________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुकगृहे श्रावकस्तिष्ठति । यत । तत एकेन साधुना शेषसाधनामामापतग्राम्यभाषितम् । ततस्तन चिन
विचिन्त्योक्तम्
304 विशेगा.
इत्यादिसंवेगवशोत्पन्नपश्चात्तापमहानललुप्यमानान्तःकरणः प्रतिदिनमधिकतरं दुर्बलीभवत्यसौ । ततो निर्बन्धेन स्वभार्यया पृष्टो निःश्वस्य सखेदं ब्रवीति- प्रिये! यतश्विरकालानुपालितस्वर्गा-ऽपवर्गनिवन्धनवतखण्डनेनामुना कृतं मया तदकर्तव्यं यत् बालिशानामप्यविधेयम् । ततः कृशीभवाम्यहमनया चिन्तया । ततो भार्यया संवेगवशीभूतं व्यावृत्तं च तच्चेतो विज्ञाय कथितः सोऽपि यथावृत्तः सद्भावः । साभिज्ञानकथनादिभिश्च समुत्पादिता प्रतीतिस्तस्य । ततः स्वस्थीभूतोऽयमिति । तदेवं स्वकलवमपि परकलत्राभिप्रायेण भुञ्जानस्य तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः। एवमौदयिकादिभावान् स्वरूपवैपरीत्येन प्ररूपयतो भावाननुयोगः, यथावस्थिततत्परूपणे तु भावानुयोग इति ।
सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः, तदुदाहरणमुच्यते- एकस्मिन् प्रत्यन्तग्रामे कोऽपि सेवकपुरुषो नसति स्म । सच साध्वादिदर्शनिना संबन्धिनं धर्म न कदाचिदपि शृणोति, न च तदन्तिके कदाचिदपि व्रजति, न च कस्याप्युपाश्रयं ददाति, यतो दयालुतां, परधन-परकलत्रनिवृत्त्यादिगुणप्रतिपत्तिं चैतेऽमी करिष्यन्ति, न च तां पालयितुमहं शक्नोमीति । अन्यदा च वर्षासनमायातास्तत्र कथमपि साधवः । तेषां च तत्र वसतिमन्वेषयतां कौतुकं दिक्षुभिः सेवकनरमित्रैमीणैरुक्तम्- अत्रेत्थंभूतो भवतामतीव भक्तोऽमुकगृहे श्रावकस्तिष्ठति । वसत्यादिना न किञ्चित् क्षणं करिष्यति, तद् गच्छत तत्रेति । कृतं तत् तथैव तैः । स च तेषां पुरतोऽपि स्थिताना संमुखमपि नावलोकयति । तत एकेन साधुना शेषसाधूनामभिमुखमुक्तम्- स एप न भवति, वश्चिता वा तामेयकैर्वयम् । ततस्तेन संभ्रान्तेनोक्तम् - किं किं भणथ यूयम् । ततस्तैः कथितं सर्वमपि तद्ग्राम्यभाषितम् । ततस्तेन चिन्तितम्- अहो ! मत्तोऽपि ते निकृष्टा यैरेतेऽपि प्रवश्चिताः । तस्माद् मा भूवन्नमी, अहं च तदुपहासपात्रम् | अतोऽनिष्टमपि करोम्येतत् । इति विचिन्त्योक्तम्तिष्ठत मम निराकुलाः शालायामेतस्याम् , परं मम धर्माक्षरं न कथनीयम् । प्रतिपन्नमेतत् तैः । स्थिताश्च सुखेन तत्र चतुर्मासकात्ययं यावत् । ततो विजिहीर्षुभिस्तैरनुत्रजनार्थमागतस्य शय्यातरस्य कल्पोऽयमिति दत्ताऽनुशास्तिः । ततो मद्य-मांस-जीवघातादिविरति कर्तुमशक्नुवतस्तस्यातिशयज्ञानितयाध्ये प्रतिबोधगुणं पश्यद्भिर्गुरुभिः साप्तपदिकं तं दत्तम्- कश्चित् पञ्चेन्द्रियप्राणिनं जिघांसुना यावता कालेन सप्त पदान्यवष्टभ्यन्ते तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति । प्रतिपन्नमेतत् तेन | गताश्च साधवोऽन्यत्र । अन्यदा चासौ सेवकनरचौर्यार्थ गतः क्वापि । ततोऽपशकुनादिकारणेन स्वल्पेनैव कालेन प्रतिनिवृत्तः। कीदृशो मत्परोक्षे पदीयगृहे समाचार इति जिज्ञासुर्निशीथे प्रच्छन्न एवं प्रविष्टो निजगृहे । तस्मिंश्च दिने तस्य भगिनी ग्रामान्तरादागता । तया च केनापि हेतुना विहितपुरुपनेपथ्यया नटा नृत्यन्तो निरीक्षिताः। ततोऽतीवप्रवलनिद्रावशात् कृतपुरुषवेषेव भ्रातृजायासमीपे प्रदीपालोकादिरम्यवासभवनगतपल्याङ्क एवं निर्भर प्रसुप्ता । तेनापि च तद्वन्धुनाऽकस्मादेव गृहपविष्टेन दृष्टं तत् तादृशम् । ततश्चिन्तितमनेन- अहो । विनष्टं मगृहम् , विटः कोऽप्ययं मद्भार्यासमीपे प्रसुप्तस्तिष्ठति । इति कोपावेशादाकृष्टः कृपाणः । ततः स्मृतं व्रतम् । विलम्बितं च सप्तपदापसरणकालम् । अत्रान्तरे तद्भगिनी बाहुलतिका निद्रावशेन तद्भाया मस्तकेनाक्रान्ता। ततः पीड्यमानया तद्भगिन्या प्रोक्तम्- हले! मुश्च मम बाहुम् , येऽत्यर्थमहम् । ततः स्वरविशेषेण ज्ञाताऽनेन स्वभगिनी । अहो ! निकृष्टोऽहम् , मनागेव मया न कृतमिदमकार्यम्, तत उत्थिते ससंभ्रमं भगिनी-भार्ये इति । कथितश्च सर्वैः स्वव्यतिकरः परस्परम् । ततो यथोक्ताभिग्रहमात्रस्याऽप्येवंभूतं फलमुवीक्ष्य संविग्नः प्रबजितोऽसाविति । तदत्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोस्तस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः । प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति ।
कोकणकदारकोदाहरणं यथा- कोकणविषय एकस्य पुरुषस्य लघुदारकोऽस्ति । भार्या तु मृता । अन्य च परिणेतुमि च्छताऽपि सपत्नीपुत्रोऽस्याऽस्तीति न कोऽपि ददाति । अन्यदा च सहैव तेन दारकेणासावरण्ये काष्ठानयनाय गतः । तत्र च कस्यापि पित्रा काण्डं मुक्तम् । तदानयनाय च दारकः प्रेषितः, गतश्चायम् । अत्रान्तरे दुष्पितुस्तस्य चलितं चित्तम्, यदस्य दारकस्य सत्ककारणेनाऽन्यां भार्या मम न कोऽपि ददाति । ततोऽन्यं काण्डं क्षिप्त्वा विद्धोऽसौ दारकः । ततो महता स्वरेणोक्तं बालकेनतात ! किमेतत् काण्डं त्वया मुक्तम् ?, विद्धोऽस्म्यनेनाऽहम् । ततो निधुणेन पित्राऽन्यत् काण्डं मुक्तम् । ततो ज्ञातं दारकेण- 'हन्त, ! बुक्को मारयत्येष माम् , इति विस्वरं रटन् निकृष्टेन तेन मारितोऽसाविति । पूर्वमन्यस्य वाणं मुश्चता पित्रानाभोगत एवाऽहं विद्ध इत्यवबुध्यमानस्य भावाननुयोगः, पश्चाद् यथावस्थिताधिगमें तस्य भावानुयोगः । अथवा, 'संरक्षणार्थमपि त बालकं मारयामि' इत्य ध्यवस्यतः पितुर्भावाननुयोगः, तद्रक्षाध्यवसाये तु भावानुयोगः । एवं विपरीतभावारूपणे भावाननुयोगा, अविपरीतभावारूपणे तु भावानुयोग इति ।
अथ नकुलोदाहरणम्- पदातेः कस्यचिद् भार्या गुर्विणी जाता। नकुलिका च काचित् तद्गृहकृत्याश्रितागुर्विणी पदातिभार्यया सहकस्यां रजन्यां प्रसूता । तस्या नकुलो जातः । इतरस्यास्तु पुत्रः। ततोऽस्य समीपे स्थितो नकुलः सदैव तिष्ठति । अन्यदाच पदातिभार्याया द्वारे खण्डयन्त्या मध्ये मञ्चिकायां स्थितो बालकः सर्पण दष्टा, मृतश्च । ततो मचिकाया उत्तरन् नकुलेन दृष्टो विषधरः, खण्डशः कृत्वा मारितश्च । ततो द्वारे पदातिभार्यायाः समीपे गत्वा शोणितोपलिप्तवक्त्रायवयवोऽसौ चाटूनि कर्तुमारब्धः, दृष्टश्च
1 क.छ. 'कदेश ए' । चुक्को- मुक्को-I + संरक्षणामिपि-15 वृत्याया।
For Private and Personal Use Only