________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
271
, विशेषा०
सागरोपमेषु क्षपितेषु क्षपकश्रेणिर्भवतीति ॥ १२२२ ॥
कियत्सु भवेष्वेवं देशविरत्यादिलामो भवति ?, इत्याह
एवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सव्वाइं ॥ १२२३ ॥
एनमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति । यदिवा, तीव्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति । श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धा. न्तिकाभिमायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षपकश्रेणिर्वा भवतीति । तदेवमभिहितं क्रमद्वारम् ।। १२२३ ॥
अथ तदावरणद्वारं चेतसि निधाय वक्ष्यमाणगाथासंबन्धनार्थमाह
अहुणा जस्सोदयओ न लभइ दंसणाइसामइयं । लद्धं व पुणो भस्सइ तदिहावरणं कसायाई ॥ १२२४ ॥
सुगमा, नवरं तदिह कमायादिकमावरणमुच्यते । तत्रानन्तानुवन्धिकषायचतुष्टयं मिथ्यात्वं च सम्यक्त्वस्याऽऽवरणम् , श्रुतस्य श्रुतज्ञानावरणम् , चारित्रस्य चारित्रमोहनीयमिति, तदेवाह- 'पढमिल्लुआणेत्यादि' ॥ १२२४ ।।
अथवा पातनान्तरमाह
अहवा खयाइओ केवलाई जं जेसिं ते कइ कसाया । को वा कस्सावरणं को व खयाइक्कमो कस्स?||१२२५॥ .. अथवा, यत् केवलादिकं, आदिशब्दाद् दर्शन-चारित्रादिपरिग्रहः, येषां कपायाणां क्षयादितो भवति, आदिशब्दात् क्षयो पशमादिपरिग्रहः, ते कति कषायाः १, को वा कस्य सामायिकस्याऽऽचरणम् १, को वा क्षयादिक्रमः कस्य । ॥ इत्येकविंशतिगाथार्थः॥ १२२५॥
अथ क्रमेणोत्तरमाहपेढमिल्लुआण उदए नियमा संजोयणाकसायाणं । सम्मइंसणलंभं भवसिद्धीया विन लहंति ॥१२२६॥
१ एवमप्रतिपतिते सम्यक्त्वे देव-मनुजजन्ममु । अन्यतरश्रेणियर्जमेकभवेन वा सर्वाणि ॥ १२२३ ॥ ३ क. ग. 'संचर'। ३ अधुना यस्योदयतो न लभते दर्शनादिसामायिकम् । लब्धं वा पुनर्मंश्यति तदिहावरणं कषायादिः॥ २२४॥ ७ अथवा क्षयादितः केवलादि यद् पेषां ते कति कषायाः। को वा कस्यावरणं को वा क्षयादिक्रमः कस्य ॥ १२२५ ॥ ५ क. ग. 'मप'।
प्रथमानामुदये नियमात् संयोजनाकाषायणाम् । सम्यग्दर्शनलाभं भवसिद्धिका भपि न लभन्ते ॥ १२९५ ॥(कवायाण) प्रथमिल्लुकानां संयोजनाकषायाणामुदये नियमात् सम्यग्दर्शनलाभ भवसिद्धिका अपि न लभन्ते, किमुताऽभव्याः १ । इत्यक्षरयोजना । भावार्थस्त्वयम्-प्रथमा एव देशीवचनतः प्रथमिल्लुकास्तेषां प्रथमिल्लुकानामनन्तानुबन्धिक्रोध-मान-माया-लोभानामित्यर्थः । प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् , क्षपणक्रमाद् वेति । उदये विपाकानुभवे सति । नियमाद् नियमेन, अस्य व्यवहितः संवन्धः, स च दर्शित एव । किंविशिष्टानां प्रथमिल्लुकानाम् , इत्याह- कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजनास्ते च ते कपायाश्चेति संयोजनकषायाः, दीर्घत्वं प्राकृतत्वात् । अथवा, संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषामुदये नियमात सम्यगविपरीतं दर्शनं सम्यग्दर्शनं सम्यक्त्वं तस्य लाभस्तम् । भवे सिद्धिर्येषां ते भवसिद्धिकाः । ननु सर्वेषामपि सिद्धिर्भव एव कस्मिंश्चिद् भवेत , इति किमनेन व्यवच्छिद्यते । सत्यम् , किन्त्विह व्याख्यानात् तद्भव एवं भवो गृह्यते, तद्भवसिद्धिका इत्या, तेऽपि न लभन्ते, किमुताऽभव्याः ॥ इति नियुक्तिगाथार्थः ॥ १२२६ ॥
भाष्यम्
खवणं पडुच्च पढमा पढमगुणविघाइणो त्ति वा जम्हा । संजोयणाकसाया भवादिसंजोयणाउ ति॥१२२७॥ गताथैव ॥ १२२७॥ कषायशब्दार्थमाहकैम्मं कसं भवो वा कसमाओ सिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति॥१२२८१
आओ व उवादाणं तेण कसाया जओ कसस्साया। चत्तारि बहुवयणओ एवं बिइयादओ वि मया ॥१२२९॥ ‘कर्षन्ति परस्परं हिंसन्ति पाणिनोऽस्मिमिति कर्ष कर्म, भवो वा; अथवा, कृष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कषं कर्मैव, भव एव वा; यतो यस्मात् कषं कर्म, कपो वा भव आयो लाभी येषां ततस्ते कषायाः । अथवा, कपमाययन्ति यतः, अतः कषायाः- कां गमयन्तीत्यर्थः । अथवा, आप उपादानं हेतुरित्यनान्तरम् , यस्मात् कपस्याऽऽया हेतवस्तेन १क. ग. व गु' । २ क्षपणं प्रतीत्य प्रथमाः प्रथमगुणविघातिन इति वा यस्मात् । संयोजनाकपाया भवादिसंयोजनादिति ॥ १२२७ ॥ कष्यन्ते
३ कर्म कषं भवो या कपमाय एषां यतो कपायास्ततः । कषमाययन्ति वा यतो गमयन्ति कषं कषाया इति ॥ १२२८ ॥+चिं.१२.००)
आयो वोपादानं तेन कपाया यतः कपस्यायाः। चत्वारो बहुवचनत एवं द्वितीयादयोऽपि मताः ॥ १२२९ ॥
मा
For Private and Personal Use Only