Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Acharya Shri Kailassagarsun Gyarmande
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
287
विशेषा.
ननु कथं पुनः क्षायिक सम्यक्त्वं विशुद्धतर, क्षायोपशामिकं त्वविशुद्धम् , इत्याह-- 'निव्वलियमयणकोदवभत्तं तिल्लाइमीसियं मदए । न उसोऽवाओ निव्वलिय-मीसमयकोदवच्चाए ॥१३२३॥ तह सुद्धमिच्छसम्मत्तपोग्गला मिच्छमीसिया मिच्छं । होज परिणामओ वा सोऽवाओ खइए न त्थि॥१३२४)
इह निर्वलिता निर्मदनीकृताः शोधिता ये मदनकोद्रवास्तनिवृत्तं यत् भक्तमोदनस्तत् तैलादिविरुद्धद्रव्यमिश्रितं भुज्यमान पदयेत्- विक्रियां गमयेदेव भोक्तारम् । न पुनः सोऽपायोऽस्ति । क सति ?, निर्वलित-मिश्रमदनकोद्रवत्यागे सति । इदमुक्तं भवतियः शोधितान् शुद्धाशुद्धस्वरूपान् वा मदनकोद्रवान् न भुङ्क्ते तस्योक्तस्वरूपो मदनलक्षणोऽपायो न भवत्येव, तथा तेनैव प्रकारेण शुद्धं च तद् मिथ्यात्वं च शुद्धमिथ्यात्वम्- अपूर्वकरणाध्यवसायेनापनीतमिथ्यात्वभावमित्यर्थः, तदेवोपचारतः सम्यक्त्वं शुद्धमिथ्यात्वसम्यक्त्वं तस्य पुद्गलाः शुद्धमिथ्यात्वसम्यक्त्वपुद्गलाः शोधितमदनकोद्रवस्थानीया विरुद्धतैलादिद्रव्यकल्पेन मिथ्यात्वेन मिश्रिताः सन्तस्तरक्षण एव मिथ्यात्वं भवति, कुतीर्थिकसंसर्ग-तद्वचःश्रवणादिजनितपरिणामाद् वा क्लिष्टबहुरसीकता मिथ्यात्वरूपता प्रतिपद्यन्ते । ततस्तथैव मिथ्याष्टिभूत्वा.पुनः संसारनीरधि बम्भ्रमीति । स चैवंभूतोऽपायः क्षायिकसम्यक्त्वे नास्ति, सर्वानर्थमूलानां शुद्धानामशुदानां वा मिथ्यात्वपुद्गलानां क्षपितत्वेनाऽसत्त्वात् । तस्मात् शुद्धतरं क्षायिकसम्यक्त्वम् , मलीमसं च क्षायोपशमिकम् । अत एतदपगमेऽपि क्षायिकसम्यक्त्वभावाद् नाऽदर्शनी जीवः, किन्तु प्रत्युत विशुद्धसम्यग्दर्शनीति स्थितम् ॥ १३२३ ।। १३२४ ।।
प्रस्तुतमाह
बैद्धाऊ पडिवन्नो नियमा खीणम्मि सत्तए ठाइ । इयरोऽणुवरओ च्चिय सयलं सेढिं समाणेइ ॥१३२५॥ गतार्या ॥ १३२५॥ योऽवद्धायुः प्रतिपद्यते स दर्शनसप्तके क्षपिते किं करोति', इत्याह
निर्वलितमदनकोद्रवभक्तं तलादिमिश्रितं मदयेत् । न तु सोऽपायो निर्वलित-मिश्रमदकोद्रव त्यागे ॥ १३२३॥ तथा शुद्धमिध्यात्वसम्यक्त्वान्गला मिथ्यात्वमिश्रिता मिथ्यात्वम् । भवेत् परिणामतो वा सोऽपायो क्षायिके नास्ति ॥२४॥
२ बदायुः प्रतिपक्षो नियमात् क्षीणे सप्तके तिष्ठति । इतरोऽनुपरत एव सकला आणि समापयति ॥ ११२५॥ 'बिइय-तइए कसाए अट्ठारंभेइ समयमसिं च । खवियम्मि मज्झभागे पयडिओ सोलसं खवेइ ॥१३२६॥ गतार्था ॥ १३२६ ॥ कास्ताः पुनः पोडश प्रकृतयः १, इत्याह--
नेरय-तिरियाणुपुब्बी गईओ चत्तारि चादिजाईओ । आयावं उज्जोयं थावरसाहारणं सुहुमं ॥ १३२७ ॥ तिन्नि महानिदाओ अगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ १३२८ ॥ तत्तो य तइयं वेयं एक्कक्कं तो कमेण संजलणं । सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिले ॥ १३२९ ॥
आख्यातार्था, नवरं 'सव्वत्थेत्यादि' सर्वत्र 'मग्गिल्ले' पाश्चात्येऽनन्तानुवन्ध्यादिके कर्मणि क्षपयितुमारब्धे सावशेष एव 'पुरिल्ले' अग्रेतने मिथ्यात्वादिके कर्मणि लगति क्षपयितुं प्रवर्तते, इत्येवं तावद् वाच्यं यावद् मायायां सावशेषायामेव लोमे लगति । ततश्च मायाशेष लोभं च युगपत् क्षपयतीति ॥ १३२७ ॥ १३२८ ।। १३२९ ।।
ननु कियति कर्मणि क्षीणे किंनामाऽसौ भवति', इत्याह'दसणमोहक्खवणे नियट्टि अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेजभागो त्ति ॥१३३०॥
तदसंखिज्जइभार्ग समए समए खवेइ एकेकं । तत्थइ सुहुमसरागो लोभाणू जावमेको वि ॥ १३३१ ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरि । अंतोमुहुत्तमुदहि तरिउं थाहे जहा पुरिसो ॥१३३२॥
द्वितीय-तृतीयकपायानष्टारभते समकमेषां च । क्षपिते मध्यभागे प्रकृती: षोडश क्षपयति ॥ १५२६॥ .मरक-तिर्यगानुपूयी गती चतस्त्रश्चादिजातयस्तु । भातापमुयोर्त स्थावरसाधारण सूक्ष्मम् ॥ १५२७॥ तिम्रो महानिद्रा नष्टकशेषं ततोऽनुदीर्णानाम् । वेदाना जघन्यतरं तती दितीयं ततः षट्कम् ॥ १॥२८॥ ततम तृतीय वेदमेकं ततः क्रमेण संग्वलनम्। सर्वत्र सावशेष पाश्चात्ये लगति पुरातने ॥ १३२९॥ दर्शनमोहक्षपणे निवृत्तिरनिवृत्तिवादरः परतः । यावतु शेषः संज्वलनकोभसंख्येयभाग इति ॥५॥ सदसंख्येयमार्ग समये संमये क्षपयोकैकम् । तत्रापि सूक्षमसरागो लोभाणून यावदेकोऽपि ॥१३॥ क्षीणे क्षपकनिम्रन्थो विश्राम्यति मोहसागरं तीरा अन्तर्मुहर्तमदर्षि तीर्वा स्ताघे यथा पुरुषः ॥ १३॥
For Private and Personal Use Only

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339