________________
Acharya Shri Kallassagarsun Gyan Manor
www.kobatirth.org
Shri Mahave Jain Aradhana Kendra
272 विशेषा० कषायाः। ते च बहुवचननिर्देशाचत्वारः क्रोधादयो गम्यन्ते । एवं देशनिरत्याधुत्तरोत्तरगुणघातित्वात् द्वितीय-तृतीय-चतुर्थत्वेन, कषायशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः संमता इति ।। १२२८ ॥ १२२९ ॥
भवसिद्धीया वि' इत्येतद् व्याख्यानयतिभवसिद्धिया वि भणिए नियमा न लहंति तयमभव्वा वि । अविसदेण व गहिया परित्तसंसारियाईया॥१२३०॥
'भवसिदिकाः' इत्युक्तेऽपिशब्दात 'अभव्यास्तु नैव लभन्ते' इत्यवगम्यत एव । अथवा, अपिशब्दात् 'परीत्तसंसारादयोऽपि न लभन्ते' इति गम्यते ॥ इति गाथाचतुष्टयार्थः ।। उक्ताः सम्यक्त्वस्याऽऽवरणभूताः कषायाः॥१२३०॥
अथ देशविरत्यावरणभूतांस्तानाह__बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं । सम्मइंसणलंभं विरयाविरई न उ लहंति ॥ १२३१ ॥
सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते, ते प्रत्याख्याना: अकारस्य सर्वप्रतिषेधवचनत्वात् , अप्रत्याख्याना नामधेयं येषां तेऽत्याख्याननामधेयास्तेषामप्रत्याख्याननामधेयानाम् । द्वितीयस्य देशविरतिगुणस्याऽऽवारकत्वाद् द्वितीयाः, तेच ते कषायाश्च द्वितीयकपायास्तेषां द्वितीयकपायाणामुदये 'भव्याः सम्यग्दर्शनलाभ लभन्ते' इति वाक्यशेपः । अयं च वाक्यशेषो 'विरयाविरई न उ लहति' इत्यत्र तुशब्दोपादानाल्लभ्यते, एषामुदये भव्याः सम्यग्दर्शनलाभ लभन्ते, विरताविरतिं देशविरति पुनर्न लभन्त इति वाक्यसंगतेरिति । विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिस्ताम् ॥ इति नियुक्तिगाथार्थः ॥ १२३१ ॥
भाष्यम्
सव्वं देसो व जओ पच्चक्खाणं न जेसिमुदएणं । ते अप्पच्चक्खाणा सव्वनिसेहे मओऽकारो ॥१२३२॥
सम्मइंसणलंभ लभंति भविय ति वक्कसेसोऽयं । विरयाविरइविसेसणतुसहसंलक्खिओऽयं च ॥१२३३॥ गाथा १२२६ । २ भवसिद्धिका अपि भणिते नियमाद् न लभन्ते तदभव्या भपि । अपिशब्देन वा गृहतिाः परीत्तसंसारादिकाः ॥ १२३० ।।
द्वितीयकपायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभ विरताविरतिं न तु लभन्ते ॥ १२३॥ सर्व देशो वा यतः प्रत्याख्यानं न येषामुवयेन । तेऽप्रत्याख्यानाः सर्वनिषेधे मतोऽकारः ॥ १२॥२॥
सम्यग्दर्शनलाभ लभन्ते भव्या इति वाक्यशेषोऽयम् । विरताविरतिविशेषणतुशब्दसंलक्षितोऽयं च ॥ १२३३॥ गतार्थे एव ॥ १२३२ ॥ १२३३ ॥ अथ तृतीयस्य सर्वविरतिगुणस्याऽऽवारकांस्तृतीयकषायानाह
तैइयकसायाणुदए पञ्चक्खाणावरणनामधेज्जाणं । देसे-कदेसविरई चरित्तलंभं न उ लहंति ॥ १२३४ ॥ .
सर्वविरतिलक्षणतृतीयगुणघातित्वात् , क्षपणक्रमाद् वा तृतीयाश्च ते कषायाश्च तृतीयकषायाः क्रोधादयश्चत्वारस्तेषामुदये । कथंभूतानाम् ?, आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, तस्याऽऽवरणाः प्रत्याख्यानावरणाः, एतदेव नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः, तेषाम् । आह- ननु 'अप्रत्याख्याननामधेयानामुदये सर्वथा प्रत्याख्यानं नास्ति' इत्युक्तम्, नत्रा प्रतिषि दत्वात् । इहाऽपि चावरणशब्देन प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यते, इति क एषां प्रतिविशेषः' इति । अत्रोच्यते-तत्र न सनिषेध उक्तः, इह त्वाङ मर्यादे-षदर्थत्वात्, आ- सर्वविरतिप्रत्याख्यानमर्यादया, अथवा, ईषत्- सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते, न देशविरतिप्रत्याख्याननिषेध आवरणशब्दः, तथा चाह-देशश्चैकदेशश्च देशै-कदेशौ तत्र देशः स्थूलपाणातिपातादिः, एकदेशस्तु तस्यैव दृश्यवनस्पतिकायायतिपातः, तयोर्देशै-कदेशयोर्विरतिनिवृत्तिस्ता 'लभन्ते' इति वाक्यशेषः । अत्राप्येष वाक्यशेषः 'चरित्तलंभं न उ लहति' इत्यत्र तुशब्दोपादानादेव लभ्यते । चरन्त्यनिन्दितमनेनेति चारित्रम् , अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम्, सर्वविरतिक्रियेत्यर्थः, तस्य । लाभस्तम् , एपामुदये न लभन्ते, देशै-कदेशविरतिं पुनर्लभन्ते ॥ इति नियुक्तिगाथार्थः ॥ १२३४ ।।
भाष्यम्
सव्वं पच्चक्खाणं वरति ते जं न देसमेएणं । पच्चक्खाणावरणा आमज्जादी-सदत्थेसु ॥ १२३५ ॥
यद् यस्मात् सर्वविरतिरूपं सर्व प्रत्याख्यानमावृण्वन्ति ते तृतीयकषायाः, न देशप्रत्याख्यानम् , एतेन कारणेन प्रत्याख्यानावरणा अमी उच्यन्ते, 'न तु प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वमपि प्रत्याख्यानमेषामुदये न भवति' इति गम्यते । अयं तु विशेषः कुतः, यत् सर्वविरतिप्रत्याख्यानमावृण्वण्त्यमी, न देशप्रत्याख्यानम् १, इत्याशङ्कयाह- 'आ मज्जादी-सद१.छ. 'तीयाना' । २ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशै-कदेशविरतिं चारित्रलाभं न तु लभन्ते ॥ १२३४ ॥
३ सर्व प्रत्याख्यानमावृण्वन्ति ते यद् न देशमेतेन । प्रत्याख्यानावरणा आ मर्यादे-पदर्थयोः ॥ १२३५ ॥
For Private and Personal Use Only