Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 272
________________ Acharya Shri Railassarson Gyaan www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 265 विशेषा० आउस सागराइं तेत्तीसं, अवरओ मुहुत्तंतो । अट्ठ य नामा-गोए वेअणीए बारस मुहुत्ता॥११८८॥ नाम-गोत्रयोविंशतिः सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः, मोहनीयस्य तु सप्ततिः, शेषाणां तु ज्ञानावरण दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रिंशत् , आयुषस्तु त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा स्थितिः । अवरतो जघन्यतः पुनर्मुहूर्तान्तः- ज्ञानावरण-दर्शनावरण-ऽऽयु-र्मोहनीया-ऽन्तरायलक्षणानां पञ्चानां कर्मप्रकृतीनामन्तर्मुहूर्त जघन्या स्थितिरित्यर्थः, नाम गोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य तु द्वादश मुहूर्ता जघन्या स्थितिः। तत्र मोहनीयस्य जघन्यस्थितिबन्धकोऽनिवृत्तिवादरः, आयुषस्तु मिथ्यादृष्टयस्तिर्यग-मनुष्याः, ज्ञानावरण-दर्शनावरण-वेदनीयमाम-गोत्रा-ऽन्तरायाणां तु मूक्ष्मसंपरायो जघन्यस्थितिबन्धकः । कपायप्रत्यया चेह जघन्या स्थितिर्विवक्षिता, योगप्रत्ययो तूपशान्तमोहादीनां वेदनीयस्य सामयिक्यप्येषा स्यादिति । आह- किमेताः कर्मप्रकृतयो युगपदेवोत्कृष्टस्थितयो भवन्ति, आहोस्विदेकस्या उत्कृष्टस्थितौ जातायां पश्चादन्या उत्कृष्टस्थितयो भवन्ति, अन्यथा वा कथञ्चित् । अत्रोच्यते- वैचित्र्यमत्र ॥ ११८७ ॥ ११८८ ॥ किं पुनस्तत् ?, इत्याह. मोहस्सुकोसाए ठिईए सेसाण छण्हमुक्कोसा । आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा ॥ ११८९ ॥ मोहविवज्जुक्कोसयठिईए मोहरस सेसियाणं च । उक्कोस मज्झिमा वा कासइ व जहणिया होज्जा ॥११९०॥ मोहनीयस्योत्कृष्टायां स्थितौ वध्यमानायां शेषाणां ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां षण्णां कर्मणामुत्कृष्टव स्थितिर्भवति । उत्कृष्टसंक्लेशे हि मोहनीयस्योत्कृष्टा स्थितिबध्यते । तत्र वर्तमानो जन्तुर्मानावरेणादीनामप्युत्कृष्टो स्थिति वध्नातीति सुप्रतीतमेव । आयुषस्तु यदोत्कृष्टस्थितिकेन मोहनीयेन सहोत्कृष्टं नारकायुरपि बद्ध्वा सप्तमपृथिव्यामुत्पद्यते, तदा नारकायुराश्रित्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमलक्षणा स्थितिलभ्यते । यदा तु षष्ठपृथिव्यादिपूत्पद्यते, तदा तस्यैव मध्यमा स्थितिलभ्यते, न तु जघन्या । एतावत्संक्लेशवतो नरक एवोत्पादात , तत्र च क्षुल्लकभवग्रहणलक्षणाया आयुर्जघन्यस्थितेरसंभवात् । यदाऽप्युत्कृष्टसं 1 आयुषः सागरात्रयस्त्रिंशत् , अवरतो मुहूर्तान्तः । अष्ट च नाम-गोत्रयोदनीये द्वादश मुहूर्ताः ॥ ११५८ ॥ २ क. ग. 'या तेषूप'। ३ मोहस्योरकृष्टायां स्थिती शेषाणां षण्णामुत्कृष्टा । आयुष उस्कृष्टा वा मध्यमा वा ने तु जघन्या ॥११८९॥ मोहविवोत्कृष्टस्थिती मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या भवेत् ॥ ११९० ॥ ४ क. ग. 'रणीयादी'। क्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बवा तिर्यसूत्पद्यते, तदाप्यायुषो जघन्यस्थितिर्न संभवति, क्षुल्लकभवग्रहणलक्षणतज्जघन्यस्थितिषु जीवेषु नारक-देवानामनुत्पादादिति । 'मो विवज्जुक्कोसयेत्यादि' यदा तु मोहनीयं वर्जयित्वा शेषस्य ज्ञानाबरणाद्यन्यतरस्य कर्मण उत्कृष्टा स्थितिर्वध्यते, तदा मोहनीयस्य, तथा, विवक्षितोत्कृष्टस्थितिकज्ञानावरणादिकर्मणः सकाशादन्यकर्मरकृतीनां चोत्कृष्टा वा, मध्यमा ना स्थितिलभ्यते, न तु जघन्या; तथाहि- यदा सर्वोत्कृष्टसंक्लेशे वर्तमान उत्कृष्टस्थितिकं ज्ञानावरणीयादिकं कर्म बध्नाति, तदा शेषाणां मोहादिकर्मणामुत्कृष्टा स्थितिर्भवतीत्यवगम्यत एव । यदा तु खपायोग्योत्कृष्टसंक्लेश उत्कृष्टस्थितीनि ज्ञानावरणादिकाणि बध्यन्ते, तदाऽसौ ज्ञानावरणादिकर्मोत्कृष्टस्थितिप्रायोग्यः संक्लेशो मोहनीयकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया मध्यम एव भवति; अतस्तत्र वर्तमानो मोहनीयं मध्यमस्थितिकं बनाति, इत्येदपि सुबोधमेव । दर्शनावरण-वेदनीयादिकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया त्वसावुत्कृष्टो वा स्यात् , मध्यमो वा तत्रोत्कृष्ट तस्मिन् दर्शनावरणीयादिकर्माणि तीव्ररसान्युत्कृष्टस्थितीनि बध्यन्ते, मध्यपे तु तस्मिन् मध्यमस्थितीनि तानि बध्यन्ते, इत्येतदपि घटमानक लक्ष्यते । जघन्या तु तस्थितिर्न संभवति । मोहनीय-दर्शनावरणीयादिकर्मणां हि जघन्याऽवर्मुहूर्तादिका स्थितिरुक्ता, तां चानिवृत्तिवादर-सूक्ष्मसंपरायावेव बधीतः, तौ च ज्ञानावरणादिकर्मोत्कृष्टस्थिति कदाचिदपि न निर्वतयतः, किन्तु मिथ्यादृष्टिरेवः इति न ज्ञानावरणाद्युत्कृष्टस्थितौ मोहनीय-दर्शनावरणादिजघन्यस्थितिसंभवः । किं सर्वथा न १, इत्याह'कासइ व जहणिया होज ति' कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात् , यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म वनतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्वन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम्, परमार्थ विह। केवलिना, बहुश्रुता वा विदन्तीति ॥ ११८९ ॥ ११९०॥ . एवं च सति किम् , इत्याह... सम्म-सुय-देस-सव्वव्वयाण सामाइयाणमेकं पि । उक्कोसठिई न लभइ भयाउए पुन्वलद्धाइं ॥११९१॥ सव्वजहण्णठिईउ वि न लभए जेण पुव्वपडिवन्नो।आउयजहण्णठिईओ न पवज्जतो न पडिवन्नो॥११९२॥ सम्यक्त्व-श्रुत-देशव्रत-सर्वव्रतलक्षणानां चतुर्णा सामायिकानामेकमप्युत्कृष्टकर्मस्थितिको जन्तुर्न लभते, पूर्वलब्धानि तूत्कृष्टस्थि१ क. ग. 'रणादि' । २ सम्यक्-श्रुत-देश-सर्वधतानां सामायिकानामेकमपि । उत्कृष्टस्थितिर्न लभते भजाऽऽयुपि पूर्वलब्धानि ॥ ११९१ ॥ सर्वजघन्यस्थितिकोऽपि न लभते येन पूर्वप्रतिपन्नः । आयुर्जघन्यस्थितिको म प्रपद्यमानो न प्रतिपन्नः॥ ११९२ ॥ A . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339