Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 316
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 309 विशेषा० पूर्वप्रतिपादितसंबन्धो व्याख्यानविधिरुच्यते । पाठान्तरं वा 'विभासाउ ति' सामान्येन पूर्वमुद्दिष्टस्यैदानी व्याख्यानविषिविशेषेण भाषणं भाषा भणनं 'क्रियते' इति शेषः ॥ इति गाथाष्टकार्थः॥१४३३ ॥ तमेव व्याख्यानविधिमाह गोणी चंदणकथा चेडीओ सावए बहिरगोहे । टंकणओ बवहारो पडिवक्खे आयरिय-सीसे ॥१४३४॥ आचार्य-शिष्ययोर्योग्या-ऽयोग्यविचारे 'गोणी' गौस्तदुदाहरणं वक्तव्यम् । तथा, चन्दनकन्थानिदर्शनम् । तथा, चेव्यौ जीर्णा-ऽभिनवश्रेष्ठिपुत्रिके, तदृष्टान्तो वाच्यः । तथा, श्रावकोदाहरणम् । तथा, बधिरगोदोहनिदर्शनम् । तथा, टङ्कणकव्यवहारः षष्ठमुदाहरणम् । एतेषु पदवप्युदाहरणेषु शिष्या-ऽऽचार्ययोः साक्षादयोग्यत्वमभिधाय ततः प्रतिपक्षे योग्यत्वं योजनीयम् । अथवा, । एषां पण्णामप्युदाहरणानां मध्ये योग्या-ऽयोग्ययोर्विकल्पनैकमुदाहरणमाचार्यस्य, एकंतु शिष्यस्य, इत्येवं योजनीयम् ॥ इति नियुक्तिगाथासंक्षेपार्थः॥ १४३४ ॥.. विस्तरतस्तु गोदृष्टान्तं भाष्यकार: पाह- . भग्गनिविलु गोणि केउं दंतो व्व न सुयमायरिओ । एवं मए वि गहियं गिहि तुम पि त्ति जपतो ॥ १४३५ ॥ आवेगलगोविक्केया व जो वि मदक्खमो सुगंभीरो । अक्खेवनिण्णयपसंगपारओ सो गुरू जोग्गो ॥१४३६॥ सांसो वि पहाणयरो णेगंताणावियारियग्गाही । सुपरिच्छियकेया इव स्थाणवियारक्खमो इट्ठो ॥ १४३७ ॥ कस्यापि धूर्तस्योपचितसर्वाङ्गसुन्दरस्वरूपापि गौः कथमपि संस्थानीप्रदेशे स्थिता भग्ना । ततश्चोत्थातुं न शक्नोति, इत्युपविष्टेव तिष्ठति । ततस्तेन धूर्तेन कस्यापि मुग्धस्य क्रेतुस्तथैवोपविष्टा मूल्येन प्रदत्ताऽप्तौ । स्वयं पुनरपसृतः । क्रेतापि यावत् तामुत्थापयति, तावद् न शक्नोत्युत्थातुमसौ । ततस्तथैव स्थिताऽन्यस्य मूल्येन दातुमारब्धा तेनेयम् । स च दक्षत्वादुधामभृत्यवयवानां निरीक्षणार्थ गौश्चन्दनकन्था चेट्यौ श्रावको बधिरगोदोहः । टङ्कणको व्यवहारः प्रतिपक्ष आचार्य-शिष्ययोः ॥ १४३४॥ गोह-। २ भन्ननिविष्टां गां कांस्वा दददिव न श्रुतमाचार्यः । एवं मयापि गृहीतं गृहाण स्वमपीति जल्पन् ॥ १४३५॥+योति अविकलगोविनंतेव योऽपि मदक्षमः सुगम्भीरः । आक्षेपनिर्णयप्रसङ्गपारकः स गुरुयोग्यः ॥ १४३६॥ शिम्पोऽपि प्रधामतरी निकाम्तनाऽविचारितग्राही । सुपरीक्षिततेव स्थानविचारक्षम इष्टः ॥ ११३. तामुत्थापयदि । मूलक्रेता च तत्कर्तुं न ददाति । बदति च मयोपविष्टवेयं गृहीता, स्वमप्युपविष्टामेवामुं गृहाण । एवं च न कोऽपि गृहाति, उपहसति च तमिति । . अथ प्रकृते योज्यते- भग्ना सती निविष्टा भन्ननिविष्टा ता भननिविष्टां 'गोणि' गां यथा मुग्धः कश्चिदुपविष्टामेव क्रीत्वोपविष्टामेवाऽन्यस्य ददत् प्रयच्छन् क्रेतोपहासविषयत्वादयोग्यः। 'न सुयमायरिउत्ति' एवमाचार्योऽपि न नैव योग्यो भवतिः किं कुर्वन् ?, श्रुतं ददत् प्रयच्छन् । कथंभूतः सन् ?, इत्याह- 'एवमविचारितमेव मयाऽप्येतत् श्रुतं गृहीतम् , त्वमप्यविचारितमेव गृहाण' इति शिष्यं प्रति जल्पनिति । इत्थंभूतस्य मूरेः पार्थे न श्रोतव्यम् , संशीतिपदेषु निश्चयाभावेन मिथ्यात्वगमनप्रसङ्गात् । अतो व्याख्यानस्यायमयोग्योऽभिधीयत इति । कथंभूतः पुनर्योग्यः, इत्याह- 'अविगलेत्यादि' सुगमा। तदेवं गुरोरयोग्यस्य योग्यस्य च स्वरूपमुपदर्य शिष्यस्यापि तदाह- 'सीसो बीत्यादि' शिष्योऽपि न नैव प्रधानतरः, किन्त्वयोग्यः । कथंभूतः ?, इत्याह-मुग्धगोक्रेतेवैकान्तेनाऽविचारितग्राही । यस्तु स्थानविचारक्षम आग्रहरहितो विचारयोग्ये वस्तुनि विचारकः स सुपरीक्षितगवादिक्रयिक इच सिद्धान्तश्रवणे इष्टो योग्यः शिष्य इति ॥ १४३५॥ १४३६ ॥ १४३७॥ अथ चन्दनकन्थादृष्टान्तविवरणमाह'जो सीसो सुत्तत्थं चंदणकथं व परमयाईहिं । मीसेइ गलियमहवा सिक्खियमाणेण स न जोग्गो ॥१४३८॥ कंथीकयसुत्तत्थो गुरू वि जोग्गो न भासियव्वस्स । अविणासियसुत्तत्था सीसा-यरिया विणिहिट्ठा ॥१४३९॥ इह भावार्थस्तावत कथानकेनोच्यते-द्वारवत्यां नगर्या वासुदेवस्य राज्यं पालयतो गोशीर्ष-श्रीखण्डमय्यो देवतापरिगृहीतास्तिस्रो भर्य आसन् , तद्यथा-सांग्रामिकी, औद्भूतिकी, कौमुदिका । तत्र प्रथमा संग्रामकाले समुपस्थिते सामन्तादीनां झापनार्थ वाद्यते, द्वितीया पुनरुद्भूते- आगन्तुके कस्मिंश्चित् प्रयोजने सामन्ता-मात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थ वाद्यते । चतुर्थ्यपि गोशीर्ष-श्रीखण्डमयी भेरी तस्यासीत् । इयं तु षट्-षण्मासपर्यन्ते वाद्यते, यश्च तच्छब्दं शृणोति, तस्यातीतम् , अनागतं च प्रत्येक पाण्मासिकमशिवमुपशाम्यति । इयं च प्रकृतोपयोगिनी चतुर्थी भेरी । इति तदुत्पत्तिर्लिख्यते यः शिष्यः सूत्रा-ऽथौं चन्दनकन्धामिव परमतादिभिः । मिश्रयति गलितमथवा शिक्षितमानेन स न योग्यः ॥ १४३८॥ कन्धीकृतसूत्रा-ऽर्थों गुरुरपि योग्यो न भाषितम्यस्य । भविनाषितसूत्रार्थाः शिष्या-चार्या विनिर्दिष्टाः ॥१५३९ ॥२. छ. 'चन्दनम' । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339