________________
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
281
विशेषा०
नष्ठा च समकाल
दुपरि तिर्यक्स
व द्वितीयम्-
, तदुपर्यपि
ततो हास्य-रत्य-रति-शोक-भय-जुगुप्सालक्षणं हास्यादिषदं युगपदन्तर्मुहूर्तेन, ततः पुरुषवेदमन्तर्मुहूर्तेन । अथ स्त्री भारम्भिका, ततः प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततो हास्यादिषद, ततः स्त्रीवेदमुपशमयति, इत्येवं द्रष्टव्यम् । अथ नपुंसका प्रारम्भकः, ततोऽसावनुदीर्णमपि प्रथम स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः पदम् , ततो नपुंसकवेदम् , इत्येष क्रमः । अत ऊर्ध्व द्वौ द्वौ क्रोधायावेकान्तरितौ संज्वलनक्रोधादिव्यवहिती, सदृशौ क्रोधादित्वेन परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति । एतदुक्तं भवति- अप्रत्याख्यान-प्रत्याख्यानावरणौ क्रोधौ क्रोधरूपतया सदृशौ सदृशं युगपदन्तर्मुहूर्तेनोपशमयति, ततः संज्वलनं क्रोधमेकाकिनर्मकान्तर्मुहूर्तेनोपशमयति । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानौ मानरूपतया सदृशौ सदृशं युगपदेव, ततः संज्वलनं मानम् , ततोऽपत्याख्यान-प्रत्याख्यानाचरणमायाद्वयं मायारूपतया सदृशम् , ततः संज्वलनां मायाम् । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणलोभद्वयं लोभरूपतया सदृशं युगपदुपशमयति, ततः संज्वलनं लोभम् । अमुं चोपशमयंत्रिधा करोति-द्वौ भागौ युगपदुपशमयतिः तृतीयं तु भार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति । तत एतेषां संख्येयखण्डानां यच्चरम खण्डं तदसंख्येयानि खण्डानि करोति । ततः समये समय एकैकं खण्डमुपशमयति । इह च दर्शनसप्तक उपशान्तेऽपूर्वकरणः, निवृत्तिवादरो वाऽभिधीयते । तत ऊर्ध्वमनिवृत्तिबादरो यावत्संख्येयखण्डानां चरमखण्डम् । चरमसंख्येयखण्डनिष्पन्नानि त्वसंख्येयखण्डान्युपशमयन् सूक्ष्मसंपरायः। तदेवपन्तर्मुहूर्तेन संज्वलनं लोभमपि सर्वमुपशमयति । एवं सर्वत्र प्रत्येकान्तर्मुहूर्तमुपशमकालः । सर्वापि चेयं श्रेणिमहताऽन्तर्मुहर्तेन सपर्थ्यते ।
अस्याश्च श्रेणेरनन्तानुबन्धिचतुष्टयादीनां प्रत्येक शून्यस्थापनया खरूपं भावनीयम् । तत्रानन्तानुबन्धिचतुष्टयस्थापने चत्वारि शून्यानि तिर्यग् व्यवस्थाप्यन्ते, तद्यथा-००००। एषामुपशमस्य प्रारम्भो निष्ठा च समकालमेव, इति तिर्यकसमतया स्थाप्यन्ते । एवमुत्तरत्रापि तिर्यवसमस्थापनायां भावार्थोऽवसेयः। एतदुपरि तिर्यक्समशून्यत्रयेण दर्शनत्रयं स्थाप्यते-...। एतदुपर्येकस्य वेदकस्यैकं शून्यम् , तदुपरि द्वितीयस्य द्वितीयम्-8। तदुपरि हास्यादिषटुं समश्रेण्या तिर्यक् स्थाप्यते- ००० ० ० ० । एतदुपरि तृतीयवेदशून्यम् , तदुपर्यपि तिर्यक्क्रोधशून्यद्वयम्-..। एतदुपरि संज्वलनक्रोधस्य शून्यम्- ० । एतदुपरि तिर्यग्मानद्यस्य शून्यद्वयम्- ० ० । तदुपरि मानस्यैकं शून्यम्-- ० । तदुपरि मायाद्वयस्य निर्यक् शून्यद्वयम्- ० . । तदुपरि मायायाः शून्यम्- ० । तदुपरि लोभद्वयस्य तिर्यगेव शून्यद्वयम्- . ० । एतदुपरि संज्वलनस्य लोभस्यैकं शून्यम्- ० । एवमूर्ध्वं स्थापना विधाय सर्व भावनीयम् ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १२८४॥ नियर्ति-1 + (संस्थ तम)
विस्तरार्थ तु भाष्यकारः प्राह
वसामगसेढीए पट्ठवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥१२८५॥ अन्ने भणंति अविरय-देस-पमत्ता-ऽपमत्तविरयाणं । अन्नयरो पडिवज्जइ सणसमणम्मि उ नियट्टी ॥१२८६॥
द्वे अपि गतार्थे, नवरमविरताचप्रमत्तान्तानां मध्यात् केनापि दर्शनसप्तकेनोपशमिते ततो 'नियष्टित्ति' निवृत्तिबादरो भवतीति ॥ १२८५ ॥ १२८६ ॥
'अण' इत्येतद् व्याख्यातुमाह
भवमणुबंधति जओऽणंतमणंताणुबंधिणोऽण त्ति । ते चत्तारि वि समयं समेइ अंतोमुहुत्तेणं ॥ १२८७ ॥
गाथापूर्वार्धस्यान्ते 'अण' इत्येतद्हणवाक्यम् , अतो व्याख्यानयति- 'भवमित्यादि' भवं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनस्तान् प्रशस्तध्यानतोऽन्तर्मुहूर्तेन युगपदुपशमयति, उदयोद्वर्तनादिकरणाऽयोग्यान् सतोऽप्यसत्कल्पान् करोतीति॥१२८७।।
शेषावयवव्याख्यामाह
तत्तो य दंसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो बीयं छक्कं तओ य वेयं सयमुदिन्नं ॥ १२८८ ॥
ततश्चानन्तानुबन्ध्युपशमानन्तरं मिथ्यात्वादिदर्शनत्रिकम् , ततोऽनुदीर्णस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तमुपशमयति, ततो द्वितीयम् , ततः पदम , ततो यः कश्चिदुदये वर्तते वेदस्तमुपशमयति । इदमुक्तं भवति- यदि पुरुषः श्रेणिपारम्भकः, तदा पुरुष वेदस्तस्योदये वर्तते, स्त्री-नपुंसकवेदौ स्वनुदीी , तयोश्च मध्ये नपुंसकवेदो जघन्यतरः, ततो दर्शनत्रिकादुपरि प्रथम तमुपशमयति, ततः स्त्रीवेदम् , उदीर्ण तु पुंवेदं पटादुपरि पश्चादुपशमयति । अथ स्त्री प्रारम्भिका, तदा स्त्रीवेदस्तस्या उदये, पुं-नपुंसकवेदी त्वनुदयावस्थौ । अनयोरपि नपुंसकवेदो जघन्यतरः, इति तं प्रथममुपशमयति, ततः पुंवेदम् , उदीर्ण तु स्त्रीवेदं पश्चात् पटादुपर्युपशमयति ।
१ उपशमश्रेणी प्रस्थापकोऽप्रमत्तविरतस्तु । पर्यवसाने स वा भवति प्रमतवाविरतो वा ॥ १२८५॥x सम्र-1
अन्ये भणन्त्यविरत-देश-प्रमत्ता-ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपचते दर्शनशमने तु निवृत्तिः ॥ १२८६॥ २ गाथा १२८४ । ३ भवमनुबन्नन्ति यतोऽनन्तमनन्तानुबन्धिनोऽन इति । तश्चितुरोऽपि समकं शमयत्यन्तर्मुहूर्तेन ॥ १२८७ ॥ ततश्च दर्शनत्रिकं ततोऽनुदीर्णं जघन्यतरवेदम् । ततो द्वितीयं पटकं ततश्च वेई स्वकमुदीर्णम् ॥ १२८८॥
For Private and Personal Use Only