________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
282
विशेषा० यदा तु नपुंसका पारम्भकः, तदोदीर्ण नपुंसकवेदं षदादुपर्युपशमयति, अनुदीर्ण तु स्त्रीवेदं जघन्यतरस्वाद् दर्शनत्रिकादुपरि प्रश्रममुपशमयति, ततः पुरुषवेदमिति ॥ १२८८ ।।
ततः किम् ?, इत्याह
मज्झिल्लकसायाणं कोहाइसमाणजाइए दो दो । एकेकेणंतरिए संजलणेणं उवसमेइ ॥ १२८९ ॥
अनन्तानुबन्ध्युपशमस्योक्तत्वात् संज्वलनानां तूपशमस्याऽन्तरालेषु भावात् , अर्थात् मध्यमकपाया अप्रत्याख्यान-प्रत्याख्यानावरणा एवावशिष्यन्ते । तेषां मध्यात् क्रोधादिसमानजातीयौ द्वौ द्वावेकैकेन क्रोधादिसंचलनेनान्तरितावुपशमयतीति ॥१२८९ ॥
अत्र प्रेरकः प्राह
सजलणाईणं समो जुत्तो, संजोयणादओ जे उ । ते पुव्वं चिंय समिया नणु सम्मत्ताइलाभम्मि ॥१२९०॥
ननु संज्वलनकषाय-हास्यादीनामुदयवर्तित्वाच्छमो युक्तः । ये तु संयोजनादयः कषायास्ते पूर्वमेव सम्यक्त्वादिगुणप्राप्तिकाले उपशमिता एव, सम्यक्त्वादिलाभान्यथानुपपत्तेः । अत इदानीं तेषामुपशमाभिधानमयुक्तमेवेति भावः ॥ १२९० ॥
अत्रोत्तरमाह-- आसि खओवसमो सिं समोऽहुणा, भणइ को विसेसो सिं? नणु खीणम्मि उइण्णे सेसोवसमे खओवसमो ॥१२९१॥
हन्त ! सम्यक्त्वादिलाभकाले आसीदेषां संयोजनादिकपायाणां क्षयोपशमः, अत इदानीं तेषामुपशमोऽभिधातव्य एव । अथ प्रेरको भणति- ननु क्षयोपशमो-पशमयोः कः किल विशेषः । मरिराह- ननूदीर्णे उदयमाप्ते कर्मणि क्षीणे, शेषे चानुदीर्णे उपशान्ते सति क्षयोपशमोऽभिधीयत इति ॥ १२९१ ॥
प्रेरकः प्राह*सो चेव नणूवसमो उइएखीणम्मि सेसए समिए । सुहुमोदयता मांसे न तूबसमिए विसेसोऽयं ॥ १२९२ ॥
१ मध्यमकपायाणा क्रोधादिसमानजातयिो द्वौ द्वौ। एकैकेनास्तरिती संग्वलनेनोपशमयति ॥ १२८९ ॥ २ संज्वलनादीमा शमी युक्तः, संयोजनादयो ये तु । ते पूर्वमेव शमिता मनु सम्यक्त्वादिलामे ॥ १२९.॥ ३ आसीत् क्षयोपशम एषां शमोऽधुमा, भणति को विशेषोऽनयोः । ननु क्षीण उदाणे शेषोपशमे क्षयोपशमः १२९१ ।।
• स एव ननूपशम उदिते क्षीणे शेषके शामिते । सूक्ष्मांदयता मिश्रे न तूपशमिते विशेषोऽयम् ॥ १२९२ ॥ . ननूपशमोऽप्ययमेव, यः। किम् , इत्याह- उदिते कर्मणि क्षीणे, अनुदिते तूपशान्ते भवति । अत्रोत्तरमाह-ननु मिथे क्षयोपशमे सूक्ष्मोदयताऽस्ति- प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः। उपशमितेऽपि तु कर्मणि तदपि नास्ति, इत्यतोऽनयोर्विशेष इति ।।१२९२।।
एतदेवाह
'वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेएइ न संतकम्मं पि ॥ १२९३ ॥
स क्षयोपशमावस्थकपायवाञ्जीवः क्षायोपशमिकेष्वनन्तानुबन्ध्यादिषु तत्संबन्धि सत्कर्माऽनुभवति- प्रदेशकर्म वेदयति, न पुनरनुभावम्- विपाकतस्तु तान् वेदयतीत्यर्थः । उपशान्तकषायस्तु सत्कर्माऽपि न वेदयति, इति क्षयोपशमो-पशमयोर्विशेष इति ॥१२९३॥
पुनरपि परः पाह--
सेंजोयणाइयाणं नणूदयो संजयस्स पडिसिहो । सच्चमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ १२९४ ॥
ननु संयतस्य संयोजनादिकपायाणामुदयो निषिद्ध एव, तदुदये संयतत्वहानिप्रसङ्गात् । अत्रोत्तरमाह- सत्यम्, अनुभावं रसं विपाकमाश्रित्येहासौ तदुदयो निषिद्धः संयतादीनाम् , न तु प्रदेशकर्म प्रतीत्य ॥ १२९४ ॥
अनुभावविरहिता अपि प्रदेशा नियमेन वेद्यन्त इत्यागमेऽप्यभिहितमेवेति दर्शयन्नाहभणियं च सुए जीवो वेएइ नवाणुभावकम्मं ति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ १२९५ ॥ नाणुदियं निजीरइ नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं वेएउं मुच्चए सव्वो ॥ १२९६ ॥
सूत्रेऽपि भगवतीलक्षणे प्रोक्तम् । किम् ?, इत्याह-जीवोऽनुभावकर्म बेदयते, नवा । यत् पुनः प्रदेशकर्म तद् नियमात सर्व वेदयतीति । तथा चोक्तम्- "एवं खलु गोयमो । दुविहे कम्मे पन्नते, तं जहा-पएसकम्मे य, अणुभावकम्मे य । तत्थ पंजतं
, वेदयति सत्कर्म क्षायोपशामिकेषु नानुभावं सः । स्पशान्तकषायः पुनर्वेदयति न सस्कापि ॥ १२९३ ॥ २ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभावं प्रतीत्य न प्रदेशकर्म तु ॥ १२९५ ॥
भणितं च श्रुते जीवो वेदयति नवानुभावकर्मेति । यत्पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ १२९५ ॥
नानुदितं निर्यिते नासदुदेति यत् ततोऽवश्यम् । सबै प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ १२९६ ॥ - मया- ४ एवं खलु गौतम द्विविध कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म छ, अनुभावकर्न च। तत्र यत् तत् प्रदेशकर्म तवस्त्येक वेदयति, अस्त्येक मो
वेदयति । १ घ.छ. 'मा मए दु'।
For Private and Personal Use Only