________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
300 विशेषा० यदा स एवाऽसकृद् बहुभिर्वचनैरभ्यर्थितस्तं करोति । क्षायोपशामिक वचने स्थितस्यानुयोगो वचनेऽनुयोगः वचनेषु पुननास्त्यनुयोगः, वचनस्य क्षायोपशमिकत्वेनानेकत्वासंभवात् । अन्ये तु मन्यन्ते- व्यक्तित्रिवक्षया येवेव क्षायोपशमिकेषु बहुषु वचनेष्वनुयोगा, इत्यप्यविरुद्धमेवेति । तदेवं पश्चविधः, पदाधिो वा निर्दिष्टो वचनानुयोगोऽपि ॥ १४०४॥
अथैताव दमेव भावानुयोगमाह
भावस्सेगयरस्स उ अणुओगो जो जहिओि भावो। दोमाइसंनिगासे अणुओगो होइ भावाणं ॥१४०५॥
औदयिकादिभावानापेकतरस्य व्याख्यान यो यथावस्थितो भावस्तथैव प्ररूपणं भावस्थानुयोग इति सोपस्कारस्तात्पर्यायः । तेषामेवौदयिकादिभावानां द्वयादिसंनिकाशे द्वयादिसंयोगे यद् व्याख्यानं स भावानामनुयोगः । तदेवं भावस्य भावानां वाऽनुयोग इत्युक्तम् ॥ १४०५॥ .
अथ भानेन भावैर्भावे भावेषु वानुयोग इत्येतद् विपरीषुराह--
भौवेण संगहाईण ण्णयरणं दुगाइभावेहिं । भावे खओक्समिए भावेसु य नत्थि अणुओगो ॥१४०६ ॥ . अहवा आयाराइसु भावेसु वि एस होइ अणुओगो । सामित्तं आसज्ज व परिणामेसुं बहुविहेसुं ॥ १४०७ ॥
संग्रहादीनां पश्चानामध्यवसायानामन्यतरेण चित्ताध्यवसायेन योऽनुयोगः क्रियते स भावेनानुयोगः । ते चामी पश्चाभिमाया, - ) यदाह स्थानाङ्गे- " पंचहिं ठाणेहिं सुर्य वाएज्जा, तं जहा- संगहढाए, उवग्गहवाए, निज्जरहाए, सुयपजवजाएणं, अब्दोच्छित्तीए"।
अयमर्थ:- कथं नु नामैते शिष्याः सूत्रार्थसंग्राहकाः संपत्स्यन्ते । तथा, कथं नु नाम गीतार्था भूत्वाऽमी वखाद्युत्पादनेन गच्छस्योपग्रहकरा भविष्यन्ति ?, ममाप्येता वाचयतः कर्मनिर्जरा भविष्यति । तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यति ।
, भावस्पैकतरस्य त्वनुयोगो यो यथावस्थितो भावः । द्वयादिसंनिकाशेऽनुयोगो भवति भावानाम् ॥ १४०५॥ २ भावेन संग्रहादीनामन्यतरण, ब्यादिभावैः । भावे क्षायोपशर्मिके भावेषु च नास्त्यनुयोगः ॥१३०६ ॥
अथवाऽऽचारादिषु भावेश्वप्येष भवत्यनुयोगः । स्वामित्वमासाथ वा परिणामेषु बहुविधेषु ॥ १४ ॥
३ पञ्चभिः स्थानैः श्रुतं वाचयेत् , तद्यथा-संग्रहार्थतया, उपमहार्यतया, निर्जरार्थतया, श्रुतपर्यवजातेन, अव्यवच्छित्या। तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिममापि वृद्धिं यास्यति, श्रुतस्य चाव्यपच्छित्तिर्भविष्यतीति । एवं पञ्चभिरभिप्रायैः श्रुतं सूत्रार्थतो वाच. येदिति। एषामेव संग्रहादिधावानां मध्याद् द्वि-व्यादिभिर्भावैः सर्वाऽनुयोगं कुर्वतोभावैरनुयोगः क्षायोपशमिक भावे स्थितस्य व्याख्या कुर्वतो भावेऽनुयोगः। भावेषु पुनर्नास्त्यनुयोगः, क्षायोपशमिकत्वेन तस्यैकत्वात् । अथवा, एकोऽपि क्षायोपशमिको भाव आचारादिशावलक्षणविषयभेदाद भिद्यते । ततश्चाचारादिशास्त्रविषयभेदभिन्नेषु क्षायोपशमिकभावेष्यप्येष भवत्यनुयोगः, न कश्चिद् विरोधः । 'वा' इति अथवा, स्वामित्वपासाद्यानुयोगकर्तृस्वामिनो बहून् प्रतीत्य क्षायोपशमिकपरिणामेषु बहुम्वनुयोगपत्ते - वेष्वनुयोगो न विहन्यते । इत्युक्तः पनिधो भावानुयोग इति ।। १४०६ ॥ १४०७॥
एषां चानुयोगविषयाणां द्रव्यादीनां परस्परं यस्य यत्र समादेशः, भजना वा, तदेवाहदेव्वे नियमा भावो न विणा ते यावि खेत्त-कालेहिं । खेत्ते तिण्ह वि भयणा कालो भयणाए तीसं पि ॥१४०८॥
द्रव्ये तावद् नियमाद् भावः पर्यायोऽस्ति, पर्यायविरहितस्य द्रव्यस्य कापि कदाचिदप्यभावात् । तावपि द्रव्य-भावी क्षेत्रकालाभ्यां विना न संभवतः । द्रव्य-भावयोर्हि नियमवान् सहभावो दर्शित एव । द्रव्यं चावश्यकं कचित् क्षेत्रेऽवगाढमन्यतरस्थितिमदेव च भवति । अतः सिद्धमिदम्- द्रव्य-भावावपि क्षेत्र-कालाभ्यां विना कापि न भवतः । क्षेत्रे तु क्याणामपि द्रव्य-काल-भावाना भजना विकल्पना-कापि तत्र ते प्राप्यन्ते, कापि नेत्यर्थः, लोकक्षेत्रे त्रयाणामपि भावात् , अलोकक्षेत्रेऽभावादिति ।
आह- अलोकक्षेत्रेऽप्याकाशलक्षणं द्रव्यमस्ति, वर्तनादिरूपस्तु कालः, अगुरुलघवश्वानन्ताः पर्यायाः सन्त्येव तत् कथं सत्र द्रव्य-काल-भावानामभावः । सत्यम्, किन्त्वाकाशलक्षणं द्रव्यं यत तत्रोच्यते, तदयुक्तम्, तस्य क्षेत्रब्रहणेनैव गृहीतस्वात । कालस्यापीह समयादिरूपस्य चिन्तयितुं प्रस्तुतत्वात् , तस्य च समयक्षेत्रादन्यत्राभावात् , वर्तनादिरूपस्य त्वत्राविवक्षितत्वात् , क्षेत्रग्रहणेनैव तत्र तस्य गृहीतत्वाच । पर्यायाचेह धर्मा-ऽधर्म-पुद्गल-जीवास्तिकायद्रव्यसंबन्धिनो विवक्षिताः, ते चालोके न सन्त्येव । आकाशसंवन्धिनस्त्वगुरुलघुपर्यायाः क्षेत्रग्रहणेनैव गृहीतत्वाद् नेह विवक्षिताः । इत्यतोऽलोके त्रयाणामपि द्रव्य-काल-भावानामभावः । 'कालो भयणाए तीसु पित्ति' द्रव्य-क्षेत्र-भावेषु त्रिष्वपि कालो भजनया विकल्पनया भवति, समयक्षेत्रान्तर्वर्दिपु तेषु तस्य भावात , तद्वाहिस्त्वभावादिति । एवं च स्थितानाममीषां द्रव्यादीनां यथासंभवमनुयोगः प्रवर्तत इति ॥ १४०८॥ xसमावेश-१ . छ. 'पामिति सं। २ द्रव्ये नियमाद् भावो न विना ती चापि क्षेत्र-कालाभ्याम् । क्षेत्रे प्रयाणामपि भजना कालो भजनया निष्वपि ॥१०॥
आह
For Private and Personal Use Only