________________
Shri Mahavir Jain Aradhana Kendra
'
www.kobatirth.org
274
Acharya Shri Kallassagarsuri Gyanmandir
विशेषा०
ननु रात्रीभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् । अत्रोत्तरमाह - व्रतधारिणः संयतस्यैव सद् रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणी देशविरतस्योत्तरगुण इत्यर्थः । कुतः १, आहारविरमणरूपत्वात्, तपोवत् । अथवा, तप एव वा तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम् - अशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्य:, तपोत्तरगुण एवेति भावः । इतवेदमुत्तरगुणः । कुतः १, महाव्रतसंरक्षणात्मकत्वात्, समित्यादिवदिति ॥ १२४०॥१२४१ ॥
अत्राह - ययेवम्, उक्तयुक्तेर्व्रतधारिणोऽपि तद् मूलगुणो न प्रामोति, इत्याह
तह वितयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणगहणम्मि य तं गहियं उत्तरगुण व्व ॥ १२४२ ॥ तथापि प्रतिनस्तन्मूलगुणो भण्यते, समस्तव्रतानुपालनात्, समस्त व्रत संरक्षणेनाऽत्यन्तोपकारित्वात् प्राणातिपात विरमणवत्, मूलगुणग्रहणाच साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम्, उत्तरगुणवदिति ॥ १२४२ ॥
कस्माद् मूलग्रहणे तद् गृह्यते १, इत्याह
जेम्हा मूलगुणचि न होंति तव्विरहियस्स पडिपुन्ना । तो मूलगुणग्गहणे तग्गहणमिहत्थओ नेयं ॥१२४३||
यस्मात् तद्विरहितस्य रात्रीभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् ; तथाहि - रात्रौ भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निप्रदीपनादिभिः स्पर्शनात् पुरः कर्मपात्कर्माद्यमेषणादोपदुष्टाहारग्रहणादेव प्राणातिपातव्रतविघातः । अन्धकारबलेन च पतितहिरण्यादिद्रविणग्रहणादेः, योषित्परिभोग संभवाच शेपव्रतविलोपः । इत्येवं रात्रिभोजनविरमणमन्तरेण न संभवन्त्येव प्राणातिपात विरत्यादिमूलगुणाः । अत एव तद्ग्रहणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदिति ॥ १२४३ ॥
अत्र प्रेरकः प्राह
जै मूलगुणो मूलव्यवगारि ति तं तवाईया । तो सब्बे मूलगुणा जइव न तो, तंपि मा होज्जा ॥१२४४ ॥
(x गुणग्र-1)
१ तथापि तद् मूलगुणो भव्यते मूलगुणपालकं यस्मात् । मूलगुणग्रहणे व तद् गृहीतमुसरगुण इव ॥ १२४२ ॥ ( + तस्येत्तर - 1 ) २ यस्माद् मूलगुणा एव न भवन्ति तद्विरहितस्य परिपूर्णाः । ततो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो ज्ञेयम् ॥ १२४३ ॥ ३. यदि मूलगुणो मूलवतोपकारीति तत् तपआदिताः । ततः सर्वे मूलगुणा यदिवा न ते, तदपि मा भूत् ॥ १२४४ ॥
यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, पामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरम मूलगुणो मा भूत्, उपकारित्वाविशेषात् । पूर्वापरविरोधचैवमनभ्युपगच्छतो भवतः तथाहि भवतैवानन्तरमुक्तं यथा'महाव्रत संरक्षणादुत्तरगुण इदं, समितिवत्' इति इदानीं त्वभिधत्से- 'महाव्रत संरक्षणाद् मूलगुण एतदिति' । अत्रोच्यते - किमिह विरुद्रम् १, उभयधर्मकं हि रात्रीभोजनविरमणम्, यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजमाणातिपातादनिवृत्तत्वात्, निशि भोजने - Sपि मूलगुणानामखण्डनात्, अत्यन्तोषकाराभावादिति व्रतिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् रजनिभोजने च तत्संभवात्, अतस्तद्विधाने मूलगुणानां खण्डनात्, तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः तपःप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति ।। १२४४ ।।
1
आह च
सेव्वव्वओवगारिं जह तं न तहा तवादओ वीसुं। जंते, तेणुत्तरिया होंति गुणा तं च मूलगुणो ॥ १२१५॥ ‘जं ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम्, न तथा तपः-समित्यादयो विष्वक् पृथक्, तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनत्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिपञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः ।। १२४५ ॥
अथ " संजलणाणं उदए' इत्यादिनिर्युक्तिगाथोत्तरार्धव्याख्यामाह
* ईसि सराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि | १२४६ ॥ अकसाय महखायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि || १२४७||
१. छ. ' अथवा ' । २ सर्वोपकारि यथा तद् न तथा तपआदयो विश्वक। यत् ते, तेनौतराहा भवन्ति गुणास्तच्च मूलगुणः || १२४५ ॥ ३ गाथा १२३८ । + औतरिका -1 ४] ईषद् समिति वा संपाते वा परपहादीनाम् । ज्वलनात संज्वलना नाऽथाख्यातं तदुदये ॥ १२४६ ॥ ( तरिका -1) अकपायसाव्यातं अन् संज्वलनोदये न तत् तेन । लभ्यते लब्धं च पुनर्भश्यति सर्वे तदुदये ॥ १२४७ ॥
For Private and Personal Use Only