________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
278 विशेषा०
अत्रोत्तरमाहनणु भणियं सव्वं चिय सामाइयमिणं विसुद्धि भिन्नं । सावजविरइमइयं को वयलोवो विसुद्धीए ?।।१२६६।।
ननूक्तं सर्वमेवेदं चारित्रमविशेषतः सावद्ययोगविरतिसामान्यात सामायिकमेव, छेदादिविशुद्धिविशेषविशेष्यमाणमन्यथात्वं प्रतिपद्यते । ततः को नाम विशिष्टतरायां विशुद्धौ प्रतिपद्यमानायां व्रतलोपः -- न कश्चिदित्यर्थः ॥ १२६६ ॥
कुतः १, इत्याह
उन्निक्खमओ भंगो जो पुणतं चिय करेइ सुद्धयरं । सन्नामित्तविसिढे सुहुमं पिव, तस्स को भंगो ? ॥१२६७॥
उनिष्क्रामतः प्रवज्यात्यागमेव कुर्वतो व्रतभङ्गो भवति । यः पुनस्तदेव प्राग् गृहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण तु चारित्रं विशिष्टं भिन्नम् , तस्य भङ्गो न भवति, किन्तु सुतरामेव व्रतनमल्यं संपद्यते । यथा सामायिकसंयतस्य 'सुहुमं ति' सूक्ष्मसंपरायं प्रतिपद्यमानस्य, च्छेदोपस्थापनीयस्य वा परिहारविशुद्धिकमङ्गीकुर्वतो व्रतनिर्मलत्वमिति ॥ १२६७ ॥
छेदोपस्थापनीयस्य व्याख्यामाहपैरियायरस य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-यरं दुविहं ॥१२६८॥
सेहस्स निरइयारं तित्थंतरसंकमे च तं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१२६९॥
'जत्थ ति' यत्र चारित्रे पूर्वपर्यायस्य च्छेदः, व्रतेषु चोपस्थापनं विधीयते, तदिह च्छेदोपस्थापनम् । तच्च द्विधा- सातिचारम, अनतिचारं च । तत्र शिष्यकस्योपस्थापनायां, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तद् निरतिचारं भवेत् । यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत् सातिचारम् । एतच्चोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे । तत्र भरतै-रावतप्रथम-चरमतीर्थकरसाधनां स्थितकल्पः- .
१ ननु भणितं सर्वमेव सामायिकमिदं विशुद्धिसो भिन्नम् । सावधविरसिमयं को व्रतलोपो विशुद्धी? ॥ १२६६ ॥ शिक्षकस्थ-। २ अनिष्कामतो भङ्गो यः पुनस्तदेव करोति शुद्धतरम् । संज्ञामाग्रविशिष्टं सूक्ष्ममिव, तस्य को भङ्गः ॥२७॥ ३ पर्यायस्य च च्छेदो यत्रोपस्थापनं व्रतेषु च । छेदोपस्थापनमिह तदनतिचारे-तरं द्विविधम् ॥ १२६८॥
शिक्षस्य निरतित्तारं तीर्थान्तरसंक्रमे च तद् भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥ १२६९ ॥
"आचेलक्कु-दोसिअ-सेज्जायर-रायपिंड-किइकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥ १॥" इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतै-रावतशेषद्वाविंशतितीर्थकरसाधूना, महाविदेहाईत्साधूनां च स्थितास्थितकल्प:
"सिज्जायरपिडम्मि चाउज्जामे य पुरिसजेटे य । किइकम्मस्स य करणे चनारि अवट्ठिया कप्पा ॥१॥" एतेषु चतुर्यु कल्पेषु नियमेन तेषामपि स्थितत्वात् , शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥ १२६८ ॥ १२६९ ॥ अथ परिहारविशुद्धिकं विवृणोतिपरिहारेण विसुद्ध सुद्धो वा तओ जहिं विसेसेण । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥ १२७० ॥
तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥१२७१॥
परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम् , अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम् , तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्र भवति ?, इत्याह- 'परिहारिएत्यादि' इदमुक्तं भवति-नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः, चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसा निर्विष्टकायिकमभिधीयत इति ॥ १२७० ॥ १२७१ ।।
'परिहारेण तपसा विशुद्धम्' इत्युक्तम्, किं पुनरिह परिहारः, इत्याहरिहारो पुण परिहारियाण सो गिम्ह-सिसिर-वासासु। पत्तेयं तिविगप्पो चउत्थयाई तवो नेओ ॥१२७२॥
, आचेलक्यौ-देशिक-शय्यातर-राज-पिण्ड-कृतिकर्माणि । व्रत-ज्येष्ठ-प्रतिक्रमणानि मासं पyषणाकल्पः ॥१॥x ( परिहारि-) २ शय्यातरपिण्डे चातुर्यामे च पुरुषज्येष्ठे च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥1॥ ३ परिहारेण विश्ववं शुद्धो वा सको यत्र विशेषेण । तत् परिहारविशुद्ध परिहारविशुद्रिकं नाम ॥ १२७."
तत् द्विविकल्पं निर्षिशमान-निर्विष्टकायिकवशेन । परिहारिका-नुपरिहारिकाणां कल्पस्थितस्यापि च ॥ १२७१ ॥ ४ परिहारः पुनः परिहारिकाणां स ग्रीष्म-शिशिर-वर्षासु । प्रत्येकं त्रिविकल्पश्चतुर्थादि तपो ज्ञेयः ॥ १२७२॥
For Private and Personal Use Only