________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandir
302
विशेषा० तद्भेदात तत्साध्यस्य मोक्षस्याभावप्रसङ्गः, उपायाभावे उपेयासिद्धेः। ततो मोक्षाभावे निष्फलैव दीक्षा, मोक्षार्थमेव तत्पतिपत्तेः, ततस्तदभावे निरर्थकैव सेति । तदेवं द्रव्याननुयोगे निर्दिष्टा दोषाः॥ १४१४ ॥ १४१५॥ १४१६॥
अथ द्रव्यस्य सम्यगनुयोगे गुणानाहसम्मं पयं पयच्छइ सवत्थविणिओगओ जहा घेणू । तह सयपज्जवजोए दव्वं चरणं ततो मोक्खो॥१४१५॥
यथा परवत्सपरिहारेण स्ववत्सविनियोगाद् गौः सम्यक् पयः प्रयच्छति, तथा द्रव्यमपि वपर्यायविनियोगे सम्यकचरणे प्रसूते । अमर्यावाप्तिश्व काचिद् न भवति । यतश्चरणात् किम् ?, इत्याह- यतोऽचिराद् मोक्षः प्राप्यत इति । तदेवं द्रव्याननुयोंगे सदनुयोगे च दोष गुणयोर्वत्सगोदृष्टान्त उक्तः ॥ १४१७ ॥
अथ क्षेत्राचननुयोगे दोषान् , तदनुयोगे तु गुणान् सोदाहरणानतिदिशनाह
ऐवं खत्ताईसु वि सधम्मविणिओगओऽणुओग त्ति । विवरीए विवरीओ सोदाहरणोऽणुगंतव्बो ॥१४१८॥
एवमुक्तानुसारेण क्षेत्र-काल-वचन-भावेष्वपि स्वधर्मविनियोगत आत्मोचितधर्मयोजनादनुयोगः विपरीते तु विपरीतधर्मयोजने तु विपरीतोऽननुयोगः सोदाहरणः स्वबुद्ध्या ग्रन्थान्तराच्चानुगन्तव्यो ज्ञातव्यः । तत्रेथपतिदिष्टेऽपि मुग्धविनेयानुग्रहार्थ किश्चिदुच्यते । तत्र क्षेत्रतोऽननुयोगे कुब्जोदाहरणमभिधीयते
प्रतिष्ठाननगरे सौलवाहनां नाम राजा। स च प्रतिवर्ष समागत्य भृगुकच्छे नभोवाहननृपं रुणद्धि । ऋतुबद्धे च का नत्र स्थित्वा वर्षासु स्वनगरं गच्छति । अन्यदा च रोहके समागते तेन राज्ञा स्वनगर जिगमिषुणाऽऽस्थानसभामण्डपिकायां पतग्रहकमन्तरेणापि भूमौ निष्ठयूतम् । तस्य च राज्ञः पतद्हकधारिणी कुब्जा समस्ति । तया चातीव भावज्ञतया लक्षितम्- मून परिजिहीपुरिदं स्थान नरपतिर्यास्यति प्रभाते वनमरम्, तेनेत्थमिदं निष्ठीवति । इति संचिन्त्य निगदितं कथमप्यात्मपरिचितस्य यानशालिकस्य । ततस्तेन प्रगुणीकृत्य यानाभ्यगच्छत एव राज्ञः पुरतोऽपि प्रवर्तितानि । तत्पृष्ठतश्च सर्वोऽपि स्कन्धावारः प्रवृत्तो गन्तुम् । ण्याच नभोमण्डलं कटकधुलीनिकरेण । ततश्चिन्तितं विस्मितमनसा नराधिपेन-ननु मया कस्यापि प्रयाणकंन कथितम् , धुलीभयात् किलाई
सवच्छ- सम्यक् पयः प्रयच्छसि स्ववत्सविनियोगतो यथा धेनुः । तथा स्वपर्याययोगे द्रव्यं चरणं सतो मोक्षः दिष्टे-1
१ एवं क्षेत्रादिवपि स्वधर्मविनियोगतोऽनुयोग इति । विपरीते विपरीतः सोदाहरणोऽनुगन्तव्यः ॥ १४१५ ॥ ३ क.ग. 'शाल' । खल्पपरिच्छदो भूत्वा सैन्यस्य पुरत एवं यास्यामि, एतच्च विपरीतमापत्रम् , तत्कथमिदं कटकलोकेन विज्ञातम्, इति परम्परया शोधयता विज्ञाता कुब्जा | पृष्टया च तया कथितं सर्वमपि यथावृत्तम् । तदत्र सभामण्डपकादिक्षत्रेण निष्ठीवनस्याननुयोगः, निष्ठीवनादिरक्षण-प्रमार्जनो-पलेपनादिकस्त्वनुयोगः । एवमेकान्तनित्यम् , एकम् , अप्रदेशं चाकाशं प्ररूपयतोऽननुयोगः, स्याद्वादलाञ्छितं तु तदेव प्ररूपयतोऽनुयोग इति ।
कालाननुयोगा-ऽनुयोगयोः स्वाध्यायदृष्टान्तः, तद्यथा-एकः साधुः पादोषिककालग्रहणानन्तरं कालिकश्रुतमतीतामपि तद्गुणनवेलामजानानः परावर्तयते । ततः सम्यग्दृष्टिदेवतया चिन्तितम्- बोधयाम्यमुम् , मा भूद् मिथ्यादृष्टिदेवता छलमस्य । ततो मषितकारिकारूपेण मथितभृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वती 'मथितं लभ्यते' इति महता शब्देन पुन: पुनर्घोषयन्ती परिभ्रमति । ततोऽत्युदेजितेन साधुना प्रोक्तम्-- अहो! भवत्यास्तऋविक्रयवेला । ततो मथितकारिकयाऽप्यवाचिअहो ! तवापि स्वाध्यायवेला । ततो विस्मितः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति । ततः 'अकालखाध्यायविधानेन मिथ्यादृष्टिदेवताविहितच्छलानि भवन्ति, अतः पुनरप्येवं मा कार्षीस्त्वम्' इत्यादि साधुर्देवतयाऽनुशासित इति । एष खाध्यायस्य कालाननुयोगः, काले तु पठतस्तदनुयोगः । प्रस्तुतेऽपि कालधर्माणां चैपरीत्या-ऽबपरीत्यमरूपणेऽननुयोगा-ऽनुयोगी वाच्याविति । ... अथ वचनविषयमननुयोगा-ऽनुयोगयोरुदाहरणद्वयमुच्यते । तत्र प्रथम बधिरोल्लापः । तत्र चैकमिन् ग्रामे बधिर कुटुम्बं परिवसति- स्थविरः, स्थविराः पुत्रः, वधुश्च । अन्यदा च पुत्रः क्षेत्रे हलं वाहयन् पथिकैर्मार्ग पृष्टो बधिरतया प्रवीति-गृहजातो मम बलीव विमौ, न पुनरन्यस्य सत्कौ । ततो 'बधिरोऽयम्' इति विज्ञाय मताः पथिकाः । ततो भक्तं गृहीत्वा वधूः समायाता । भृङ्गितौ पथिकैर्बलीव वित्यादि निवेदितं ततस्तस्याः । तया च भोक्तम्- 'क्षारमलवणं वेति न जानाम्यहम्, एतत् त्वदीयजनन्यैव हि संस्कृतम् । ततो गृहं गतया तयापि क्षारादिभणनव्यतिकरो निवेदितः । स्थविरया च कर्तयन्त्या मोक्तम्- स्थूल सूक्ष्म वा भवतु, इदं स्थविरस्य परिधानं भविष्यति । निवेदितं चैतत् सानुशयचित्तया स्थविरया गृहमागतस्य स्थविरस्य । तेनापि बि. भ्यता मोक्तम्- तव जीवितं पिबामि, योकमपि तिलमहं भक्षयामीति । एवमेकवचनादिकमप्युक्तं द्विवचनादितया यः शृणोति, तथैव चान्यस्य प्ररूपयति, तस्याननुयोगः, यथावच्छ्त्रणमरूपणे स्वनुयोग इति ।।
वचनानुयोगस्यैवेहमाधान्यख्यापनार्थ वचनविषयमेव द्वितीयं ग्रामेयकोदाहरणमुच्यते-तत्र चैकस्मिन् नगरे कस्याविद् महि
१क.ग.छ. 'प्रदोषिका।
For Private and Personal Use Only