________________
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
301
विशेषा०
अपरमपि द्रव्यादिगतं किश्चित् स्वरूपं प्रसङ्गतः प्राह__ आहारो आहेयं च होइ दव् तहेव भावो य । खेत्तं पुण आहारो कालो नियमाउ आहेओ ॥१४०९॥
व्यपाधारो भवति पर्यायाणाम , आधेयं च भवति क्षेत्रे । तथा, भाववाधारो भवति कालस्य, काल-वर्णादीनां समयादिस्थितित्वादिति; आधेयश्च भवति द्रव्ये । क्षेत्रमाकाशं पुनः सर्वेषामपि धर्मा ऽधर्म-पुद्गल-जीव-कालद्रव्याणाम् , अगुरुलघुपर्यायाणां चाधार एव, न वाधेयम् , सर्वस्यापि वस्तुनस्तत्रैवावगाहस्वात् , तस्य च स्वमतिष्ठितत्वेनान्यत्राधेयत्वायोगादिति । 'कालो नियमाउ आहेउ ति' कालो नियमादाधेय एव भवति, न त्वाधारः, तस्य द्रव्य-पर्यायेष्वेव स्थितत्वात् , तत्र चाऽन्यस्यास्थितत्वादिति । तदेवं व्याख्यातो नामादिभेदतः सप्तविधोऽप्यनुयोगः ॥ १४०९॥ . एतद्विपक्षश्वाननुयोगो भवति, अतस्तं बिभणिषुरुक्तोपसंहारं प्रस्तावनां चाह
- एसोऽणुरूवजोगो गओऽणुओगो इओ विवज्जत्थं । जो सो अणणुओगो तत्थेमे होंति दिलुता ॥१४१०॥
तदेवं गतो भणित एषोऽनुरूपयोगोऽनुयोगः सप्तविधोऽपि । अथ विपर्यस्तमेतद्विपर्ययेण योऽयमननुयोगः स उच्यते । तत्र चैते वक्ष्यमाणा दृष्टान्ता भवन्ति ॥ इति प्रयोविंशतिगाथार्थः ॥ १४१०॥
के पुनस्तेऽननुयोगदृष्टान्ताः ?, इत्याह- . 'वच्छगगोणी खुज्जा सझाए चेव बहिरउल्लावे । गामेल्लए य वयणे सत्तेव य होति भावम्मि ॥ १४११ ॥
सावगभजा सत्तवईए य कोंकणगदारए नउले । कमलामेला संबस्स साहसं सेणिए कोवो ॥ १४१२ ॥ - यथाऽनुयोगो नामादिभेदात् सप्तविधो वर्णितस्तथाऽननुयोगोऽपि यथासंभवं वक्तव्यः। तत्र नाम-स्थापने सुगमे । द्रव्याननुयोगे, तत्प्रसङ्गतो द्रव्यानुयोगे च वत्सगौरुदाहरणम् । क्षेत्रे त्वननुयोगा-ऽनुयोगयोः कुब्जोदाहरणम् । काले स्वाध्यायः। वचने पुनरुदाहरण
, आधार आधेयं च भवति द्रव्यं तथैव भावश्च । क्षेत्रं पुनराधारः कालो नियमादाधेयः ॥ १४०९।। २ एषोऽनुरूपयोगो गतोऽनुयोग इतो विपर्यसम् । यः सोऽमनुयोगस्तयेमे भवन्ति दृष्टान्ताः ॥ १४१०॥ ३ वत्सकगीः कब्जा स्वाध्यायश्चैव बधिरोलापः । ग्रामेयकच वचने सप्तैव च भवन्ति भावे ॥ १४११॥
___ श्रावकभार्या सातपदिकश्च कोकणकदारको नकुलः । कमलामेका शम्बस्य साहसं श्रेणिके कोपः ॥ १४१२॥ द्वयम् , तद्यथा- बधिरोलापः, ग्रामेयकच । भावे तु सप्तोदाहरणानि भवन्ति, तद्यथा- श्रावकभार्या, साप्तपदिकः पुरुषः, कोङ्कणकदारकः, नकुलः, कमलामेला, शम्बस्य साहसम् , श्रेणिककोपश्च ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १४११ ॥ १४१२॥
अथ विस्तरतो 'वच्छगगोणी-' उदाहरणं भाष्यकारः प्राह
खीरं न देइ सम्म परवत्थनिओगओ जहा गावी । छड्डेज च परदुद्धं करिज देहोवरोहं वा ॥ १४१३॥ - यथा काचिच्छबलादिका गौरम्यस्या बहुलादिकायाः संबन्धिनि गोदोहकेन वत्से नियुक्ते सत्यननुयोगोऽयमिति कृत्वा तत्रियोगतः क्षीरं दुग्धं सम्यग् न ददाति । अथवा, न तावता तिष्ठेत् , किन्तु परदुग्धमन्यस्या अपि गोः सत्कं दुग्धमग्रेऽपि गोदोहनिकाया व्यवस्थितमुल्ललन्ती छर्दयेत् त्याजयेत् । यदिवा, देहोपरोधं लतामहारादिभिर्जानुभङ्गादिना देहबाधामपि कुर्यादित्यर्थः ॥१४१३॥
तथा किम् ?, इत्याशङ्कय प्रस्तुतं योजयन्नाह
तेह न चरणं पसूते परपज्जायविणिओगओ दव्वं । पुव्वचरणोवघायं करेइ देहोवरोहं वा ॥ १४१४ ॥ जिणवयणासायणओ उम्माया-ऽऽतंक-मरणवसणाई। पावेज सव्वलोयं स बोहिलाहोवघायं च ॥१४१५॥
दव्वविवजासाउ साहणभेओ तओ चरणभेओ । तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा॥१४१६॥
तथाऽत्रापि. व्याख्याता यदा जीवादिद्रव्यमजीवादिधमैंः प्ररूपयति, अजीवादिद्रव्यं वा जीवादिधमैंः प्ररूपयति । तदित्थं मरूप्यमाणं तद् द्रव्यमनुयोगतो दुग्धस्थानीयं चरणं चारित्रं न प्रसूते- परपर्यायविनियोगतो विपर्यासात् तद्धेतुस्तद् न भवतीत्यर्थः । न चैतावता तिष्ठति, किन्त्वित्थमननुयोगं कुर्वतः पूर्वप्राप्तचरणोपघातं च करोति । तथा, इत्थमविधिप्ररूपणप्रवृत्तस्य रोगाद्युत्पत्तेर्देहस्याप्युपरोधं बाधां विदधाति । किञ्च, इत्थं जिनवचनाशातनोत्पत्तेरुन्मादा-ऽऽतङ्क-मरणव्यसनान्यपि प्राप्नुयात् । तथा, सर्वव्रतलोपम, बोधिलाभोपघातं च प्राप्नुयादिति । ननु कथं विपर्ययप्ररूपणामात्रादेवैतावन्तो दोषाः स्युः १, इत्याह- 'दव्वविवज्जासेत्यादि विपरीतप्ररूपणे हि द्रव्यस्य विपर्यासो भवति, तथा च सति साधनस्य सम्यग्ज्ञानादेर्भेदोऽन्यथाभावो जायते । ततः साधनभेदाचरणभेदः, .. .क्षीरं न ददाति सम्यक् परवत्समियोगतो यथा गौः । छर्दयेच परदुग्धं कुर्याद् देहोपरोधं वा ॥ १३॥ नापत्ते- :
तथा न चरणं प्रसूते परपर्यायविनियोगतो हव्यम् । पूर्वचरणोपघातं करोति देहोपरोधं वा ॥१४१४॥ जिनवचनाशातनत उन्मादा-ऽऽतत-मरणव्यसनानि । प्राप्नुयात् सर्वहोपं स बोधिलाभोपघातं च ॥ १४१५. . द्रव्यविपर्यासात् साधनभेदस्ततश्चरणभेदः । ततो मोक्षाभावो मोक्षाभावेऽफला दीक्षा ॥११॥
For Private and Personal Use Only