________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
www.kobatirth.org
276 विशेषा०
॥ उक्तमावरणद्वारम् ।। अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह
बारसबिहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ १२५४ ॥
द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, जातावेकवचनम् , क्रोधादिलक्षणे क्षपिते विध्याताग्नितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पता प्रापिते; वाशब्दात् क्षयोपशमे चाविध्यातज्वलनसमतामुपकल्पिते, योगैमनो-वाक्-कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेषा भेदा एते वक्ष्यमाणाः पञ्च ॥ इति नियुक्तिगाथार्थः॥१२५४ ॥
भाष्यम्
खविए उवसमिए वासदेणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहि ॥ १२५५ ॥ गतार्था, नवरं प्रशस्तध्यानं प्रशस्तं मनः ॥ १२५५ ॥ क्षीणादिकीयस्वरूपमाहवीणा निव्वाययासणो व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥१२५६॥
व्याख्यातार्था, नवरमर्धविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककषायाः । क्षयोपशमावस्थेपु हि कषायेपु दलिकस्य वेदनमप्यस्ति, तच विघहितवह्निकल्पमिति ॥ १२५६ ॥
अथ कस्य चारित्रस्य कथं लाभः ?, इत्याह-- खयओ वा समओ वा खओसमओ व तिणि लब्भन्ति । सुहुम-हक्खायाइं खयओ समओ व नण्णत्तो॥१२५७॥
द्वादशविधे कपाये क्षपिते उपशमिते वा योगैः । लभ्यते चारित्रलाभस्तस्य विशेषा इमे पञ्च ॥ १२५४ ॥ २ क्षपिते उपशमिते वाशब्देन क्षायोपशमिके वा । द्वादशविधे कषाये प्रशस्तध्यानादियोगैः ॥ १२५५ ॥ ३ क्षीणा निर्धातहुताशन इव भम्मपिहित इवोपशान्ताः । दरविध्यातविघहितज्वलनौपम्याः क्षयोपशमाः ॥ १२५६ ॥
४ क्षयतो वा शमतो वा क्षयोपशमतो वा श्रीणि लभ्यन्ते । सूक्ष्मा-ऽथाख्याते क्षयतः शमतो वा नान्यतः ॥ १२५७ ॥ - सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणान्यायानि त्रीणि चारित्राणि श्रेणियादन्यत्र कषायक्षयोपशमात पूर्वप्रतिपन्नानि प्रतिपद्यमानानि च लभ्यन्ने, अनिवृत्तिवादरस्य पुनरुपशमश्रेणौ तदुपशमात् पूर्वप्रतिपन्नानां तेषां लाभः, क्षपकश्रेणौ तु क्षयादिति । मूक्ष्मसंपराय-यथाख्यातचारित्रे तूपशमश्रेणी कपायोपशमात् , क्षपकश्रेणौ तु तत्क्षयाल्लभ्येते, नान्यत:-क्षयोपशमाद् न प्राप्यत इत्यर्थः॥१२५७॥
आह- ननु 'तस्स विसेसा इमे पंच' इत्यत्र कि सामान्य चारित्रमानं तच्छब्दस्य वाच्यम् , आहोस्विद् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेव ?, इत्याशङ्कयाह
लैब्भइ चरित्तलाभो खयाइओ बारसण्ह नियमोऽयं । न उ पंचविहनियमणं पंच विसेस त्ति सामण्णं ॥१२५८॥
द्वादशानां कपायाणां क्षयादितः क्षय-क्षयोपशमो-पशमेभ्य एव लाभचारित्रस्य, नान्यथा, इत्येवमेवेह नियमो द्रष्टव्यः, न तु पञ्चविधनियमनम्- द्वादशकपायाणामेव क्षयादितो लब्धस्य चारित्रस्य पश्चैते विशेषा इत्येवंभूतो नियमोऽत्र ने कर्तव्य इत्यर्थः । किं तर्हि । द्वादशाना, अधिकानां वा कपायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव चारित्रस्यैते वक्ष्यमाणाः पश्च विशेषा इत्येवं सामान्यं चारित्रपात्रं तच्छन्दस्य संबध्यत इति ॥ १२५८॥
अथ कस्माद् द्वादशकपायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते , इत्या "जं तिण्णि बारसण्हं लब्भति खयाइओ कसायाण ।सुहुमं पण्णरसण्हं चरिमं पुण सोलसण्हं पि ॥ १२५९ ॥
यतः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणानि त्रीण्येव चारित्राणि द्वादशकपायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पश्चविधत्वं स्यात् ।। सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जिताना शेषपञ्चदशकषायाणां क्षयात् , उपशमाद् वा लभ्यते । चरमं तु यथाख्यातचारित्रं षोडशानामपि कपायाणां क्षयाव , उपशमाद् वा प्राप्यते । एवं च सति सामान्यस्यैव चारित्रस्य पश्च विशेषा भवन्ति ॥ इति गाथापचकार्थः ॥ १२५९ ॥
के पुनस्ते पञ्च विशेषाः १, इत्याह
१ गाथा १९५४ । २ लभ्यते चारित्रलाभः क्षयादितो द्वादशानां नियमोऽयम् । न तु पञ्चविधनियमन पञ्च विशेषा इति सामान्यम् ॥ १२५८ ॥ ३ क.ग. 'न क्रियत'। यत् त्रीणि द्वादशानां लभ्यन्ते क्षयादितः कषायाणाम् । सूक्ष्म पञ्चदशानां परमं पुनः पोडशानामपि ॥ १२५९ ॥
For Private and Personal Use Only