________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
280
अपना
R
विशेषा०
अथ यथाख्यातचारित्रं विवृण्वनाह__ अहसदो जाहत्थे आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥१२७९/
'अर्थ' इत्ययं याथातथ्यार्थे, आङ् अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदयाख्यातं यथाख्यातं चोदितमिति ॥ १२७९ ॥
एतच कतिविधम् , इत्याह'तंदुविगप्पं छउमत्थ-केवलिविहाणओ पुणेक्केकं । खय-समज-सजोगा-ऽजोगिकेवलिविहाणओ दुविहं ॥१२८०॥
तच्च यथाख्यातचारित्रं छद्मस्थ-केवलिस्वामिभेदाद् द्विभेदम् । छगस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभव च । केवलिसंबन्ध्यपि सयोग्य-ऽयोगिकेवलिभेदतो द्विविधमेवेति ॥ १२८०॥ अथ पूर्वोक्तं निगमयन् , उत्तरनियुक्तिगाथा च संबन्धयन्नाह
भणियं खओवसमओ अहुणोवसमेणं लहइ जह जीवो । सामइयं तं भण्णइ सो जं च खओवसमपुव्वो॥१२८१॥ म तदेवं 'सत्तहं पयडीणं अभितरओं कोडकोडीए' इत्यादिना भणितःक्षयोपशमात सामायिकलाभः । अधुना तु 'अण-दस-नपुसि-स्थी' इत्यादिना वक्ष्यमाणाद् यथा मोहोपशमात् सामायिकं लभ्यते तद् भण्यते । किमिति प्रथम क्षयोपशमात् तल्लाभ उक्तः, इत्याह- 'सो जं चेत्यादि' स यस्माद् वक्ष्यमाण उपशमः क्षयोपशमपूर्वः। पूर्व हि मोहनीयक्षयोपशमात् सम्यक्त्वादिकं लभ्यते, पश्चायोपशमश्रेणिः । अतोऽनेनैव क्रमेणैतदभिधानम् । इत्येका पातना ॥ १२८१ ॥
अथ पातनान्तरमाह
अहवा खओवसमओ चरणतियं उवसमेण खयओ वा।सुहुमा-हक्खायाई तेणोवसम-क्खया कमसो ॥१२८२॥ १क. ग. 'ख्यातं वि'। २ अथशब्दो याथायें आकभिविधी कथितमाख्यातम् । चरणमकषायमुदितं तदयाख्यातं यथाख्यातम् ॥ १२७९॥x(सामाधिक)
३ तद् द्विविकल्प छमस्थ केवलिविधानतः पुनरेकैकम् । क्षयोपशमज-सयोग्य-ऽयोगिकेवलिविधानतो द्विविधम् ॥ १२८॥
४ भणितं क्षयोपशमतोऽधुनोपशमेन लभते यथा जीवः । सामायिकं तद् भण्यते स यच क्षयोपशमपूर्वः ॥ १२८१॥ ५ गाथा ११९३ । । गाथा १२८४ । ७ अथवा क्षयोपशमतश्चरणत्रिकमुपशमेन क्षयतो वा । सूक्ष्मा-ऽथाख्याते तेनोपशम-क्षयो क्रमशः ॥ १२ ॥
अथवा, आय चारित्रत्रयं कषायाणां क्षयोपशमादुक्तम् , उपलक्षणत्वात् क्षयात् , उपशयाच्चेति । सूक्ष्मसंपराय-यथाख्यातचारित्रद्वयं तु यस्मादुपशमेन, क्षयेण वा लभ्यत इत्युक्तम् , तेन तस्मात् कारणात् तावेवोपशम-क्षयौ क्रमेण भण्येते । यो हि श्रेणिद्वयमुपलप्स्यते स पूर्वमुपशमश्रेणिं करोति, पश्चात्तु क्षपकश्रेणिम् , इत्यमुं क्रममाश्रित्य युगपद् द्वयाभिधाने प्राप्तेऽपि प्रथममत्रोपशमश्रेणी, पश्चात्तु क्षपकश्रेणी वक्ष्यत इति भावः ॥ १२८२ ।।
अथ तृतीयामपि पातनामाह
सेढिगयस्स सुहुमं सेढीओ निग्गयस्सहक्खायं । सा उवसम-क्खयओ पढमं तत्थोवसमसेढी ॥१२८३॥ . 'वा' इत्यथवा, श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तम् , तद्विनिर्गतस्य तु यथारख्यातम् , अतः श्रेणिद्वयं भणनीयमायातम् , उभयश्रेणिलामे चोपशमश्रेणिमेवादी कुरुते, इति सैव तावत प्रथममुच्यते ॥ इति द्वाविंशतिगाथार्थः ।। १२८३ ॥
तामेव विहितप्रस्तावनामुपश्रेणिमाह
अण-दस-नपुंस-त्थीवेय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥१२८॥
इहोपशमश्रेणिपारम्भकोऽप्रमत्तसंयतो भवतीति केचित् । अविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतर इत्यन्ये । श्रेणेः समाप्तौ च निवृत्तोऽप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवेष्वविरतो वा भवति । कार्मग्रन्थिकाभिमायण तु प्रतिपतितोऽसौ मिथ्याष्टिगुणस्थानकमपि यावद् गच्छति । तत्रेत्यमेतामारभते- 'अण ति । 'अण-रण-' इत्यादिदण्डकपातुः । अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यम् , नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणा आधाः क्रोधादयश्चत्वारः कषायाः। अथवा, अण त्ति' प्राकृतत्वेन अनाः, एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिनस्त एवाऽऽद्याः क्रोधादयश्चत्वारः कषाया इत्यर्थः। तत्राऽसौ प्रतिपत्ता प्रशस्तनध्यवसायस्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्तमात्रेण कालेनाऽनन्तानुबन्धिनः क्रोधादीनुपशमयति । 'दंस त्ति' दर्शनं दर्शः, तच्च दर्शनं मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिविधम् । ततोऽनन्तानुबन्ध्युपशमानन्तरमेतदपि युगपदन्तर्मुहूर्तेनोपशमयति । ततो यदा पुरुषः श्रेणिसमारम्भको भवति, तदानुदीर्णमपि 'नपुंस त्ति नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदमन्तर्मुहूर्तेन, १ क.ग. 'यमपि ल' । २ श्रेणिगतस्य सूक्ष्म श्रेणीतो निर्गतस्याऽथाख्यातम् । सोपशम-क्षयतः प्रथमं तत्रोपशमश्रेणिः ॥ १२८३ ॥ (मुपशम)
३ अन-दर्श-नपुंसक-खीवेद-षटकानि च पुरुषवेदं च । द्वौ द्वावेकान्तरितौ सदशौ सदशमुपशमयति ॥ १२८४ ॥
For Private and Personal Use Only