________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
273
विशेषा० त्येसु ति' आङ् इह मर्यादायाम् , ईपदर्थे वा आ- सर्वविरतिप्रत्याख्यानमर्यादया प्रत्याख्यानमाढण्यन्ति, अथवा आ- ईषत् सावधगोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावण्वन्तीति प्रत्याख्यानावरणा इत्यर्थः । देशविरतो ह्यनन्तं सावद्ययोगं प्रत्याख्याय यदेकादशी. प्रतिमा प्रतिपन्नः सावद्ययोगस्य परिमितमनुमतिमात्र न अत्याचष्टे, तदेतत्कपायावरणसामर्थ्यात् , इत्यनया विवक्षयेषत्मत्याख्यानावरणा एतेऽभिधीयन्त इति ॥ १२३५॥
आह- ननु प्रत्याख्यानस्यावरणं सतः, असतो वा ?, इत्याशेकय पाह
नासंतरसावरणं न सतोऽभव्वाइविरमणपसंगा। पच्चक्खाणावरणा तम्हा तस्संभवावरणा ॥ १२३६ ॥ . एकान्तेनाऽसतस्तावदावरणं न संभवति, खरविषाणस्यापि तत्मसङ्गात् । नापि सतः, अभव्यानामपि प्रत्याख्यानसत्वेन विरतिमत्त्वपसङ्गात् । तर्हि किमेते कपाया आवृण्वन्ति ?, इत्याह- तस्मात् तत्संभवस्य प्रत्याख्यानसंभवस्य प्रत्याख्यानपरिणतेरावरणा। प्रत्याख्यानावरणा उच्यन्ते, परिणतिशब्दलोपादिति ॥ १२३६॥ .
एतदेव व्यक्तीकुर्वन् सदृष्टान्तमाह
उदए विरइपरिणई न होइ जेसिं खयाइओ होइ । पच्चक्खाणावरणा त इह जहा केवलावरणं ॥१२३७॥
येषामुदये विरतिपरिणतिरात्मनो न भवति, यत्क्षय-क्षयोपशमादिभ्यस्त्वसौ भवति, त इह प्रत्याख्यानावरणा उच्यन्ते, केवलज्ञानावरणवदिति । इदमुक्तं भवति- केवलावरणेन केवलज्ञानं न सदाऽऽवियते, अभव्यानामपि केवलित्वप्रसङ्गात् । अस्त्यभव्याना केवलम् , किन्त्वावृतमिति चेत् । तदयुक्तम् , मल्लकसंपुटावृतप्रदीपेन तन्मध्यस्येव स्वात्मनस्तेन प्रकाशनप्रसङ्गात् । नाऽप्यसत् केवलज्ञानं केवलज्ञानेनाऽऽवियते, खरविषाणस्याऽप्यावरणप्रसङ्गात् । तस्मात् सदसद्रूपं केवलज्ञानं तदावरणेनाऽऽवियते । तद्धि जीवद्रव्यरूपतया सदाऽऽवियते, आविर्भूततत्परिणत्या त्वसदाऽऽवियते, सदसदूपयोश्च कथञ्चिदेकत्वमेव । ततः सदसद्रूपस्य केवलज्ञानस्य यथा स्वरूपेण परिणतिसंभवस्तदावरणेनाऽऽवियते- आवरणसामर्थ्यात केवलज्ञानपरिणत्या परिणन्तुं जीवो न लभत इत्यर्थः एवं प्रत्याख्यानावरणकषायैरपि विरतिपरिणतिसंभव आत्रियते-विरतिपरिणामेन परिणन्तुं जीवो न प्रामोतीत्यर्थः । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थविस्तरभयात् ॥ इति गाथात्रयार्थः ॥ १२३७ ॥ 1 क.ग. 'त्ररू'। २ क.ग. 'शङ्कयाह' । ३ नाऽसत आवरणं न खतोऽभव्यादिविरमणप्रसङ्गात् । प्रत्याख्यानावरणास्तस्मात् तत्संभवावरणाः ॥ १२३६ ॥
उदये विरतिपरिणतिर्न भवति येषां क्षयावितो भवति । प्रत्याख्यानावरणास्त इद यथा केवलातरणम् ॥ १२३७॥ अयोक्तमेवार्थ संगृह्य विभणिषुः, तथा चतुर्थकषायाणां यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह
मूलगुणाणं लंभं न लहइ मूलगुणघाइणो उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ॥१२३८॥ - इह सम्यक्त्वं, व्रता-ऽणुव्रतानि च मूलभूता गुणा मूलगुणाः, उत्तरगुणानामाधारभूतत्वात् , तेषां मूलगुणानां लाभ न लभते । कदा', इत्याह- यथोक्तान् मूलगुणान् हन्तुं शीलं येषां ते मूलगुणघातिनस्तेषां मूलगुणघातिनामनन्तानुबन्ध्य-अत्याख्यान-प्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये । एतच्च 'पढमिल्लुआण उदए' इत्यादिना सर्व भावितमेव । तथा, ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संज्वलनाः, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः, तेषामुदये न लभते, लब्धं वा त्यजति चरणं चारित्रम् । किं सर्वमपि, न, इत्याह- यथैव तीर्थकर-गणधरैराख्यातं यथाख्यासमकायमित्यर्थः, सकपायं तु लभते । न च यथाख्यातचारित्रमात्रमेवोपघ्नन्ति संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, तदुदये शेषचारित्रातिचारसिद्धः ॥ इति नियुक्तिगाथार्थः ॥ १२३८॥
के पुनस्ते मूलगुणाः, यद्विघातिनो द्वादश कषायाः १, इत्याह. संम्मत्तसमेयाइं महव्वया-णुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ १२३९ ॥ गतार्था, नवरं शेषाणामुत्तरगुणानामाधारत्वात् सम्यक्त्व-महाव्रतादीनि मूलमुच्यते, तद्विघातिन एते द्वादश कषाया इति॥१२३९।।
अत्रार्थापच्याऽऽक्षिप्तमनवगच्छन्नाह पर:"निसिभत्तविरमणं पि हु नणु मूलगुणो कहं न गहियं तं ? । वयधारिणो च्चिय तयं मूलगुणो सेसयस्सियरो॥१२४० आहारविरमणाओ तवो व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खत्तणाओ समिइउ व्व ॥ १२४१॥
तमकवानदथे शेपचाणा, यद्विघाति
१ भूलगुणानां लाभ न लभते मूलगुणघातिन उदये । संज्वलनानामुदये न लभते चरणमथाण्यातम् ॥ १२३८॥ २ . छ. 'कत्वं महानतानि ।।
गाचा १२२६ । ४ सम्यकत्वसमेतानि महावना-इणुव्रतानि मूलगुणाः । मूलं शेषाधारो द्वादश तद्धातिन एते ॥ १२३९ ॥ ५ निशिभक्तविरमणमपि हि ननु मूलगुणः कथं न गृहीतं तत् । प्रतधारिण एव तद् मूलगुणः शेषम्येनरः ।। १२४०॥
आहारविरमणात तप इव नप एव वा यतोऽनशनम् । अथवा महाव्रतसंरक्षत्वातू समितय इव ॥१२४१॥
For Private and Personal Use Only