________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
279 विशेषा०
'गिम्ह-सिसिर-वासासु चउत्थयाईणि बारसंताई । अड्ढापक्कंतीए जहण्ण-मज्झिमु-क्कोसयतवाणं ॥१२७३॥
सच परिहारस्तपः पुनः परिहारिकाणां प्रस्तुततपो वोदृणां ग्रीष्म-शिशिर-वर्षासु प्रत्येकं जघन्यादित्रिविकल्पश्चतुर्थादि तपो ज्ञेय इति । एतदेव व्यक्तीकरोति- 'गिम्हेत्यादि' ग्रीष्म-शिशिर-वर्षासु चतुर्थादीनि द्वादशान्तानि तपांसि विज्ञेयानि । कया। अर्धापकान्त्या। केषां याऽर्धापक्रान्तिः, इत्याह- जघन्य-मध्यमो-स्कृष्टतपसाम । इदमुक्तं भवति-ग्रीष्मे सामान्येनैवोष्णकाले जघन्य तपश्चतुर्थ ते कुर्वन्ति, मध्यमं तु षष्ठम् , उत्कृष्ट पुनरष्टमम् । स्थापना-१२।३॥ एतदेवार्धापक्रान्त्या शिशिरे कुर्वन्ति । तत्रार्थस्याऽसमयविभागरूपस्यैकदेशस्य बैकादिपदात्मकस्यापक्रमणमषस्थानम् , शेषस्य तुयादिपदसंघातरूपस्यैकदेशस्योगमनं यस्या रचनायो सासमयपरिभाषयार्धापक्रान्तिरुच्यते । तत्र चतुर्थ-षष्ठा-ऽष्टमानि ग्रीष्मे पोक्तानि । एतेषां मध्यादेकदेशश्चतुर्थलक्षणोऽपक्रामत्यवतिष्ठते, शेष तु षष्ठा-ऽष्टमपदद्वयमूर्ध्व शिशिरे गच्छति, तृतीयं तु दशमलक्षणं पदं मील्यते । ततश्च जघन्यतः षष्ठं, मध्यमतोऽष्टमम् , उत्कृष्टतस्तु दशमं शिशिरे कुर्वन्तीति सिद्धं भवति-२।३।४॥ एतेषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति, अष्टम-दशमे तूर्व वर्षासु गच्छता, तृतीयं त्वतनं द्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमतस्तु दशमम् , उत्कृष्टतस्तु द्वादशं तपो वर्षासु कुर्वन्ति-३।४।५॥ तदत्र पदत्रयमध्यादेकदेशापक्रान्त्यार्धापक्रान्तिरुक्ता ॥ १२७२ ॥ १२७३ ॥
ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याह
सेसा उ निययभत्ता पायं भत्तं च ताणमायामं । होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं ॥१२७४॥ . शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पञ्चापि पायो नियतभक्ता नित्यभोजिनो भवन्ति । प्रायोग्रहणाद् निजेच्छया कदाचिदपवासमपि कुर्वन्ति । भक्तं च तेषां सर्वदैवाऽनुपरिहारिकल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति । शेषं तु विकृति-लेपकृदादिकं वस्तु सर्व नवानामपि नियमाद्नं कल्पत इति ॥ १२७४ ॥
कियन्ति दिनानि केनेदं तपः कर्तव्यम् , इत्याहपरिहारिया-ऽणुपरिहारियाण कप्पट्ठियस्स विय भत्तं। छ छम्मासा उ तवो अट्ठारसमासिओ कप्पो॥१२७५॥
ग्रीष्म-शिशिर वर्षासु चतुर्थकादीनि द्वादशान्तानि । अर्धापकान्त्या जघन्य-मध्यमो-स्कृष्टतपलाम् ॥ १२७३ ॥ २ शेवास्तु नियतभक्ताः प्रायो भक्तं च तेषामाचाम्लम् । भवति नवानामपि भिरामादून कल्पते शेषकं सर्वम् ॥ १२७१।।
। परिहारिका-ऽनुपरिहारिकाणां कल्पस्थितस्यापि च भक्तम् । षट् पद मासांस्तु तपोऽष्टादशमासिकः कल्पः ॥ १२७५ ॥ एवमुक्तप्रकारेण परिहारिकाणाम् , अनुपरिहारिकाणाम् , कल्पस्थितस्यापि च भक्तं भोजनमाचाम्लेन भवतीति शेषः, षद् षट् मासान् यथोक्तरूपं तपश्च यथायोगं वक्तव्यम् । तत्र परिहारिकास्तावद् ग्रीष्मादिषु पारणके आचाम्लपरिगृहीतचतुर्थादिक्रमेण षड् मासान यावत तपः कुर्वन्ति । ततश्चानुपहारिकाः परिहारिकत्वं प्रतिपद्येत्थमेव षड् मासान् यावत् तपः कुर्वन्ति । परिहारिकाश्च विहिततपसस्तेषामनुपरिहारिकत्वमनुचरत्वं प्रतिपद्यन्ते । ततश्च कल्पस्थित एक एव परिहारिकत्वं प्रतिपद्येत्थमेव षट् मासान् यावत् तपः करोति, एकस्त्वितरेषां मध्यात् कल्पस्थितो वाचनाचार्यों भवति, शेषास्तु सप्ताऽनुचरा भवन्ति । एवमयं परिहारविशुद्धिककल्पोऽष्टादशभिर्मासैः समर्थ्यते ॥ १२७५ ।। कल्पसमाप्तौ ते किं कुर्वन्ति ?, इत्याह
(चिथ) कैप्पसमत्तीए तयं जिणकप्पं वाउविति गच्छं वा । ठियकप्पे नियमा दो पुरिसजुगाई ते होंति ॥१२७६।।
कल्पसमाप्तौ चैषां त्रयी गतिः, तद्यथा- कदाचित् पुनरपि 'तयं ति' तमेव परिहारविशुद्धिककल्पं प्रतिपद्यन्ते, जिनकल्पं वाऽभ्युपगच्छन्ति, गच्छं वा पुनरप्युपयान्ति प्रविशन्ति । ते च परिहारविशुद्धिका नियमेन स्थितिकल्पे भरतै-रावतप्रथमा-ऽन्तिमजिनतीर्थे द्वे एव पुरुषयुगे यावद् भवन्ति, तीर्थकरसमीपे चामुं कल्पं प्रतिपद्यन्ते- तीर्थकरसमीपे प्रतिपन्नः, अन्यसमीपे वा, नान्यत्रेत्यर्थः । तदेवमभिहितं परिहारविशुद्धिकचारित्रम् ॥ १२७६ ॥
अथ सूक्ष्मसंपरायचारित्रमाहकोवाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहुमसंपरायं सुहुमो जत्थावसेसो सो ॥ १२७७ ॥ सेटिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥१२७८॥
क्रोधादिः कषायवर्गः संपराय उच्यते । कुतः१, इत्याह- यतः संपति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् मूक्ष्म संपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति ॥ १२७७ ॥ १२७८ ॥
१ कल्पसमाप्तौ तजिनकल्पं वोपयन्ति गच्छ वा । स्थिनकल्ये नियमाद् द्वे पुरुषयुगे ते भवन्ति ॥ १२७६॥(त) कोपादिः संपरायस्तेन यतः संपर्येति संसारम् । तत् सूक्ष्मसंपरायं सूक्ष्मो यत्रावशेषः सः॥ १२७७ ॥ श्रेणिं विलगतस्तद् विशुध्यमानं ततश्च्यवमानस्य । तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् ॥ १२७८ ॥
For Private and Personal Use Only