Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 315
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 308 विशेषा० पुस्तदृष्टान्तं व्याख्यातुमाह 'पोत्थं दिहागारं दिहावयवं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चैवं ॥ १४२८ ॥ _ यथा पुस्तं लेप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य दृष्टाकारमात्रं भवति । ततः क्रमेण दृष्टतदवयत्रम्, ततोऽपि क्रमाद निर्वर्तित निःशेषतत्पर्याय संपद्यते, तथा सूत्रमाश्रित्य भाषा, विभाषा, वार्तिकं च जघन्य-मध्यमो-त्तमव्याख्यानरूपं यथासङ्घचं शेयमिति ॥१४२८॥ चित्रदृष्टान्त विवरीषुराह कुड्डे वत्तीलिहियं वण्णुभिन्नं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चरिमं ॥ १४२९॥ ___ यथा किश्चिदिह महणं धवलं कुड्यम् । तच्च प्रथमं वर्तिकाभिस्तदालेख्यरूपकाणां लिखिताकारमात्रं भवति । ततश्च वर्णकोद्भिनं संपद्यते, हरितालादिवर्णकैरुन्मीलितं गौरवर्णादिस्वरूपं भवतीत्यर्थः । ततः समस्ता समाता वा पर्याया आलेख्यधर्मा निष्पना यत्र तत् समस्तपर्यायम्, समाप्तपर्यायं वा भवति- सर्वात्मना निष्पनं भवतीत्यर्थः । तथाच कुख्यस्थानीय सूत्रम् । तत्र भाषा, विभाषा, वार्तिकं च चरमं तृतीयं भवतीति ।। १४२९ ॥ श्रीगृहिकोदाहरणार्थमाह भाणे जाई-माणं गुणे य रयणाणं मुणइ सिरिघरिओ। जह, तह सुयभाणे भासगादओऽत्थरयणाणं॥१४३०॥ श्रीगृहिको भाण्डागारिकः, स च यथा कश्चिद् 'रत्नान्यत्र ताम्रकरण्डिकादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कारं व्याख्ये. यम् । अपरस्तु तेषामेव रत्नानां जाति मानं च जानाति । अन्यस्तु ज्वरादिरोगापहर्तृत्व क्षुन्-पिपासा-श्रमापनेतृत्वादीस्तद्गुणानपि वेत्ति । अथवा, अन्यथा योज्यते- यथा श्रीगृहिकः कश्चिद् रत्नभाजने मरकतादिकां तजाति जानाति, अपरस्तु माष-वल्ल-गदियाणादिकादिकं तन्मानमपि बुध्यते । अन्यस्तु पूर्वोक्तांस्तद्गुणानपि समस्तान् वेत्ति तथा रत्नभाजनस्थानीये श्रुने स्तोक-बहु-बहुतरार्थवेत्तारो भाषकादयो विज्ञेया इति ॥ १४३०॥ पुस्तं दृष्टाकारं दृष्टावयचं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चैव ॥ १४२८॥ २ कुडये वर्तिलिखितं वर्णोद्भिनं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चरमम् ॥ १४२९॥ १ भाजने जाति-माने गुणांश्च स्नानां जानाति श्रीगृहिकः । यथा, तथा श्रुतभाजने भाषकादयोऽर्थरतानाम् ॥ १४ ॥ -पोण्डदृष्टान्तव्याख्यामाह वोडं विभिन्नमीसं दरफुल्लं वियसियं विसेसेण । जह कमलं चउरूवं सुत्ताइचउक्कमप्पेवं ।। १४३१॥ पोण्डमविकसितावस्थं कमलम् । तस्य च पश्चात तिस्रोऽवस्था जायन्ते, तद्यथा- 'विभिन्नमीसं ति' ईषद्विभिनमित्यर्थः। तथा, 'दरफुल्लं ति' अर्धविकसितमित्यर्थः । तथा, "वियसियं विसेसेण त्ति' सर्वात्मना विकसितमित्यर्थः । एवं च सति यथा कमलं चतूरूपमुक्तम् , तथा मूत्रादिचतुष्कमपि विज्ञेयम्- अविकृतं मुकुलितं सूत्रम् , तथा, अल्प-बहु-बहुतरव्याख्यानरूपास्तस्य तिस्रोऽवस्थाः, इत्येवं चतूरूपतेति ॥ १४३१ ॥ अथ देशिकदृष्टान्तव्याख्यामाह पंथो दिसाविभागो गाम-पुराइगुण-दोसपेयालं । जह, पहदेसणमेवं सुतं भासाइतिययं च ॥ १४३२ ॥ इह पन्थाः कश्चिद् ग्राम-नगरादीनां भवति । तं च पृष्टः कोऽपि दिविभागमात्रमेव कथयति, अन्यस्तु तद्वयवस्थितग्रामनगरादीन् कथयति, अपरस्तु मार्गगतनिःशेषगुण-दोषविचारमपि कथयति । इत्थं यथा पथो मार्गस्य देशनं त्रिविधं प्रवर्तते, एवं भाषा-विभाषा-वार्तिकलक्षणमपि त्रितयमवगन्तव्यम् । तदिह सर्वेष्वपि काष्ठादिदृष्टान्तेष्वयं परमार्थ:- जघन्य-मध्यमो-त्कृष्टव्याख्यातारो भाषक-विभाषक-व्यक्तीकरा उच्यन्त इति । तदेवं जिनमवचनोत्पत्तिः, प्रवचनकाथिकानि, तद्विभागयोक्तः॥ १४३२॥ - अथ क्रममाप्तमपि द्वारविधि 'दारविही वि महत्था तत्थ वि वक्खाणविहिविवज्जासो,मा होज' इत्यादिपूर्वोक्तकारणादुल्लाय, व्याख्यानविधिमेवेह. तावदभिधित्सुः प्रस्तावनामाह ऐयस्स को णु जोग्गो'वत्तुं सोउं च, केण विहिणा वा ? । पुब्बोइयसंबंधो वक्खाणविही विभागाओ॥ १४३३ ॥ एतस्य च वक्ष्यमाणस्य 'उसे निदेसे य' इत्यादिद्वारविधेः, सर्वस्य वाऽनुयोगस्य को वक्तुं योग्यो गुरुः, कश्च श्रोतुं योग्यः श्रोता?, केन वा विधिनाऽसौ वक्तव्यः ? इत्येतदभिधानीयम् । अत एव तस्मात् प्रवचनकाथिकविभागादनन्तरं 'दारविही वि महत्था' इत्यादिना क. 'बोण्ड'। २ पोण्डं विभिन्नमीषवर्धफुलं विकसितं विशेषेण । यथा कमलं चतूरूपं सूत्राविधतष्कमप्येवम् ॥ १३॥xव्यातकरा-I+यात्तु पन्था दिग्विभागो ग्राम-पुरादिगुण-दोषविचारम् । यथा पथदेशनमेवं सूत्रं भाषादित्रितयं ॥ १२॥ ४ गाथा १३६० । . ५ एतस्य को नु योग्यो वक्तुं श्रोतुं च केन विधिना था। पूर्वोदितसंवन्धो म्याख्यामविधिर्षिभागात् ॥1 . गाथा ९७३। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339