________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
277
विशेषा०
सामाइय स्थ पढम छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ १२६० ॥ तत्तो य अहक्खायं खायं सवम्मि जीवलोयम्मि । जं चरिऊण सुविहिया वचंतयरा-मरं ठाणं ॥१२६१॥
राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धरायो लाभः समायः, स एव सामायिक सर्वसावधयोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतच द्विधा- इत्वरम् , यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम् । इदं च मरते-रावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावज्जीवितकथाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम् , आभववतीत्यर्थः । एतच्च भरतै-रावतमध्यमद्वाविंशतितीर्थकरसाधना, महाविदेहार्हत्संयतानां चावसेयम् , एषामुपस्थापनाया अभावादिति । -
द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्वोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्-पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा- सातिचारम् , अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते; तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद् महावीरतीर्थ संक्रामतः पश्चयामधर्मप्रतिपत्ताविति । सातिचार तु मूलगुणघातिनो यत्पुनरपि महावतारोपणमिति ।
तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेषः, तेन कर्मनिर्जरारूपा विशुद्धिर्यश्चिारित्रे तत् परिहारविशुद्धिकम् । एतदपि विभेदम्-निर्विशमानकम, निर्विष्टकायिकं च। तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितेतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एवं स्वार्थिकमत्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति ।
'तथा' इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, 'मूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । सूक्ष्मसंपरायं चतुर्थ चारित्रम् । तत्र संपर्येत्येभिः संसारमिति संपरायाः कषायाः, मूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् मूक्ष्मसंपरायम् । इदमपि द्विविधम्विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपको पशमश्रेणिद्वयमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमा
सामायिकमन्त्र प्रथमं दोपस्थागनं भवेद् द्वितीयम् । परिहारविशुद्धि तथा सूक्ष्मसंगरायं च ॥ १२६०॥ शिक्षकस्थ
ततत्र यथाख्यातं त्यानं सर्वम्मिजीवलोके । यच्चरित्वा सुविहिता व्रजन्त्य जरा-मरं स्थानम् ॥ १२६॥ नस्य प्राप्यते | चः समुचये। ततश्च मुश्मसंपगयानन्तरं सर्वत्र साधजीवलोके ख्यात प्रसिद्धं यथाख्यातं पश्रमं सर्वविशुद्धं चारित्रं भवति । तत् कथम्भूतम् ?, इत्याह- यचरित्वाऽऽसेव्य, शोभनं विहिनमनुष्ठानं येषां ते सुविहिताः सुसाधवो वजन्त्यजरा-मरं मोक्षलक्षणं स्थानम् । तत्र मरणं मरः । स्वरान्तत्वादलप्रत्ययः । न विद्यते जग-मरौ यत्र तदजरा-मरम् । इदं च कपायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्य-ऽयोगिकेवलिनच भवति ।। इति नियुक्तिगाथाद्वयसंक्षेपार्थः ॥ १२६० ॥ १२६१ ॥
विस्तरार्थ तु भाष्यकृदाह
सव्वमिणं सामाइयं छेयाइविसेसओ पुणो भिन्नं । अविसेसियमाइमयं ठियमिह सामन्नसन्नाए ॥१२६२॥ सावजजोगविरइ त्ति तत्थ सामाइयं दुहा तं च । इत्तरमावकहं ति य पढमं पढम-तिमजिणाणं ॥१२६३॥
तित्थेसुमणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु, विदेहयाणं च ॥ १२६४ ॥ . सर्वमपीदं चारित्रमविशेषतः सामायिकमेव । एतदेव च च्छेदादिविशेपैर्विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तत्राचं विशेषणाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । तत्र सावद्ययोगविरतिस्वरूपमेतत् सामायिकम् । तच्च द्विधा- इत्वरम् , यावत्कथिकं च । तत्रेत्वरं स्वल्पकालीनं भरतै-रावताऽऽद्य-चरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य द्रष्टव्यम् । यावत्कथिक यावज्जीविकं भरतै-रावतप्रथम-चरमवर्जशेषतीर्थकरतीर्थसाधूना, महाविदेहजानां च साधूनामवसेयमिति ॥ १२६२॥१२६३॥ १२६४॥
अथ प्रेरकः पाह
नणु जावजीवाए इत्तिरियं पि गहियं मुयंतस्स । होइ पइण्णालोवो जहावकहियं मुयंतरस ॥ १२६५॥
आह- ननु 'करोमि भदन्त ! सामायिकं यावज्जीवम् ' इत्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुश्चतः प्रतिज्ञालोपः पामोति, यावत्कयिकपरित्याग इव ॥ १२६५॥
, सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्भिन्नम् । अविशेषितमादिमकं स्थितमिह सामान्यसंज्ञायाम् ॥ १२६२॥x शिक्षकस्यसावद्ययोगविरतिरिति सत्र सामायिक विधा तब । इत्वरं यावत्कथमिति च प्रथम प्रथमा-ऽन्तिमजिनयोः ॥ १२६३॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालिकम् । शेषाणां यावत्काथिकं तीर्थेषु, विदेहजानां च ॥ १२६५॥ २क. ग. 'यमह'। ननु यावज्जीवमित्वरमपि गृहीतं मुञ्चतः । भवति प्रतिज्ञालोपो यथा यावस्कथिकं मुञ्चतः ॥ १२६५॥
For Private and Personal Use Only