________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
270
विशेषा०
अथ कोद्रवोदाहरणमाहनासइ सय व परिक्कमओ व जह कोदवाण मयभावो । नासइ तह मिच्छमओ सयं व परिकम्मणाए वा॥१२१७॥
यथा केषांचित कोदवाणां मदनभावः स्वयमेवापति, केषांचित्तु गोमयादिपरिकर्मतः, केषांचित पुन वापैति तदत मिथ्यात्व. मदनभावोऽपि कश्चित् स्वयमेवापति, कश्चित्तु गुरूपदेशपरिकर्मणया, कश्चित् पुनर्नापैति ॥ १२१७ ॥
केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति !, इत्याह
अपुव्वेण तिपुंज मिच्छत्तं कुणइ कोदवावमया । अनियट्टीकरणेण उ सो सम्मइंसणं लहइ ॥ १२१८ ॥
इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्विधा कोद्रवा भवन्ति; तद्यथा- शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुजैर्व्यवस्थापयन्ति । तत्र सम्यक्त्वावारककर्मरस क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग जिनवचनरुचरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । अर्धशुद्धपुद्गलपुञ्जस्तु सम्पमिथ्यात्वम् । अविशुद्धपुद्गलपुञ्जः पुनर्मिथ्यात्वमिति । तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ हौ। यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वानिवर्तिकरणेन तल्लाभादेष एवं क्रमो द्रष्टव्यः ।
ननु तदाऽपूर्वकरणस्य पूर्वलब्धस्यैव लाभात कथपपूर्वता' इति चेत् । सत्यम्, किन्तु 'अपूर्वमिवाऽपूर्व स्तोकवारमेव लापान इति हद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत् , कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्पविष्टश्चापशमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततःक्षायोपशमिकपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते' इत्यलं विस्तरेणेति॥१२१८॥
आह- नन्वित्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्ता ?, इत्याह'तित्थंकराइपूयं दळूणण्णेण वा वि कज्जेण । सुयसामाइयलाहो होज्ज अभव्वस्स गंठिम्मि ॥ १२१९ ॥ . नश्यति स्वयं वा परिकर्मतो वा यथा कोदवाणां मदनभावः । नश्यति तथा मिथ्यात्वमवनः स्वयं वा परिकर्मणया वा ॥१२॥
अपूर्वेण त्रिपुअं मिथ्यात्वं करोति कोद्रवोपमया । अनिवर्तिकरणेन तु स सम्यग्दर्शनं लभते ॥१२१८॥
। सीकरादिपूजा रष्वाऽन्येन वाऽपि कार्येण । श्रुतसामायिकलामो भवेदभण्यस्य प्रन्धी ॥ १२॥९॥ अहंदादिविभूतिमतिशयवतीं दृष्ट्रा 'धर्मादेवंभूतः सत्कारः, देवस्वराज्यादयो वा पाप्यन्ते' इत्येवमुत्पमबुद्धरभव्यस्यापि ग्रन्थिस्थान प्राप्तस्य 'तद्विभूतिनिमित्तम्' इति शेषः देवत्व-नरेन्द्रत्व-सौभाग्य-रूप-बलादिलक्षणेनाज्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याऽभव्यस्यापि कष्टानुष्ठानं किश्चिदङ्गीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत् , तस्याऽप्येकादशाङ्गपागनुज्ञानात् । सम्यक्त्वादिलाभस्तु तस्य न भवत्येव, अभव्यत्वहानिप्रसङ्गादिति ॥ १२१९ ।। अथ यदुक्तम्- 'अपुग्वेण तिपुंज मिच्छत्तं कुणई' इत्यादि । तद्विवरणमाह
मैयणा दरनिव्वालिया निव्वलिया यजह कोहवा तिविहा। तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ॥१२२०॥
यथा परिकर्म्यमाणाः कोद्रवास्त्रिविधा भवन्ति, तद्यथा- मदनाः- अशुद्धा एवेत्यर्थः, तथा, 'दरनिव्यलिय त्ति ' ईपनिर्वलिताः शुद्धा-ऽशुद्धस्वरूपा इत्यर्थः, 'निवलिया य ति' निर्वलिताश्च शुद्धा एवेत्यर्थः, तथाऽपूर्वकरणलक्षणपरिणामवशेन शुद्धा-शुद्धमिश्रभेदाद् मिथ्यात्वं जीवस्त्रिविधं करोतीति ॥ १२२० ॥
अथ जल-वस्त्रदृष्टान्तौ युगपदाह
जह बेह किंचि मलिणं दरसुद्धं सुद्धमंबु वत्थं च । एवं परिणामवसा करेइ सो दसणं तिविहं ॥१२२२॥
यथा वा किश्चिदम्बु जलं, वस्त्रं च मलिनं कलुषं भवति-शोध्यमानमपि न शुध्यति, किश्चित्तु दरशुद्धमीषद् विशुद्धं भवति, अपरं तु शुदं भवति । एवमपूर्वकरणलक्षणपरिणामवशाद् दर्शनमोहनीय कर्म जीवो मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिधा करोतीति॥१२२१॥
ननूक्त इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् , इत्याह
सम्मत्तम्मि उ लद्धे पलियपुहत्तेण सावेओ होज्जा । चरणो-वसम-खयाणं सागर संखंतरा होंति ॥१२२२॥
यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् पल्योपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवामोति । ततोऽपि संख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणी प्रतिपद्यते, ततोऽपि संख्यातेषु | गाथा १२१८। । मदमा दरनिर्वलिता निलितामा यथा कोदवास्विविधाः । तथा मिथ्यात्वं विविध परिणामवशेन स करोति । १२२०॥
। यथा वेह किश्चिद् मलिनं वरशुद्धमम्बु वस्त्रं च । एवं परिणामवशात् करोति स वर्शनं त्रिविधम् ॥ १२२१ ॥ ४ सम्यक्त्वे तु लब्धे पक्ष्यपृथक्त्वेन श्रावको भवेत् । चरणो-पशम-क्षयाणां सागराः संख्या अन्तरं भवन्ति ।। १२२२॥ ५ क. ग. 'वगो हो।
For Private and Personal Use Only