________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
267 विशेषा०
पाएण पुव्वसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविज्जाए किरिया पायं सविग्धा य ॥११९९॥ तह कम्मठिइखवणे परिमउई मोक्खसाहणे गुरुई । इह दंसणाइकिरिया दुलहा पायं सविग्धा य॥१२००॥
महाविद्यासाधनवदेतद् द्रष्टव्यम्- यथा महाविद्यायाः सिसाधयिषिताया: प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी भवति तत्साधनकाले तु या क्रिया सा गुरुतराऽतिगरीयसी भवति, सविना च प्रायः संजायते; तथा ग्रन्थिभेदात् पूर्व कर्मस्थितिक्षपणे या यथाप्रवृत्तकरणक्रिया सा नातिगुर्वी, किन्तु परिमृद्दी; या पुनर्ग्रन्थिभेदादारभ्य मोक्षसाधने सम्यग्दर्शनज्ञानसहितचारित्रक्रिया, सातीव गुर्वी, दुधापा, सविना च भवति । न चैतां सम्यग्दर्शन-ज्ञानान्वितचारित्रक्रियामन्तरेण कस्यापि कदाचिदपि मोक्षो भवति । इति कथमुच्यते- 'सम्यक्त्वादिगुणविकलोऽपि सर्व कर्म क्षपयित्वा मोक्षमासादयतु जीवः' इति ? ॥ ११९९ ॥ १२०० ॥ . प्रतिविधानान्तरमाहअहव जओच्चिय सुबहं खवियं तो निग्गुणो नसेसं पि।स खवेइजओलभए सम्मत्त-सुयाइगुणलाभं ॥१२०१॥
अथवा, यत एवं गुणवैकल्यावस्थायां सुबहनेन कर्म क्षपितम् , अत एव शेषमपि कर्म निर्गुणः सन् न क्षपयति । कुतः, इत्याह- यतः क्षपितबहुकर्मवादपचितबहुदोषो ग्रन्थिभेदादूर्ध्व सम्यक्त्वादिगुणलाभ लभते, इति कथं तदा निर्गुणः स्यात् । अयमभिप्रायः-न हि केनाप्यध्याहृत्यापेक्षिताः सम्यक्त्वादिगुणा भवन्ति, येन भवता प्रोच्यते- 'किं सम्यक्त्वादिगुणैर्मोक्षहेतुतया कल्पितः?" इति । क्षपितबहुक्लिटकर्मणामनपेक्षिता अपि स्वयमेव प्रादुर्भवन्ति गुणाः, इति कथं निर्गुण एवं शेषमपि क्षपयतु इति ॥ १२०१ ॥
प्रन्थिभेदं च जीवो यथाप्रवृत्तादिकरणक्रमेण विदधाति; तत्र कानि, कियन्ति, कस्य चैतानि करणानि भवन्ति ?, इत्याहकॅरणं अहापवत्तं अपुचमनियट्टियमेव भब्वाणं । इयरेसिं पढमं चिय भन्नइ करणं ति परिणामो ॥१२०२॥ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यथा- यथाप्रवृत्तकरणम् , अपूर्वकरणम् , अनिवर्तिकरणं चेति । तत्र येनाऽनादिसं
प्रायेण पूर्णसेवा परिगदी साधने गुरुतरा । भवति महाविद्यायां क्रिया प्रायः सविना च ॥ ११९९ ॥ तथा कमस्थितिक्षपणे परिमृद्वी मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविता च ॥ १२०० ॥२ क. ग. प्राप्या स'। ३ अथवा यत एव सुबहु क्षपितं ततो मिर्गुणो न शेषमपि । स क्षपयति यतो लभते सम्यक्त्व-श्रुतादिगुणलाभम् ॥ १२.६॥
४ करणं यथामवृत्तमपूर्वमनिवर्तिकमेव भन्यानाम् । इतरेपो प्रथममेव भण्यते करणमिति परिणामः ॥ १२०२ ॥ सिद्धप्रकारेण प्रवृत्तं यथाप्रवृत्त, क्रियते कर्मक्षपणमनेनेति करणं सर्वत्र जीवपरिणाम एवोच्यते, यथावृत्तं च तत्करणं च यथावृत्तकरणम् , एचमुरत्रापि करणशब्देन कर्मधारयः, अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविंशपो यथाप्रवृत्तकरणमित्यर्थः । अप्राप्तपूर्वमपूर्वम् , स्थितिघात-ग्मघानायपूर्वार्थनिर्वर्तकं वाऽपूर्वम् । निवर्तनशीलं निवर्ति, न निरर्ति- अनिवर्ति- आ सम्यग्दर्शनलाभाद् न निवतत इत्यर्थः । एतानि त्रीण्यपि यथोत्तरं विशुद्ध-विशुद्धतर-विशुद्धतमाध्यवसायरूपाणि भव्यानां करणानि भवन्ति । इतरेषां त्वभव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति, नेतरे द्वे इति ॥ १२०२॥
एतषां करणानां मध्ये कस्यामवस्थायां किं भवति ?, इत्याहः--
जा गंठी ता पढ गंटि समइच्छओ अपुव्वं तु । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥२० - अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिवन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणादिति । ग्रन्थि तु समतिक्रामतो भिन्दानस्यापूर्वकरणं भवनि, प्राक्तनाद विशुद्धनराध्यवसायरूपेण तेनैव ग्रन्धेर्भेदादिति । अनिवर्तिकरणं पुनः सम्यक्त्वं पुरस्कृतमभिमुखं यस्याऽसौ समता पुरस्कृतोऽभि मुखसम्यक्त्व इत्यर्थः, तत्रैवंभूते जीव भवति । तत एव विशुद्धतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभात् ।। इति गाथादश कार्थः॥१२॥३॥
अथेदमेव करणत्रयमाश्रित्य सामायिकलाभदृष्टान्तानाहपल्लग-गिरिसरिउवल-पिवीलिया-पुरिस-पह-जरग्गहिया । कोदव-जल-वत्थाणि य सामाइयलाभदिलुता ॥१२०४'
पल्लको धान्याधारभूत इहैव प्रतीतः, गिरिसरिदुपलः पर्वतनदीपाषाणः, पिपीलिकाः कीटिकाः, पुरुषाः प्रतीताः, पन्धानो मार्गाः, ज्वरगृहीताः समुत्पन्नज्वररोगाः, कोद्रवाः, जलानि, वस्त्राणि । एतेषां पल्लकादीनां संबन्धिनो नव सामायिकलाभदृष्टान्ता वक्तव्याः ॥ इति नियुक्तिगाथार्थः ॥ १२०४ ॥
अथ पल्लकदृष्टान्तमधिकृत्याहजो पल्लेऽतिमहल्ले धण्णं पक्खिवइथोवथोवयरं। सोहेइ बहबहतरं झिजइ थोवेण कालेण॥ १२०५ ॥
. यावद् प्रन्थिस्तावत् प्रथमं ग्रन्थि समतिगच्छतोऽपूर्वं तु । अनिवर्तिकरणं पुनः पुरस्कृतसम्यक्त्वे जीवे ॥१२०३ ॥ २ पलक-गिरिसरिदुपल-पिपीलिका-पुरुष-पथ-ज्वरगृहीताः । कोद्रव-जल-वस्त्राणि च सामायिकलाभदृष्टान्ताः ॥ १२०४॥ ३ क. ग. 'संपन्न ।
यः पल्येऽतिमहति धान्य प्रक्षिपति स्तोकस्तोकतरम् । शोधयति बहुबहुतरं क्षीयते स्तोकेन कालेन ॥१२०५॥
For Private and Personal Use Only