________________
Acharya SM R
a
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
-
298 विशेषा०
व्येण द्रव्यतो जीव एक द्रव्यम् । क्षेत्रतस्तु तज्जीवद्रव्यं संख्यातीतप्रदेशावग़ाढम् , एकैकस्य जीवस्यासंख्याताकाशप्रदेशावगाढत्वात् । काले कालतोऽनादिः, अनिधनश्च जीवो भवति । भावे भावतस्तु ज्ञानादयोऽनन्तास्तस्याऽगुरुलघुपर्यायाः। अजीवद्रव्यस्याप्येवमेव द्रव्यादिभ्यश्चतुर्विधोऽनुयोगः। तत्र द्रव्ये द्रव्यतः परमाणुरेक द्रव्यम् । क्षेत्रे क्षेत्रतस्त्वेकमदेशावगाढ एव । कालतस्तु जघन्यतस्तस्य स्थितिरेकः समयः, मध्यमतस्तु यादयः समयाः, उत्कृष्टतस्त्वसंख्येया उत्सर्पिण्य-ऽवसर्पिण्यः । भावतः पुनर्वर्ण-गन्धादिरूपा अनन्ता पर्यायाः। एवं द्वचणुकादिस्कन्धानामपि प्रत्येकं द्रव्यादिभावेन चतुर्विधोऽनुयोगो वक्तव्यः। द्रव्यस्यानुयोग इति गतम् ॥१३९४॥ ॥ १३९५ ॥ १३९६ ॥
अथ 'द्रव्याणामनुयोगः' इत्येतद् व्याचिख्यासुराह
देवाणं अणुओगो जीवा-जीवाण पज्जवा नेया । तत्थवि य मग्गणाओऽणेगा सहाण-परठाणे ॥ १३९७ ॥
द्रव्याणामनुयोगो यदा चिन्त्यते तदा जीवा-ऽजीवद्रव्याणां पर्यवाः पर्याया ज्ञेया ज्ञातव्या यथा प्रज्ञापनायां प्ररूपिता तथाच तत्रोक्तम्- "काविहा भंते ! पजवा पनत्ता। गोयमा! दुविहा पन्नत्ता, तं जहा- जीवपज्जवा य, अजीवपजवा य । जीवपज्जवा ण भंते । किं संखेज्जा, असंखेजा, अणता? | गोयमा ! नो संखेजा, नो असंखेजा, अणता। एवं अजीवपज्जवा वि अणता" इत्यादि । तत्रापि द्रव्याणामप्यनुयोगपक्षे स्वस्थान-परस्थानभेदादनेका मार्गणा अन्वेषणा विचारणा ज्ञातव्याः । तत्र द्रव्यतोऽनन्तानि जीवद्रव्याणि, अनन्तान्यजीवद्रव्याणि, इत्येवं जीवा-उजीवद्रव्याणां द्रव्यतश्चिन्ता स्वस्थानम् , क्षेत्र काल-भावतस्तु चिन्ता परस्थानम् । तत्र क्षेत्रतो जीवा-जीवद्रव्याणि प्रत्येक समस्तलोकावगाढानि, कालतोऽनाद्य-निधनानि, भावतस्त्वनन्तपर्यायाणि, इत्यादिमार्गणाः स्वधिया विधेया इति ॥ १३९७ ॥
यदुक्तम्- 'द्रव्येण, द्रव्यैः, द्रव्ये, द्रव्येष्वनुयोगः' इति, तत्राह१.छ. ज. 'ज्यः'। २ व्याणाममुयोगो जावा-उजीवानो पर्यवा ज्ञेयाः । तत्रापि च मार्गणा अनेकाः स्वस्थान परस्थानयोः ॥ ११९॥
३ कतिविधा भगवन् ! पर्यवाः प्रज्ञप्ताः । । गौतम ! द्विविधा प्राप्ताः, तद्यथा- जीवपर्यवान, अजीवपर्यवाश्च । जीवपर्यवा भगवन् ! किं संख्येयाः, असंख्येयाः, अनन्ता: १ । गौतम ! मो संख्ययाः, नो असंख्येयाः, अनन्ताः । एवमजीवपर्यचा भयवन्ताः ।
वत्तीए अक्खेण व करंगुलाईण वा वि दवेणं । अक्खेहि य दवेहि अहिगरणे कप्प-कप्पेहिं ॥१३९८॥
खटिकाचूर्णनिर्मितया वाऽक्षर-पदादिकं लिखित्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, भङ्गकचारणादिषु च योऽक्षेण क्रियते सोऽपि तथैव । 'करंगुलाईण वा वित्ति' योऽपि वा माकृतत्वेन विभक्तिव्यत्ययात् कराङ्गुल्यादिना हस्ताङ्गुल्यादिद्रव्येण किंचिद् दर्शयद्भिरनुयोगः क्रियते सोऽपि द्रव्येणानुयोगो भण्यते । बहुभिश्चाङ्गकचारणाद्यर्थ योऽनुयोगोऽसौ द्रव्यैरनुयोगः। अधिकरणे वैकस्मिन् कल्पद्रव्य एककम्बलनिर्मितनिषद्यारूपे समुपविष्टो यदाऽनुयोगं करोति तदा द्रव्येऽनुयोगोऽसौ यदातु बहुकल्पमयनिषद्याद्रव्येषु तदा द्रव्येष्वनुयोग इति । तदेवं व्याख्यातः षड्विधो द्रव्यानुयोगः ॥१३९८ ॥ __ अथ पड्धिक्षेत्रानुयोगव्याख्यामाह
पन्नत्तिजंबुदीवे खेत्तस्सेमाइ होइ अणुओगो । खेत्ताणं अणुओगो दीव-समुदाण पन्नत्ती ॥ १३९९ ॥
क्षेत्रस्याऽनुयोगः क्षेत्रानुयोग एवमादिको भवति । कः?, इत्याह - 'पन्नत्तिजंबुदीवे त्ति जम्बूद्वीपप्रज्ञप्तिरित्यर्थः, जम्बूद्वीपलक्षणैकक्षेत्रव्याख्यानरूपत्वात् तस्याः । बहूनां तु क्षेत्राणामनुयोगो द्वीप-सागरमज्ञप्तिर्भवति, बहूनां द्वीप-समुद्रक्षेत्राणां तत्र व्याख्यानादिति । तदेवं क्षेत्रस्य क्षेत्राणामनुयोगः' इत्युक्तम् ॥ १३९९ ॥ -- अथ क्षेत्रेण क्षेत्रैरनुयोग इत्येतदाह
जंबूदीवपमाणं पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेजा ॥ १४०० ॥
इइ जम्बूद्वीपप्रमाणं प्रस्थकं पल्यं कृत्वा पुनः पुनस्तद्भरण-विरेचनक्रमेण यदा सर्वेऽपि सूक्ष्म-बादर-पृथ्वीकायिकजीवा मीयन्ते । तदाऽसंख्येयलोकाकाशप्रदेशसंख्योपेता जम्बूद्वीपप्रमाणाः प्रस्था भवन्ति, इत्येष क्षेत्रेण जम्बूद्वीपरूपेणानुयोगोऽभिधीयत इति । क्षेत्र स्त्वनुयोगोऽयं द्रष्टव्यः, तद्यथा- बहुद्वीपप्रमाणं प्रस्थकं कृत्वाऽभीक्ष्णं तद्भरण-विरेचनक्रमेण समस्तपृथ्वीकायिकजीवा मीयमाना असंख्येयलोकाकाशमदेशराशिपरिमाणा बहुद्वीपमानप्रस्था भवन्ति । एतदसंख्येयकं पूर्वस्माल्लघुतरं द्रष्टव्यम्, प्रस्थस्येह बृहत्तरत्वात् । एम. बहुद्वीपलक्षणः क्षेत्ररनुयोग इति ॥ १४००॥
'वाऽक्षण या कराडल्यादिना वापि द्रव्येण । अझैश्च द्रव्यरधिकरणे कल्प-कल्पैः ॥ १३९८ ॥ २ जम्बूद्वीपप्रज्ञप्तिः क्षेत्रस्यैवमादिर्भवत्यनुयोगः । क्षेत्राणामनुयोगो द्वीप-समुद्राणां प्रज्ञप्तिः ॥ १३९९ ॥ ३ प.छ.ज. 'पसागरक्षे'। - जम्बूद्वीपप्रमाणं पृथ्वीजविानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ १४००॥
For Private and Personal Use Only