________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
PRABHATARIKAATALITREATRAcharya ShriKailassagarsuri Gyanmandir
303
विशेषाः
लाया भर्ता मृतः। ततस्तत्रेन्धन-जलादिकष्टेन बाधिताऽनिर्वहन्ती लघुना निजतनयेन सह ग्रामं गताऽसौ । ततो वृद्धि गतेन पुत्रेण सा पृष्टा-मदीयपितुः का जीविकाऽऽसीत् । तया प्रोक्तम्- राजसेवा। तेनोक्तम्- अहमपि तां करोमि । तया प्रोक्तम्-पुत्र! तुष्कराऽसौ महता विनयेन क्रियते । कीदृशः पुनरसौ विनयः । तया प्रोक्तम्- सर्वस्यापि दृष्टस्य प्रणामः कार्यः, नीचच्या सर्वस्यापि प्रवर्तितव्यम् , परच्छन्दानुवृत्तिपरैश्च सर्वत्र भवितव्यम् । एवं करिष्यामि' इत्यभ्युपगम्य चलितोऽयं राजधानीसंमुखः। मार्गे च हरिणेष्वागच्छत्सु वृक्षमूलेष्वाकृष्टधनुर्यष्टयो निलीना व्याधा दृष्टाः। तेषां च तेन महता शब्देन योत्कारः कृतः। ततस्वस्ताः प्रपलाय्य गता हरिणाः। ततो व्याधैः कुट्टयित्वा बद्धोऽसौ । ततस्तेनोक्तम्-जनन्याहं शिक्षितः- 'दृष्टस्य सर्वस्यापि योत्कारः कर्तव्यः' इत्यादि । ततश्च 'ऋजुरयम्' इति ज्ञात्वा मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशेष्टे निलीनैरवनतैः शब्दमकुर्वद्भिः, शनैर्वा जल्पद्भिनिभृतमागम्यते । तदभ्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ । दृष्टाश्च वस्त्राणि क्षालयन्तो रजकाः । तेषां च वस्त्राणि तस्करैर्नित्यमपहियन्ते । ततस्तत्र दिने लगुडादिव्यग्रपाणयो रजकाः प्रच्छन्नोपविष्टा हेरयन्तस्तिष्ठन्ति । आगतश्चाजल्पन्नवनतगात्रो निलीयमानः शनैः स तत्र ग्रामेयकः । स एष चौरः' इति पत्वा कुट्टयित्वा बद्धोऽसौ रजकैः । सद्भावे च कथिते मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशे कस्मिंश्चिद् दृष्ट एवमुच्यते, यथा- ऊर्फ क्षारोऽत्र पततु, शुद्धं च भवतु' इति । इदं चाभ्युपगम्य प्रवृत्तः पुरतो गन्तुम् । ततो दृष्ट कमिन्नामे बहुभिर्मङ्गलैः प्रथम हलवाहनस्य दिवसकरणं क्रियमाणम् । तत उक्तम्- ऊपमित्यादि । ततस्तैरपि कृपीवलैः पिहिता, पद्धश्च । सद्भाचे ज्ञाते मुक्तः । शिक्षितश्च यथा- 'ईदृशे कापि रष्टे मोच्यते, यथा-गव्योऽत्र भ्रियन्ताम् , बढ़त्र भवतु, सदैव चेदमस्तु' इति । अभ्युपगतं च तेनेदम् । अन्यत्र च मृतके बहिर्मीयमाने प्रोक्तमिदम् । तत्रापि कुट्टितः, बद्धश्च । सद्भावकथने च मुक्तः । शिक्षित यथा- 'ईशं मा भूद् भवतां कदाचिदपि, वियोगश्चेदृशेनास्तु' इति । एतच्चान्यत्र विवाहे प्रोक्तम् । तत्रापि तथैव बद्धः । सद्भाचे परिज्ञाते मुक्तः । शिक्षितश्च यथा'ईदृशे प्रोच्यते- सदैव पश्यन्त्वीदृशानि भवन्तः, शाश्वतश्च भवत्वेतत्संबन्धः, मा भूदिह वियोगः' इति । इदं चान्यत्र कचिद् निगडबद्धं राजानमवलोक्य ब्रुवाणस्तथैव कदर्थयित्वा मुक्तः । शिक्षितश्च यथा- 'ईदृशे वियोगः शीयं भवत्वनेन, एवंविधं च मा भूत् कदाचिदपि' इत्यभिधीयते । एतच्चान्यत्र क्वचिद् राज्ञा संधौ जल्प्यमाने प्रोक्तम् । ततस्तत्रापि तथैव कदार्थितः। एवं स्थाने स्थाने कदर्थ्यमानोऽन्यदा कस्यापि विभवविप्रमुक्तठक्कुरस्य सेवा विधातुमारब्धः। तत्र चान्यदा गृहे आम्लखलिकायां सिद्धायां ग्रामसभाजनसमूहमध्ये उपविष्टस्य ठक्कुरस्य 'शीतलीभूतैषा भोक्तुमयोग्या भविष्यति' इति भार्यया तदाकारणाय प्रेषितो ग्रामेयकः । तेनापि जनसमूहस्य शृण्वतो महता शब्देनोक्तम्-आगच्छ ठक्कुर ! शीघ्रमेव गृहम् , सुक्ष्व आम्लखलिकाम् , शीतलीभवति लग्नाऽसौ। तनो लज्जितष्ठक्कुरो गृहं गतः । ततो गाहें ताडयित्वा शिक्षितः, यथा-'नेत्थं पूत्कुर्वाणहप्रयोजनानि भण्यन्तै, किन्तु वस्त्रेण मुख स्थगयित्वा कर्णाभ्यणे च स्थित्वा शनैः कथयन्ते । ततोऽन्यदा वहिदीप्ते गृहे गतोऽसौ राजसभायां शनैरग्रतः स्थित्वा वस्त्रं च मुखद्वारे दया कथितं च तस्य कर्णे | ततः संभ्रमाद् धावितो गृहाभिमुखं ठक्कुरः । दग्धं च सर्वस्वं सर्वमपि गृहम् । ततः कुपितेन बाहं ताडितोऽसौ ठक्कुरेण । भणितश्च- निलक्षण ! प्रथममेव धूमे निर्गते जलाचाम्ल-धूलि-भस्मादिकं किमिति त्वया न निक्षिप्तम् , महता च शब्देन किमिति त्वया न पूत्कनम् । तेनोक्तम्- अन्यदेत्थं करिष्यामीति । ततः कदाचिद् विहितस्नानो धूपनायोपविष्टष्ठक्कुरः। निर्गता च पच्छादनपट्टस्योपर्यगुरुधमशिखा । दृष्टा च ग्रामेयकेण । क्षिप्ता चौपाट्य तदुपर्याचाम्लभृतयहास्थाली, जल-धूली-भस्मादिकं च, तथा च पूत्कृतं महद्भिः शब्दैरिति । ततः 'योग्योऽयम्' इति निष्काशितो गृहात । एवं शिष्योऽपि यावन्मानं वचनं गुरुः कथयति, तावन्मा. त्रमेव स्वयं द्रव्य-क्षेत्र-काल-पराभिप्रायौचित्यपरिज्ञानशून्यो यो वक्ति तस्य वचनाननुयोगः, यस्तु द्रव्य-क्षेत्राद्यौचित्येन वक्ति तस्य तदनुयोग इति ।
भावाननुयोगा नुयोगयोः सप्तोदाहरणानि-तत्र श्रावकमार्योदाहरणमुच्यते- एकेन गृहीताणुव्रतेन तरुणश्रावणातीव रूप. वती, कृतोद्भटरूपशृङ्गारा निजपत्न्या एव सखी कदाचिद् दृष्टा, गाढमध्युपपन्नश्च तस्याम् , परं लज्जादिना किमपि वक्तुमशक्नुवंस्तत्प्राप्तिचिन्तया च प्रतिदिनमतीव दुर्वलीभवति । निर्बन्धेन पृष्टं कारणं स्वभार्यया ।कथितं च कथं कथमपि तेन । तया चातीव दक्षतया प्रोक्तम्- एतावन्मात्रेऽप्यर्थे किं खिद्यते , प्रथममेव ममैतत् किं न कथितम् ?, स्वाधीना हि मभ सा, आनयामि सत्वरमेवेति । ततोऽन्यदिने भणितो भर्ता- अभ्युपगतं सहर्षया तया युष्मत्समीहितम् , प्रदोषे चागमिष्यति, परं लजालुतया वासभवनप्रविष्टमात्रापि प्रदीपं विध्यापयिष्यति । तेनोक्तम्- एवं भवतु । किमित्थं विनश्यति !! ततो वयस्यायाः सकाशात् किश्चिद् निमित्तमुद्भाव्य याचितानि तया तदीयानि स्वभवृदृष्टपूर्वाणि प्रधानवस्त्राणि, आभरणानि च । ततो गुटिकादिप्रयोगतो विहितसखीसदृशखरादिस्वरूपा, तथैव कृतशृङ्गारा तत्सदृशललितेन, विलासैश्वान्विता तस्यैव श्राद्धस्य भार्या संनिहितवरकुसुम-ताम्बूल-श्रीखण्डा-गुरु-कर्पूर-कस्तूरिकादिसमस्तभोगाना विहितामलपदीपालोके रमणीये वासभवने सविलासमन्वरिशत् । ततो दृष्टा सोत्कण्ठविस्फारितदृशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपल्यकोपविष्टेन झगित्येव नयन-मनसोरमृतवृष्टिमिवादधाना तेनैषा । तथा च दृष्टमात्रया विध्यापितः प्रदीपः । क्रीडितं च विविधगोष्ठीप्रबन्धपूर्वकं तया सह निर्भरं तेन । गतायां च तस्यां प्रत्युषसि चिन्तितमनेन
“सयलसुरा-ऽसुरपणमियचलणेहिं जिणेहिं जं हियं भणियं । तं परभवसंबलयं अहह ! मए हारि सील ॥ १॥" xबाट-1ो सकलसुरा-सुरप्रणतचरणैर्जिनयंतितं भणितम् । तत् परभवशम्बलकमहह ! मया हारितं शीलम् ॥1॥+पृष्टः-1७तत-। ।
For Private and Personal Use Only