ ॥ १४६० ॥ १४६१॥ अथाभावितकुटपक्षमधिकृत्याह'जे उण अभाविया ते चउब्विहा, अहविमो गमो अन्नो। छिडकुड-भिन्न-खंडे सगले य परूवणा तेसि ॥ १४६२ ॥ ये पुनरभाविताः कुटास्ते छिन्न-भिन्न-खण्ड-सकलभेदाच्चतुर्विधाः। अथवा, भाविता-अभावितपक्षनिरपेक्ष एवाऽयमन्यश्छिन्न-भिन्नादिको गमः प्रकारो वर्तत इत्यर्थः । तमेवाह- 'छिड्डकुडेत्यादि' इह कुटो घटः कोऽपि तावच्छिद्रो भवति, बुने सच्छिद्रो भवतीत्यर्थः । 'अन्यस्तु भिन्नो राजिमान् भवति । तृतीयस्तु खण्डो भगकर्णः। चतुर्थस्तु सकला परिपूर्ण एव भवति । एतेषां च चतुर्णामपि कुटभेदानां प्रवचनावसभांविता एवमेव भावकुटाः । संविप्न प्रशस्ता चाम्या भवाम्याच तथैव ॥ १४॥ २ ये पुनरभावितास्ते चतुर्विधाः, भथवाऽयं गमोऽन्यः । छिनकुट-भिन्न-खण्डेषु सकले च प्ररूपणा तेषाम् ॥ १४६२ ॥ दान्तिकमधिकृत्य प्ररूपणा स्वयमेव कार्या, यथा कोऽपि शिष्यः श्रुतग्रहणमाश्रित्य च्छिद्रघटकल्पो भवति, कश्चिनु भिन्नघटकल्प इत्यादि वाच्यमिति ॥ १४६२ ।। अथ क्रमप्राप्तं चालन्युदाहरणमभिधित्सुः, मुद्दशैल-च्छिंद्रकुट-पालन्युदाहरणानां परस्पराभेदोद्भावकाशिष्यमतं च निराचिकीर्षराह'सेले य छिड्डु-चालणि मिहो कहा सोउमुट्ठियाणं तु । छिड्डाह तत्थ विठ्ठो सुमरिंसु सरामि नेदाणि ॥१४६३ ॥ एगेण विसइ बीएण नीइ कन्नेण चालणी आह । धन्न त्थ आह सेलो जं पविसइ नीइ वा तुझं ॥ १४६४ ॥ शैल-च्छिद्रकुट-चालन्युदाहरणैः प्रतिपादिताः शिष्या अप्युपचारात् तथोच्यन्ते, सत्सादृश्यात् । ततश्च शैल-च्छिद्रकुट चालन्यभिधानानां शिष्याणां गुर्वन्तिके व्याख्यानं श्रुत्वा, उत्थायान्यत्र गतानां मिथः परस्परं कथा समभवत् । कीदृशी, इत्याह'छिडेत्यादि' छिद्रघटकल्पच्छिद्रः शिष्यः प्राह । किम् ?, इत्याह- तत्र गुरुसमीपे उपविष्टस्तदुक्तमस्मार्षमहम् , इदानीं तु न किमपि स्मरामि । छिद्रघटो ह्येवंविध एव भवति । सोऽपि स्थानस्थितो मुद्गादिकं प्रक्षिप्तं धरति, अन्यत्र तूस्क्षिप्य नीतस्य तत्र प्राप्यते, अपश्छिद्रेण गलित्वा निःसृतत्वात् , अतस्तत्कल्पः शिष्योऽपीत्थमाहेति भावः । छिद्रकुटकल्पेन शिष्येणैवमुक्ते चालनीकल्पः पाह'एकेणेत्यादि' चालनीकल्पः शिष्यश्चालनी, स पाह- भोश्छिद्रकुट ! शोभनस्त्वम् , येन गुरुसमीपस्थेन त्वया तावदवधारितं तद्वचः पश्चादेव विस्मृतम् , मम तु गुर्वन्तिकेऽपि स्थितस्यैकेन कर्णेन विशति, द्वितीयेन तु निर्गच्छति, न पुनः किमपि हृदये स्थितम् । कणिक्कादिचालन्या अपि हि जलादिकमुपरिभागे निक्षिप्यते, अधोभागेन तु निर्गच्छति, न तु किमपि संतिष्ठते, अतस्तदुपमः शिष्योअपीत्थमेवाहेति भावः । तदेवं छिद्रकुट-चालनीभ्यामेवमुक्ते मुद्गशैलः पाह-'धन्न स्थेत्यादि' मुद्रशैलो वदति-धन्यावत्र युवाम, यत् यस्मात् कारणाद् युवयोस्तावत्कर्णयोर्गुरूक्तं किमपि प्रविशति, निर्गच्छति च । मम वेतदपि नास्ति, तदुक्तस्य सर्वथापि मध्ये प्रवेशाभावाद , उपलस्यैवंविधस्वादेवेति । तदेवं चालन्युदाहरणस्य खरूपमुक्तम् , शैल-च्छिद्रघट-चालन्युदाहरणानां परस्परं विशेषश्राभिहितः ॥१४६३।१४६४॥ अथ चालनीपतिपक्षमाह शैले चच्छिन-चालन्योमिथः कथा श्रुत्वोस्थितानां तु । छिछ आह तत्र विष्टोऽस्मा स्मरामि नेदानीम् ॥ १४६३॥ एकेन विशति द्वितीयेन निगच्छति कर्णेन चालन्याह । धन्यावन्नाह लो यत् प्रविशति निर्गच्छति वा थुवयोः ॥ १४६५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339