________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
299
विशेषा०
अथ क्षेत्रे क्षेत्रेषु चानुयोगमाह
'खेत्तम्मि उ अणुओगो तिरियं लोगम्मि जम्मि वा खेत्ते । अड्ढाइयदीवेसुं छलद्धवीसाए खेतेसुं ॥ १४०१ ॥ क्षेत्रे पुनरयमनुयोगः, तद्यथा - तिर्यग्लोकक्षेत्रे योऽनुयोगः प्रवर्तते, यत्र वा ग्राम-नगरादौ व्याख्यानसभादौ वा क्षेत्र स्थितोऽनुयोगकर्ताऽनुयोगं करोति, एष क्षेत्रेऽनुयोगः क्षेत्रानुयोग उच्यते । क्षेत्रेष्वनुयोगः कः ?, इत्याह- योऽर्घतृतीयद्वीप समुद्रान्तवतिक्षेत्रेषु प्रवर्तते, सार्धपञ्चविंशतिजनपदरूपेषु वाऽऽर्यक्षेत्रेष्विति । उक्तः षद्विधक्षेत्रानुयोगः ।। १४०१ ॥
अथ तावद्भेदमेव कालानुयोगमाह-
कस्स समरूवण कालाण तदाइ जाव सव्वद्धा । कालेणानिलाबहारो कालेहि उ सेसकायाणं ॥१४०२॥
कालस्यानुयोगः कः ?, इत्याह- 'समयरूवण ति' उत्पलपत्रशतभेद-पट-शाटिकापाटनादिदृष्टान्तैः समयस्य प्ररूपणेत्यर्थः । कालानां त्वनुयोगः 'तदाइ जाव सव्वद्ध ति' समयमादौ कृत्वा यावत् सर्वाद्धायाः प्ररूपणेत्यर्थः । कालेनाऽनुयोगोऽनिलापहारः । इदमुक्तं भवति - 'वादरपर्याप्तवायुकायिका वैक्रियशरीरे वर्तमाना अद्धापल्योपमस्यासंख्येयभागेनापहियन्त इत्येवं या प्ररूपणा स कालेनानुयोगः' इत्येवं कोट्याचार्यटीकायां विवृतम् । अन्यत्र त्वनुयोगद्वारादिषु वैक्रियशरीरिणो वायवः क्षेत्रपल्योपमासंख्येयभागप्रदेशपरिमाणा दृश्यन्ते । तस्वं तु केवलिनो विदन्ति । शेषाणां तु पृथिव्यादिकायानां यथासंभवं कालैरनुयोगः, तथथा- 'पैज्जत्तबायरानलअसंख्या होंति आवलियवरगा' इति, आवलिकायां यावन्तः समयास्तेषां वर्गः क्रियते, तथाविधेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्पमाणा बादरपर्याप्ततेजःकायिका भवन्ति । तथा, प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्य ऽवसर्पिणीभिरपहियन्ते । एवं पृथिव्यादिष्वपि यथासंभवं वाच्यमिति ।। १४०२ ।।
अथ काले कालेषु चानुयोगमाह -
कलम्म बीयपोरिसि समासु तिसु दोसु वा वि कालेसु । पत्रयणस्सेगवयाइवयणाणं सोलसहं तु || १४०३॥
Acharya Shri Kallassagarsuri Gyanmandir
x
१ क्षेत्रे त्वनुयोगस्तिर्यग्लोके यस्मिन् वा क्षेत्रे । अतृतीय द्वीपेष्वर्धषड्विंशेषु क्षेत्रेषु ॥। १४०१ ॥ * (वय)
२ कालस्य समयरूपणा कालानां तदादि यावत् सर्वाद्धा । कालेनानिलापहारः कालैस्तु शेषकायाणाम् ॥ १४०२ ॥
३ पर्यासवादरानला संख्येयका भवन्त्यावलिकावर्गाः ।
४ काले द्वितीयपौयाँ समासु तिसृषु द्वयोर्वापि कालयोः । वचनस्यैकवचनादिवचनानां षोडशानां तु ॥ १४०३ ॥
tendisort fis सूत्रमध्येतव्यम्, द्वितीय पौरुष्यां तु तस्यानुयोगः प्रवर्तते । अंत इह कालस्य प्राधान्येन विवक्षणात् काले द्वितीय पौरुषी लक्षणेऽनुयोगः कालानुयोग इत्युच्यते । तथा, अवसर्पिण्यां सुषमदुःषमा दुःषमसुषमा दुःषमारूपासु तिसृषु 'समासु त्ति' अरकेषु अनुयोगः प्रवर्तते, नान्यत्र । उत्सर्पिण्यां तु दुःषमसुषमा- सुषमदुःषमारूपयोः समयोर्द्वयोररकयोरनुयोगः प्रवर्तते, नान्यत्र । अयं च कालेष्वनुयोगः कालानुयोगोऽभिधीयते । तदेवं भणितः षड्विधकालानुयोगोऽपि । अथ वचनानुयोगमाह- 'वयणस्सेत्यादि' इत्थंभूतमेकवचनं भवति, एवंभूतं वा द्विवचनम्, ईदृशं वा बहुवचनम्, एवंस्वरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, अयं वचनस्यानुयोग उच्यते । वचनानां त्वनुयोगः षोडशवचनानुयोगः । कानि पुनस्तानि षोडश वचनानि १ । उच्यते-
''लिंगतियं वयणतियं कालतियं तह परुक्ख पच्चक्खं । उवणय ऽवषणच उद्धा अज्झतं होइ सोलसमं ॥ १ ॥ '
एषाऽपि गाथा विनेयानुग्रहार्थ व्याख्यायते - इयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि लिङ्गत्रिकमुच्यते । एकः द्वौ बहव इत्येकत्वाद्यभिधायकशब्दत्रयं वचनत्रयमभिधीयते । अकरोत् करोति, करिष्यतीति भूतादिकालग्रयमतिपादकं वचनं कालत्रिकं कालप्रतिपादकवचनत्रयमित्यर्थः । तथा, 'सः' इति परोक्षार्थनिर्देशः परोक्षवचनम् । 'अयम्' इति प्रत्यक्षनिर्देश: प्रत्यक्षवचनम् । उपनयः स्तुतिः । अपनयस्तु निन्दा, तयोर्वचनं चतुर्धा, तद्यथा- 'रूपवती स्त्री' इत्युपनयवचनम्, 'कुरूपा स्त्री' इत्यपनयवचनम् । 'रूपवती स्त्री, किन्तु कुशीला' इत्युपनया - ऽपनयवचनमिति । 'कुरूपा स्त्री, किन्तु सुशीला' इत्यपनयो- पनयवचनमिति । यत्रान्यश्चेतसि निधाय विश्तारकबुद्ध्याऽन्यद् बिभणिषुरपि सहसा यचेतसि तदेव वक्ति, तत् षोडशमध्यात्मवचनमिति । एतत् षोडशवचनव्याख्यानं वचनानामनुयोगः । अत्र प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्या वचनानामनुयोग इत्यपि द्रष्टव्यमिति । तदेवं वचनस्य वचनानामित्युक्तम् ।। १४०३ ॥
अथ वचनेन वचनैर्वचनेऽनुयोगः, इत्येतदाह
णायरियाई एक्केणुतो बहूहिं वयणेहिं । वयणे खओवसमिए वयणेसु उ नत्थि अणुओगो ॥ १४०४ ॥ वचनेनानुयोगो यथा - कश्चिदाचार्यादिः साध्वादिना सकृदेकेनापि वचनेनाऽभ्यर्थितोऽनुयोगं करोति । वचनैस्त्वनुयोगः
१ लिङ्गत्रिकं वचन त्रिकं तथा परोक्ष-प्रत्यक्षे । उपनया-पनययोश्चतुर्धाऽध्यात्मं भवति षोडशम् ॥ १ ॥
२ वचनेनाचार्यादिरेकेनोको बहुभिर्वचनैः । वचने क्षायोपशमिके, वचनेषु तु नास्त्यनुयोगः ॥ १४०४ ॥
For Private and Personal Use Only