________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
268 विशेषा०
तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिण्हंतो पावए गठिं ॥ १२०६ ॥
यथा कश्चित् कुटुम्बिकोऽतिमहति धान्यभृतपल्ये कदाचित् कथमपि स्तोकस्तोकतरमन्यद् धान्य प्रक्षिपति, बहुतरं तु शोधयति-गृहव्ययाद्यर्थ ततस्तत् समाकर्षति । एवं च सति क्रमशो गच्छता कालेन तस्य धान्यं क्षीयते । प्रस्तुते योजयति- 'तहेत्यादि तथा तेनैव प्रकारेण कर्मैव धान्यभृतपल्या कर्मधान्यपल्यः, तत्र कर्मधान्यपल्ये, चिरसंचितप्रचुरकर्मणीत्यर्थः, कुटुम्बिकस्थानीयो जीवः कदाचित् कथमप्येवमेवाऽनाभोगतो बहुतरं चिरबद्ध कर्म शोधयन् क्षपयन् , स्तोकतरं तु नूतनं गृह्णानो बध्नन् ग्रन्धि यावत् प्राप्नोतिदेशोनकोटीकोटिशेषाण्यायुर्वर्जसप्तकाणि धृत्वा शेष तत् कर्म क्षपयतीत्यर्थः । एष यथामवृत्तकरणस्य व्यापार इति ॥ १२०६ ॥
अत्र कश्चिदाह-नन्वागमविरुद्धमिदम्, यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिरयम् । अस्थ चैवंभूतस्य जन्तोहुतरस्य कर्मणः क्षेपणम् , स्तोकस्य च बन्धोऽन्यत्रागमे निषिद्ध एक, यदाह
"पैल्ले महइमहल्ले कुंभ पक्खिबइ सोहए नालिं । असंजए अविरए बहु बंधए निज्जरे थोवं ॥१॥ पल्ले महइमहल्ले कुंभ सोहए पक्खिवे नालि । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ॥२॥
पल्ले महहमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ॥ ३॥" तदेवमिह गाथात्रय आद्यगाथायामसंयता-अविरत-मिथ्यादृष्टेः पतिसमये बन्धस्य बहुत्वम् , निर्जरायास्त्वल्पत्वमुक्तम् । मकद्रिस्त्वेतद्विपरीतमिह प्रतिपाद्यते, इति कथं न विरोधः।
- अत्रोच्यते-मायोवृत्तिरेषा यत्- असंयतस्य बहुतरकर्मण उपचयः, अल्पतरस्य चापाय इति । यदि पुनरित्थमेव सर्वदैव स्यात् , तदोपचितबहुकर्मणां जीवानां कदापि कस्यापि सम्यक्त्वादिलाभो न स्यात्, न चैतदस्ति, सम्यग्दृष्टयादीनां प्रत्यक्षत एवोपलम्भात् । किञ्च, यदि सर्वदैव बहुतरस्य कर्मण उपचयः, तदा कालक्रमेण सर्वस्यापि पुद्गलराशेः कर्मतयैव ब्रहणप्रसङ्गः स्यात्, न चैतदप्यस्ति,स्तम्भ कुम्भा-ऽभ्र-भू-भवन-तनु-तरु-गिरि-सरित्-समुद्रादिभावेनापि परिणतानां तेषां सदैव दर्शनात् । तस्मादिह त्रयो
१ तथा कर्मधान्यपल्ये जीयोऽनाभोगतो बहुतरम् । शोधयन् स्तोकतरं गृह्वानः प्रामोति प्रन्धिम् ॥ १२०६॥+ चापचय- २ पल्ये महातिमहति कुम्भ प्रक्षिपति शोधयति नाडीम् । असयतोऽविरतो बहु बनाति निर्ज़गाति स्तोकम् ॥1॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति नाडीम् । यः संयतः प्रमतो बहु निज॑णाति बनाति स्तोकम् ॥ २॥
पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तो बहु निजृणाति बनाति न किञ्चित् ॥३. भङ्गा द्रष्टव्याः , तद्यथा-- कस्यचिद् वन्धहेतूनां प्रकर्षात , पूर्वोपचितकर्मक्षपणहेतूनामपकर्षाच्चोपचयप्रकर्षः, कस्यचित्तु बन्धहेतूनां क्षपणहेतूनां च साम्यादुपचया-ऽपचयसाम्यम् , कस्यचित् पुनर्वन्धहेतूनामपकर्षात् क्षपणहेतूनां च प्रकर्षादपचयप्रकर्षः। तदिह तृतीयभने यदाऽसौ मिथ्यादृष्टिरपि वर्तते तदा ग्रन्थिदेशं प्राप्नोति । इत्युक्तः पत्यदृष्टीतः ॥१२०५ ॥ १२०६ ॥
कथं पुनरनाभोगत एवैतावतः कर्मणोऽपचयः १, इत्याशङ्कय द्वितीयं गिरिसरिदुपलदृष्टान्तमाह
'गिरिनइ-वत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठितिक्खवणमणाभोगओ तस्स॥१२०७॥
गिरिनदीपाषाणानां, तथा, वर्तनी मार्गस्तत्पतितपाषाणानां च लघूपलशकलानां या घटना परस्परादिघर्षणा तदौपम्येन प्रन्थि यावत् कर्मस्थितिक्षपणमनाभोगत एव तस्य जीवस्य प्रथमेन यथाप्रवृत्तकरणेन भवति । अयमभिप्राय:- यथा गिरिनदीपाषाणाः मार्गपतितपाषाणाश्चानाभोगतोऽपि- 'वयमीदृशा भवामः' इत्यध्यवसायमन्तरेणापि, परस्परतो लोकचरणादिना वा घृष्यमाणा घश्चनघोलनान्यायेन केनापि वृत्त-व्यस्र-चतुरस्र-हस्व-दीर्घाधनेकाकारा भवन्ति; एवमिहापि कथमप्येवमेवानाभोगतो यथाप्रवृत्तकरणेन जीवाः कर्म क्षपयित्वा ग्रन्थिदेशमाप्नुवन्ति ।। १२०७ ।।
पिपीलिकोदाहरणमधिकृत्याह'खितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा ओरुहणं वा मुइंगाणं ॥१२०८॥ खिइगमणं पिव पढम थाणूसरणं व करणमपुव्वं । उप्पयणं पिव तत्तो जीवाणं करणमनियढेिं ॥१२०९॥
थाणु ब्व गंठिदेसे गंठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो पुणो वि कम्मठिइविवुड्ढी ॥१२१०॥ 'मुइंगाणं ति' कीटिकानामत्र पश्चार्थाः किल विवक्षिताः; तद्यथा-क्षितौ तावत् स्वाभाविकमविशिष्टमितश्चेतश्च गमनं पर्यटनम् ।
, गिरिनदी-वर्तनीपाषाणघटनौपम्येन प्रथमकरणेन । यावद् प्रन्थि कर्मस्थितिक्षपणमनाभोगतस्तस्य ।। १२०७॥x ठाण-1+प्पुव्यं २ क्षितिस्वाभाविकगमनं स्थाणूल्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वाऽवरोहणं वा कीटिकानाम् ॥ १२०८ ॥ क्षितिगमनमिव प्रथम स्थाणूत्सरणमिव करणमपूर्वम् । उत्पतनमिव ततो जीवानां करणमनिवति ॥ १२०९ ॥ स्थाणाविव प्रन्थिदेशे प्रन्थिकसत्वस्य तत्रावस्थानम् । अवसर्पणमिव ततः पुनरपि कर्मस्थितिविवृद्धिः॥१२॥
For Private and Personal Use Only