________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवा, तस्यास्याचुभे कीटिकानामवस्थान नावात्प्लत्य सम्यग्दृष्टिगुणस्थानकावत्यादपूर्वकरणम् । ततः कीलकाकानां क्षितिगमन
269 विशेषा. तथा, क्वापि स्थाणौ कीलके उत्सरणमारोहणम् , संजातपक्षाणां च तासां ततः स्थाणोः समुत्पतनम् । कासांचित् तु 'ठाणं थाणुसिरे वत्ति' स्थाणुबुध्नेऽवस्थानं वेत्यर्थः कासाचित् तु स्थाणुशिरसा स्थाणुबुध्नादवरोहणं वा त्यावर्तनमिति । तत्र कीटिकानां क्षितिगमनसदृश स्वाभाविकं सदा प्रवृत्तं प्रथमं यथाप्रवृत्तकरणम् । स्थाण्वारोहणसदृशं त्वमाप्तपूर्ववादपूर्वकरणम् । ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम् , अनिवर्तिकरणवलेन मिथ्यात्वादुत्प्लुत्य सम्यग्दृष्टिगुणस्थानकगमनात् । तथा, स्थाणाविव स्थाणुवत् स्थाणुबुध्न इत्यर्थः, यथा स्थाणुबुध्ने कीटिकानामवस्थान तथा प्रन्थिना सह वर्तत इति प्रन्थिकः स चासौ सत्त्वश्च ग्रन्थिकसत्ता- अभिन्नग्रन्थिजीवः, तस्य तत्र ग्रन्थिदेशे ग्रन्थिसंनिधानेऽवस्थानम् । यथा च कीटिकानां ततः स्थाणुनादवसर्पण व्यावर्तनं तथा जीवस्य पुनरपि कर्मस्थितिविवर्धनमिति ॥ १२०८ ।। १२०९ ॥ १२१० ॥
पुरुषदृष्टान्तमाश्रित्याह--
जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइक्कमभीया तुरंति पत्ता य दो चोरा ॥१२१॥ • दह्र मग्गतडत्थे ते एगो मग्गओ पडिनियत्तो । बितिओ गहिओ तइओ समइक्कंतुं पुरं पत्तो ॥१२१२॥ - अडवी भवो मणूसा जीवा कम्मठिई पहो दीहो । गंठी य भयट्ठाणं राग-दोसा य दो चोरा ॥१२१॥
भग्गो ठिइपरिवुड्ढी गहिओ पुण गंठिओ गओ तइओ। सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाणि ॥१२१४॥
यथा वात्र केचित् त्रयः घुमासोऽटवीमध्येन किश्चित् पुरं गन्तुं प्रपन्नाः स्वभावगत्या सुदीर्घ पन्थानं यान्ति । ततो वेलातिक्रमभीता यावत् त्वरन्ते तावद् भयस्थाने कस्मिंश्चिद् द्वौ तस्करी प्राप्तौ । तौ चोत्खातनिशितकराल करवालव्यग्राग्रहस्तौ मार्गस्योभयतटस्थावतीव भीषणौ दृष्ट्वा, एकः पुरुषो विजृम्भितमनःक्षोभो मार्गतः प्रतीपं पश्चान्मुखो व्यावृत्तः, द्वितीयस्तु ताभ्यां गृहीतः तृतीयस्तु
। यथा वा पयो मनुच्या यान्त्यटवीपर्थ स्वभावगमनेन । वेलातिक्रमभीतास्त्वरम्ते प्राप्तौ च द्वौ चौरी ॥१२॥Xथाणुदृष्ट्वा मार्गतटस्थौ तावेको मागतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः समतिक्रम्य पुरं प्राप्तः ॥ १२१२॥ अटवी भवो मनुष्या जीवाः कर्मस्थितिः पयो दीर्घः । प्रन्थिश्च भयस्थानं राग-दोषी च द्वौ चौरी ॥ १२॥ (हे.) भग्नः स्थितिपरिवर्धी गृहीतः पुनर्गन्धिको गतस्तृतीयः। सम्यक्त्वपुरमेवं योजयेत् श्रीणि करणानि ॥ १२१४॥
२क. ग. 'हिति प'।३क. ग. 'करनालकरालव्य'। तौ तिरस्कल समतिक्रम्य चेष्टपुरं प्राप्तः । एवं प्रस्तुतेऽपि सर्वमिदं गोज्यते. तथाहि-अटवी तावत् भवो द्रष्टव्यः । मनुष्यत्रयरूपास्तु व्यावृत्ताभिन्नग्रन्धिक-ग्रन्थिदेशस्थित-भिन्नग्रन्थिकभेदात् त्रिविधा जीवाः । दीर्घः पन्था द्राधीयसी कमस्थितिः, तदतिक्रमणं दीर्घकर्मस्थितिक्षपणम् । भयस्थानं ग्रन्थिदेशः । चौरौ तु राग-द्वेषौ । भग्नः प्रतीपगामी ग्रन्थिदेशमेत्य पुनरप्यशुभपरिणामः कर्मस्थितिवर्धकः । तस्करद्वयगृहीतस्तूदिनप्रवलराग-द्वेषो ग्रन्थिकसचः । इष्टपुरप्राप्तस्तु सम्यग्दर्शनादिषु प्राप्तः। अथ करणत्रयं योज्यते-पुरुषत्रयस्य खाभाविकगमनं ग्रन्थिदेशपापकं यथाप्रवृत्तिकरणम् , शीघ्रगमनेन तस्करातिक्रमणमपूर्वकरणम् , इष्टसम्यक्त्वादिपुरमापकमनिवर्तिकरणमिति ॥ १२११ ॥ १२१२ ॥ १२१३ ।। १२१४ ॥
____ आह- ननु ग्रन्थिभेदं कृत्वा सम्यक्त्वादिरूपं निर्वाणपथं जीवाः किं परोपदेशाल्लभन्ते, स्वयमेव वा, न लभन्ते वोभयथापि ?, इत्याशङ्कय पथदृष्टान्तमाह
उवएसओ सयं वा लभइ पहं कोइ न लभए कोइ । गंठिठ्ठाणं पत्तो सम्मत्तपहं तहा भव्यो ॥ १२१५ ॥
यथेह कश्चित पथि परिभ्रष्टोऽव्यामितश्चेतश्च परिभ्रमन् कथमपि स्वयमेव लभते पन्थानम् , कश्चित तु परोपदेशात तं प्रा नोति, कोऽपि पुनर्न लभते । एवं सर्वथा प्रनष्टसत्पथो जीवः संसाराटव्यां पर्यटन कोऽपि भव्यो ग्रन्थिस्थान प्राप्तः स्वयमेव सम्यक्स्वा. दिसत्पयं लभते, कोऽपि परोपदेशात् , कश्चित्तु दूरभव्यः, अभव्यो वा न लभते-ग्रन्थिदेशप्राप्तोऽपि ह्यसौ व्यावर्तत इति भावः॥१२१५॥
अथ ज्वरगृहीतदृष्टान्तमाह
भेसज्जेण सयं वा नस्सइ जरओ न नस्सए कोइ । भव्वस्स गंठिदेसे मिच्छत्तमहाजरो चेव ॥ १२१६ ॥
यथा ज्वरगृहीतस्य कस्यापि कथमपि ज्वरः स्वयमेवापैति, कस्यचित्तु भेषजोपयोगात् , अपरस्य तु नापगच्छति । एवं मिथ्यात्वमहाज्वरोऽपि कस्यापि ग्रन्थिभेदादिक्रमेण स्वयमेवापगच्छति, कस्यचित्तु गुरुवचनभेषजोपयोगात् , अन्यस्य तु नापैति । तदेवमेतास्तिस्रोऽपि गनयो भव्यस्य भवन्ति, अभव्यस्य त्वेकैव तृतीया गतिरिति ॥ १२१६॥
१ उपदेशतः स्वयं वा लभते पर्थ कश्रिद् न लभते कश्चित् । प्रन्धिस्थान प्राप्तः सम्यक्त्वपथं तथा भव्यः ॥ १२१५॥ २ भैषज्येन स्वयं वा नश्यति ज्वरको न नश्यति कश्चित् । भव्यस्य प्रन्थिदेशे मिथ्यात्वमहाज्वरश्चैवम् ॥ १२१६॥
.
For Private and Personal Use Only