________________
Acharya Shri Kalassagarsun Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
275
विशेषा.
ने हु नवरिमहक्खाओवघाइणो सेसचरणदेसं पि । घाएंति, ताणमुदए होइ जओ साइयारं तं ॥१२४८॥
इह संशब्दस्य त्रयोऽर्थाः, तद्यथा-- ईपज्ज्यलनात् संज्वलनाः, अथया, 'सयराह' भगिति ज्वलनात् संज्यलनाः, यदिवा, परीपहादिसंपाते चारित्रिणमपि ज्वलयन्तीति संज्वलनाः, तदुदये यथाख्यातनारित्रं न भवति । कुतस्तदुदये तद् न भवति , इत्याह'असायमित्यादि' । 'जति' यस्मादकपायं यथाख्यातमुच्यते, तेन कारणेन संज्वलनकषायोदये तद् न लभ्यते, पूर्वलब्धमपि च पुनस्तदुदये सर्व तद् भ्रष्यतीति । न हि नैव यथाख्यातमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदगे तदपि शेषचारित्रं सातिचारं भवति ।। इति गाधादशकार्थः ॥ १२४६ ॥ १२४७ ॥ १२४८ ॥
अत एवाह--
सैब्वे चिय अइयारा संजलणाणं तु उदयओ होति । मूलछेज्जं पुण होइ बारसण्हं कसायाणं ॥१२४९॥ . सर्वेऽप्यालोचना-प्रतिक्रमणोभयादिच्छेदपर्यन्तमायश्चित्तशोध्याः, अपिशब्दात कियन्तोऽपि च, अतिचरणान्यतिचाराचारित्रविराधनाविशेषाः संज्वलनानामेवोदयतो भवन्ति । द्वादशानां पुनः कपायाणामुदयतो मूलच्छेद्यं भवति- मूलेनाऽष्टमस्थानवर्तिना पायश्चित्तेन च्छिद्यतेऽपनीयते यत् दोषजातं तद् मूलच्छेयम्- अशेगचारित्रोच्छेदकारीत्यर्थः । तदेवंभूतं दोषजानं द्वादशानामनन्तानुवन्ध्यअत्याख्यान-प्रत्याख्यानावरणलक्षणानां कपायाणामुदये संजायते । अथवा, इदं मूलच्छेद्य दोपजातं यथासंभवतो योज्यते, तद्यथाप्रत्याख्यानावरणकषायचतुष्टयोदये सर्वविरतिरूपस्य चारित्रस्य मूलच्छेद्यं सर्वनाशरूपं भवति, अप्रत्याख्यानकपायनतुष्कोदये तु देशविरतिचारित्रस्य, अनन्तानुवन्धिकषाय चतुष्कोदये पुनः सम्यक्त्वस्य ॥ इति नियुक्तिगाथार्थः ॥ १२४९ ॥
भाष्यम्
अइयारा छेदंता सव्वे संजलणहेयवो होति । सेसकसायोदयओ मूलच्छेजं वयारुहणं ॥ १२५० ॥ सप्तमस्थानवी प्रायश्चित्तविशेषश्छेदः । ततश्चालोचनादिना छदान्तेन सप्तविधप्रायश्चित्तेनान्तो येषां ते, एकस्याऽन्तशब्दस्य
१ न हि नवरमथाण्यातोपघानिनः शेषचरणदेशमपि । प्रन्ति, तेपामुदये भवति यतः सातिचारं तत् ॥ १२४८॥ २ सर्व एवातिचाराः संग्वलनानां तूदयतो भवन्ति । मूलबछेगं पुनर्भवति द्वादशानो कपायाणाम् ॥ १२४९ ॥
। भतिवाराश्छेदान्ताः सर्वे संस्खलनहेतवो भवन्ति । शपकपायोदयतो मूलच्छेद्यं व्रतारोहणम् ॥ १२५० ।। लोपाच्छेदान्ताः, सर्वेऽप्यतिचाराः संज्वलनरुपायोदयजन्या भवन्ति । शेषकपायाणां द्वादशानामुदये मृलच्छेद्यं समस्तचारित्रोच्छेदकारक दोषजानं भवति । तद्विशुद्धये च प्रायश्चित्तं पुनव्रतारोपणमिति ॥ १२५० ।।
अथवा, यथासंभवं मूलच्छेद्यं योज्यते, इत्येतदाह
अवा संजममूलच्छेज्जं तइयकलुसोदए निषयं । सम्मत्ताईमूलच्छेजं पुण बारसण्हं पि ॥ १२५१ ॥
तृतीयानां प्रत्याख्यानावरणकपायाणामुदये संयमस्य सर्वविरतिरूपस्य मूलच्छेद्यं नियतं निश्चितं भवति, सम्यक्त्वादिमूलच्छेयं - तु द्वादशानामप्युदये संपद्यत इति ।। १२५१ ।।
अथ प्रेयमाशङ्कय परिहरनाह-- मूलच्छेजे सिद्धे पुवढे मूलगुणघाइगणेणं । इय कीस पुणो गहणं अइयारविसेसणत्थं ति ॥१२५२॥ पगयमक्खायं ति य अइयारे तम्मि चेव मा जोए । तो मूलच्छेजमिणं सेसचरित्ते निओएइ ॥१२५३॥
आह- नन्वनन्तरनिर्दिष्टनियुक्तिगाथायां 'मूलगुणाणं लभं न लहइ मूलगुणघाइणो उदए' इत्येतस्मिन् पूर्वार्धे मूलगुणघातिग्रहणेन द्वादशकपायाणामुदये मूलच्छेद्यं सिद्धमेव, किमितीह पुनस्तद्ग्रहणम् । अत्रोत्तरमाह- अतिचारविशेषणार्थमिति- अतिचाराणां विशेषे व्यवस्थापनार्थमित्यर्थः । इदमेव व्यक्तीकुर्वन्नाह- 'पगयमित्यादि । इदमुक्तं भवति- "संजलणाणं उदए न लहइ चरणं अहक्खाय' इत्यनन्तरनियुक्तिगाथोत्तरार्धादिह यथाख्यातचारित्रं प्रकृतमनुवर्तते । ततश्च 'सव्वे चिय अइयारा संजलणाणं तु उदयओ होति' इत्येतानतिचाराननन्तरानुवर्तमाने यथाख्यातचारित्र एव शिष्योऽयीक्षीत् , तदेतद् मा भूत। ततस्तेनेह पुनरपि मूलच्छेद्यमेतद् - यथाख्यातवर्जितेऽशेपचारित्रे सामायिकादिके नियोजयति । अस्यां हि गाथायां मूलच्छेद्यग्रहणात् पुनःशब्दविशेषणाच्चायमर्थः संप. धते । संज्वलनानामुदये शेपचारित्रस्य सर्वेऽप्यतिचारा भवन्ति, द्वादशकषायाणामुदये पुनर्मूलच्छेद्यं भवति । यस्यैवास्यां गाथायां मूलच्छेद्यमुक्तम् , तस्यैवातिनारा अपि, न तु यथाख्यातचारित्रस्य, कषायोदयरहितत्वेन तस्य निरतिचारत्वात् ।। इति गाथाचतुष्टयार्थः ॥ १२५२ ॥ १२५३ ॥
, अथवा संयममूलच्छेचं तृतीयकलुषोदये नियतम् । सम्यक्त्वादिमूलरछेचं पुनद्वादशानामपि ॥ १२५॥ २ मूलच्छेये सिरे पूर्वा मूलगुणघातिग्रहणेन । इति कस्मात् पुनर्ग्रहणमतिचारविशेषणार्थमिति ॥ १२५२ ॥ प्रकृतमथाएगानमिति चातिचारे तस्मिोष मा योक्षीत् । ततो मूलच्छेयमिदं शेषचारित्रे नियोजयति ॥१२५३॥ ३ गाथा १२३८ । ४ गाथा १२४९ ।
For Private and Personal Use Only