Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 307
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 300 विशेषा० यदा स एवाऽसकृद् बहुभिर्वचनैरभ्यर्थितस्तं करोति । क्षायोपशामिक वचने स्थितस्यानुयोगो वचनेऽनुयोगः वचनेषु पुननास्त्यनुयोगः, वचनस्य क्षायोपशमिकत्वेनानेकत्वासंभवात् । अन्ये तु मन्यन्ते- व्यक्तित्रिवक्षया येवेव क्षायोपशमिकेषु बहुषु वचनेष्वनुयोगा, इत्यप्यविरुद्धमेवेति । तदेवं पश्चविधः, पदाधिो वा निर्दिष्टो वचनानुयोगोऽपि ॥ १४०४॥ अथैताव दमेव भावानुयोगमाह भावस्सेगयरस्स उ अणुओगो जो जहिओि भावो। दोमाइसंनिगासे अणुओगो होइ भावाणं ॥१४०५॥ औदयिकादिभावानापेकतरस्य व्याख्यान यो यथावस्थितो भावस्तथैव प्ररूपणं भावस्थानुयोग इति सोपस्कारस्तात्पर्यायः । तेषामेवौदयिकादिभावानां द्वयादिसंनिकाशे द्वयादिसंयोगे यद् व्याख्यानं स भावानामनुयोगः । तदेवं भावस्य भावानां वाऽनुयोग इत्युक्तम् ॥ १४०५॥ . अथ भानेन भावैर्भावे भावेषु वानुयोग इत्येतद् विपरीषुराह-- भौवेण संगहाईण ण्णयरणं दुगाइभावेहिं । भावे खओक्समिए भावेसु य नत्थि अणुओगो ॥१४०६ ॥ . अहवा आयाराइसु भावेसु वि एस होइ अणुओगो । सामित्तं आसज्ज व परिणामेसुं बहुविहेसुं ॥ १४०७ ॥ संग्रहादीनां पश्चानामध्यवसायानामन्यतरेण चित्ताध्यवसायेन योऽनुयोगः क्रियते स भावेनानुयोगः । ते चामी पश्चाभिमाया, - ) यदाह स्थानाङ्गे- " पंचहिं ठाणेहिं सुर्य वाएज्जा, तं जहा- संगहढाए, उवग्गहवाए, निज्जरहाए, सुयपजवजाएणं, अब्दोच्छित्तीए"। अयमर्थ:- कथं नु नामैते शिष्याः सूत्रार्थसंग्राहकाः संपत्स्यन्ते । तथा, कथं नु नाम गीतार्था भूत्वाऽमी वखाद्युत्पादनेन गच्छस्योपग्रहकरा भविष्यन्ति ?, ममाप्येता वाचयतः कर्मनिर्जरा भविष्यति । तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यति । , भावस्पैकतरस्य त्वनुयोगो यो यथावस्थितो भावः । द्वयादिसंनिकाशेऽनुयोगो भवति भावानाम् ॥ १४०५॥ २ भावेन संग्रहादीनामन्यतरण, ब्यादिभावैः । भावे क्षायोपशर्मिके भावेषु च नास्त्यनुयोगः ॥१३०६ ॥ अथवाऽऽचारादिषु भावेश्वप्येष भवत्यनुयोगः । स्वामित्वमासाथ वा परिणामेषु बहुविधेषु ॥ १४ ॥ ३ पञ्चभिः स्थानैः श्रुतं वाचयेत् , तद्यथा-संग्रहार्थतया, उपमहार्यतया, निर्जरार्थतया, श्रुतपर्यवजातेन, अव्यवच्छित्या। तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिममापि वृद्धिं यास्यति, श्रुतस्य चाव्यपच्छित्तिर्भविष्यतीति । एवं पञ्चभिरभिप्रायैः श्रुतं सूत्रार्थतो वाच. येदिति। एषामेव संग्रहादिधावानां मध्याद् द्वि-व्यादिभिर्भावैः सर्वाऽनुयोगं कुर्वतोभावैरनुयोगः क्षायोपशमिक भावे स्थितस्य व्याख्या कुर्वतो भावेऽनुयोगः। भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकत्वेन तस्यैकत्वात् । अथवा, एकोऽपि क्षायोपशमिको भाव आचारादिशावलक्षणविषयभेदाद भिद्यते । ततश्चाचारादिशास्त्रविषयभेदभिन्नेषु क्षायोपशमिकभावेष्यप्येष भवत्यनुयोगः, न कश्चिद् विरोधः । 'वा' इति अथवा, स्वामित्वपासाद्यानुयोगकर्तृस्वामिनो बहून् प्रतीत्य क्षायोपशमिकपरिणामेषु बहुम्वनुयोगपत्ते - वेष्वनुयोगो न विहन्यते । इत्युक्तः पनिधो भावानुयोग इति ।। १४०६ ॥ १४०७॥ एषां चानुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समादेशः, भजना वा, तदेवाहदेव्वे नियमा भावो न विणा ते यावि खेत्त-कालेहिं । खेत्ते तिण्ह वि भयणा कालो भयणाए तीसं पि ॥१४०८॥ द्रव्ये तावद् नियमाद् भावः पर्यायोऽस्ति, पर्यायविरहितस्य द्रव्यस्य कापि कदाचिदप्यभावात् । तावपि द्रव्य-भावी क्षेत्रकालाभ्यां विना न संभवतः । द्रव्य-भावयोर्हि नियमवान् सहभावो दर्शित एव । द्रव्यं चावश्यकं कचित् क्षेत्रेऽवगाढमन्यतरस्थितिमदेव च भवति । अतः सिद्धमिदम्- द्रव्य-भावावपि क्षेत्र-कालाभ्यां विना कापि न भवतः । क्षेत्रे तु क्याणामपि द्रव्य-काल-भावाना भजना विकल्पना-कापि तत्र ते प्राप्यन्ते, कापि नेत्यर्थः, लोकक्षेत्रे त्रयाणामपि भावात् , अलोकक्षेत्रेऽभावादिति । आह- अलोकक्षेत्रेऽप्याकाशलक्षणं द्रव्यमस्ति, वर्तनादिरूपस्तु कालः, अगुरुलघवश्वानन्ताः पर्यायाः सन्त्येव तत् कथं सत्र द्रव्य-काल-भावानामभावः । सत्यम्, किन्त्वाकाशलक्षणं द्रव्यं यत तत्रोच्यते, तदयुक्तम्, तस्य क्षेत्रब्रहणेनैव गृहीतस्वात । कालस्यापीह समयादिरूपस्य चिन्तयितुं प्रस्तुतत्वात् , तस्य च समयक्षेत्रादन्यत्राभावात् , वर्तनादिरूपस्य त्वत्राविवक्षितत्वात् , क्षेत्रग्रहणेनैव तत्र तस्य गृहीतत्वाच । पर्यायाचेह धर्मा-ऽधर्म-पुद्गल-जीवास्तिकायद्रव्यसंबन्धिनो विवक्षिताः, ते चालोके न सन्त्येव । आकाशसंवन्धिनस्त्वगुरुलघुपर्यायाः क्षेत्रग्रहणेनैव गृहीतत्वाद् नेह विवक्षिताः । इत्यतोऽलोके त्रयाणामपि द्रव्य-काल-भावानामभावः । 'कालो भयणाए तीसु पित्ति' द्रव्य-क्षेत्र-भावेषु त्रिष्वपि कालो भजनया विकल्पनया भवति, समयक्षेत्रान्तर्वर्दिपु तेषु तस्य भावात , तद्वाहिस्त्वभावादिति । एवं च स्थितानाममीषां द्रव्यादीनां यथासंभवमनुयोगः प्रवर्तत इति ॥ १४०८॥ xसमावेश-१ . छ. 'पामिति सं। २ द्रव्ये नियमाद् भावो न विना ती चापि क्षेत्र-कालाभ्याम् । क्षेत्रे प्रयाणामपि भजना कालो भजनया निष्वपि ॥१०॥ आह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339