Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
,
www.kobatirth.org
ܕ
306
विशेषा ०
सर्वथाप्यनावरणो मेरुशिखरमित्र निष्कम्पः प्रतिमाप्रतिपन्नोऽभिभवकायोत्सर्गे स्थितः संध्यायां दृष्टः कोऽपि तपस्वी । गताऽसौ गुणानेव मनसि ध्यायन्ती गृहम् । सुप्ता च रजन्यामनेकशीतातपहर्तृमाचरणप्रावृता पल्यङ्के । निर्गतश्च प्रावरणेभ्यो बहिस्तात् कथमकः करः । शीताभिभूतश्चायमतीव स्तब्धीभूतः । तदनुसारेण च समस्तमपि शरीरं तथा व्याप्तं शीतेन यथा निद्राभरेऽपि जागरितं तया । ततः क्षिप्तो हस्तः प्रावरणमध्ये । स्थितव हृदये स तथाकायोत्सर्गस्थायी महामुनिः । ततस्तद्गुणोत्पन्नातुच्छबहुमानया विस्मि तया च प्रोक्तं तया- 'स तपस्वी किं करिष्यति ?' इति । 'यद्येकेनाप्यावर णबहिर्निर्गतेन हस्तेनाऽहमेतावतीं शीतत्राघां प्राप्ता, तरण्ये निरावरणी रूक्षस्तपःकर्षितश्चैवंविधमहाशीतवाधितः स तपस्त्री किं करिष्यति ?' इति तस्याश्चित्ताभिप्रायः । अयं चेर्ष्यालुतया श्रेणिकनुपस्यान्यथा परिणतः - 'नूनमनया कस्यापि संकेतो दत्तः, तदन्तिके च मयि संनिहिते गन्तुं न शकिता, ततस्तच्चित्तखेदं चेतसि निधायैतदुक्तम् ।' ततो महता खेदेन तस्य विभाता रजनी । चलितः श्रीमन्महावीरस्यान्तिकम् । गच्छता चातिकोपावेशात् निरूपितोseeकुमार:- सर्वाभिरेवान्तःपुरिकाभिः सह प्रदीपय सर्वाण्यप्यन्तःपुरगृहाणि । ततोऽभयकुमारेण चिन्तितम्- केनाप्यभिनवोत्प
कोपावेनैव वक्ति | प्रथमकीपे च यदुच्यते तत् क्रियमाणं न खलु परिणतौ सुखयति । अथवा, अनुवर्तनीयं गुरूणां वचनम् । अतः शून्य हस्तिशालामेकां प्रदीप्य प्रस्थितः सोऽपि भगवद्वन्दनार्थम् । इतश्च भगवान् पृष्टः श्रेणिकराजेन भगवन् ! चेल्लना heart, asvatar ? । भगवता प्रोक्तम्- एकपत्नीति । ततो निवृत्तः सत्वरमेत्र गृहाभिमुखमभयकुमार निवारणाय । मार्गे चागच्छन् aasu | पृष्टथ- किं दग्धमन्तःपुरम् । तेनोक्तम्- दग्धम् । राज्ञा कुपितेनाभ्यधायि त्वमपि तत्रैव पविश्य किं न दग्धो सि १ । कुमारेण प्रोक्तम्- किं ममानिप्रवेशन, व्रतमेत्र ग्रहीष्याम्यहम् । ततो मा भूदस्य महान् खेद इति कथितं यथावदेवेति । तदत्र सुशीलामपि चेल्लणां कुशीलां मन्यमानस्य राज्ञो भावाननुयोग:, यथावदवगमे च तदनुयोगः । एवमौदयिकादिभावान् विपरीतस्वरूपान् प्ररूपयतो भावाननुयोगः, यथावस्थितस्वरूपांस्तु तान् प्ररूपयतो भावानुयोग इति । तदेवमर्थकार्यिकानि प्रतिपादयता यदुक्तम्'अणुओगो य निओगो भास- विभासा य' इत्यादि, तत्र सनिक्षेपः, सोदाहरणश्चाभिहितोऽनुयोगः, तत्प्रतिपक्षत्वेनाननुयोगव ।। १४१८ ।।
सांप्रतं नियोगस्वरूपमभिधित्सुर्भाव्यकारः प्राह -
"नियओ व निच्छिओ वा हिओ व जोगो मओ निओगो त्ति । नेओ सभेअ-लक्खण-सोदाहरणोऽणुओगो व्व ॥ १४१९ ॥ १ गाथा १३८५ । २ नियतो वा निश्चितो वा हितो या योगो मतों नियोग इति । ज्ञेयः सभेद-लक्षण-सोदाहरणोऽनुयोग इव ॥ १४१९ ॥४ 1x तापहर्तृ । नियतो निश्रितो हितो वाऽनुकूलः सूत्रस्याभिधेयेन सह यः खलु योगः संबन्धः स नियोगो मतः । अयं च सभेदः सलक्षणः सोदाहरणानुयोगवदेव विज्ञेय इति ।। १४१९ ।।
अथ भाषारूपमभिधित्सुराह -
Acharya Shri Kallassagarsuri Gyanmandir
भीसा बत्ता वाया सुयवत्तीभावमित्तयं सा य । सुयभावमित्तयं जह सामाइयमिहेत्रमाईयं || १४२० ॥ 'भाष व्यक्तायां वाचि' भाषणं भाषा व्यक्ता वागित्यर्थः । सा चेह व्यक्तिः श्रुतस्य व्यक्तिभावमात्ररूपैव गृह्यते, न स्वशेषविशेषरूपा विभाषा, वार्तिकविषयत्वात् तस्याः । अत्रोदाहरणमाह- यथाऽव्यक्तमनवबुद्धविशेषरूपं तत् श्रुतभावमात्रमविज्ञातव्यक्तरूपस्य विनेयस्य भापकेन व्याख्यात्रा व्यक्तीक्रियते । कथम् १, इत्याह- सामायिकमिदं शास्त्रपरिज्ञा, अध्ययनं वा एतस्य च सामायिकादेयं शब्दार्थ इत्यादि । इदमुक्तं भवति भापक विभाषक वार्तिककारभेदात् त्रिविधाः श्रुतस्य व्याख्यातार: । तत्र भाषकोऽविज्ञातविशेषस्वरूपस्य श्रुनमात्रस्य सव्युत्पत्तिकविशेषनाममात्रकथनेन व्यक्तिमात्रं कृत्वा चरितार्थो भवति । यथा समस्याऽऽयः सामायिकमित्यादि । तदेवं भापक संबन्धिन्या भाषायाः स्वरूपमुक्तम् ।। १४२० ।।
अथ विभाषकप्रणीतविभाषायाः खरूपमाह -
विसेसओ वा होइ विनासा दुगाइपज्जाया। जह सामइयं समओ सामाओ वा समाओ वा ॥ १४२१॥ विविध भाषा पर्यायैः श्रुतस्य व्यक्तीकरणं विभाषा, विशेषतो वा भाषा विभाषा, भाषापेक्षया सविशेषं श्रुतस्य व्यक्तीकरणमित्यर्थः । एतदेवाह - द्वयादयः पर्याया यस्यां सा द्वयादिपर्याया विभाषेत्यर्थः । अत्राप्युदाहरणमाह- यथा 'करेमि भंते ! सामा' इत्यादि श्रुतमिदं सामायिकमुच्यते- सर्वेषामपि मुमुक्षूणां समये संकेते भवं सामायिकमित्यर्थः । सर्वेऽपि हि मुमुक्षवः सर्वसावधविरमणरूपेऽस्मिन्नेत्रागत्य प्रथमं तिष्ठन्ति तत उत्तरोत्तरगुणप्राप्त्या सर्वक्लेशेभ्यो मुच्यन्त इति भावः । अथवा, 'समओ ति' सययनं मुक्तिमार्गे प्रवर्तनं यस्मात् तत् समयः सामायिकमेवोच्यते । यदिवा, 'सामाउ ति' साम सर्वेषामपि जीवानां प्रियं तस्य सान्न आयः प्राप्तिः सामायः सामायिकमभिधीयते । अथवा 'समाउ त्ति' समस्य राग-द्वेषविरहितस्याऽऽयः प्रतिसमयमपूर्वापूर्वकर्मनिर्ज
१ भाषा व्यक्ता वाक् श्रुतव्यक्तीभावमात्रकं सा च श्रुतभावमात्रकं यथा सामायिक मिहैवमादिकम् ।। १४२० ।।
२ विविध विशेषतो वा भवति विभाषा द्विकादिपर्यायः । यथा सामयिकं समयः सामायो वा समायो वा ॥ १४२१ ॥ ६ करोमि भगवन् ! सामायिकम् ।
For Private and Personal Use Only

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339