Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 284
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 277 विशेषा० सामाइय स्थ पढम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ १२६० ॥ तत्तो य अहक्खायं खायं सवम्मि जीवलोयम्मि । जं चरिऊण सुविहिया वचंतयरा-मरं ठाणं ॥१२६१॥ राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धरायो लाभः समायः, स एव सामायिक सर्वसावधयोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतच द्विधा- इत्वरम् , यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम् । इदं च मरते-रावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावज्जीवितकथाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम् , आभववतीत्यर्थः । एतच्च भरतै-रावतमध्यमद्वाविंशतितीर्थकरसाधना, महाविदेहार्हत्संयतानां चावसेयम् , एषामुपस्थापनाया अभावादिति । - द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्वोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्-पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा- सातिचारम् , अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते; तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् महावीरतीर्थ संक्रामतः पश्चयामधर्मप्रतिपत्ताविति । सातिचार तु मूलगुणघातिनो यत्पुनरपि महावतारोपणमिति । तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेषः, तेन कर्मनिर्जरारूपा विशुद्धिर्यश्चिारित्रे तत् परिहारविशुद्धिकम् । एतदपि विभेदम्-निर्विशमानकम, निर्विष्टकायिकं च। तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितेतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एवं स्वार्थिकमत्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति । 'तथा' इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, 'मूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । सूक्ष्मसंपरायं चतुर्थ चारित्रम् । तत्र संपर्येत्येभिः संसारमिति संपरायाः कषायाः, मूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् मूक्ष्मसंपरायम् । इदमपि द्विविधम्विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपको पशमश्रेणिद्वयमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमा सामायिकमन्त्र प्रथमं दोपस्थागनं भवेद् द्वितीयम् । परिहारविशुद्धि तथा सूक्ष्मसंगरायं च ॥ १२६०॥ शिक्षकस्थ ततत्र यथाख्यातं त्यानं सर्वम्मिजीवलोके । यच्चरित्वा सुविहिता व्रजन्त्य जरा-मरं स्थानम् ॥ १२६॥ नस्य प्राप्यते | चः समुचये। ततश्च मुश्मसंपगयानन्तरं सर्वत्र साधजीवलोके ख्यात प्रसिद्धं यथाख्यातं पश्रमं सर्वविशुद्धं चारित्रं भवति । तत् कथम्भूतम् ?, इत्याह- यचरित्वाऽऽसेव्य, शोभनं विहिनमनुष्ठानं येषां ते सुविहिताः सुसाधवो वजन्त्यजरा-मरं मोक्षलक्षणं स्थानम् । तत्र मरणं मरः । स्वरान्तत्वादलप्रत्ययः । न विद्यते जग-मरौ यत्र तदजरा-मरम् । इदं च कपायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्य-ऽयोगिकेवलिनच भवति ।। इति नियुक्तिगाथाद्वयसंक्षेपार्थः ॥ १२६० ॥ १२६१ ॥ विस्तरार्थ तु भाष्यकृदाह सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्नाए ॥१२६२॥ सावजजोगविरइ त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढम-तिमजिणाणं ॥१२६३॥ तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु, विदेहयाणं च ॥ १२६४ ॥ . सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेपैर्विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तत्राचं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरतिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतै-रावताऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिक यावज्जीविकं भरतै-रावतप्रथम-चरमवर्जशेषतीर्थकरतीर्थसाधूना, महाविदेहजानां च साधूनामवसेयमिति ॥ १२६२॥१२६३॥ १२६४॥ अथ प्रेरकः पाह नणु जावजीवाए इत्तिरियं पि गहियं मुयंतस्स । होइ पइण्णालोवो जहावकहियं मुयंतरस ॥ १२६५॥ आह- ननु 'करोमि भदन्त ! सामायिकं यावज्जीवम् ' इत्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुश्चतः प्रतिज्ञालोपः पामोति, यावत्कयिकपरित्याग इव ॥ १२६५॥ , सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्भिन्नम् । अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञायाम् ॥ १२६२॥x शिक्षकस्यसावद्ययोगविरतिरिति सत्र सामायिक विधा तब । इत्वरं यावत्कथमिति च प्रथम प्रथमा-ऽन्तिमजिनयोः ॥ १२६३॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालिकम् । शेषाणां यावत्काथिकं तीर्थेषु, विदेहजानां च ॥ १२६५॥ २क. ग. 'यमह'। ननु यावज्जीवमित्वरमपि गृहीतं मुञ्चतः । भवति प्रतिज्ञालोपो यथा यावस्कथिकं मुञ्चतः ॥ १२६५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339