Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 288
________________ Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org Shri Mahavir Jain Aradhana Kendra 281 विशेषा० नष्ठा च समकाल दुपरि तिर्यक्स व द्वितीयम्- , तदुपर्यपि ततो हास्य-रत्य-रति-शोक-भय-जुगुप्सालक्षणं हास्यादिषदं युगपदन्तर्मुहूर्तेन, ततः पुरुषवेदमन्तर्मुहूर्तेन । अथ स्त्री भारम्भिका, ततः प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततो हास्यादिषद, ततः स्त्रीवेदमुपशमयति, इत्येवं द्रष्टव्यम् । अथ नपुंसका प्रारम्भकः, ततोऽसावनुदीर्णमपि प्रथम स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः पदम् , ततो नपुंसकवेदम् , इत्येष क्रमः । अत ऊर्ध्व द्वौ द्वौ क्रोधायावेकान्तरितौ संज्वलनक्रोधादिव्यवहिती, सदृशौ क्रोधादित्वेन परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति । एतदुक्तं भवति- अप्रत्याख्यान-प्रत्याख्यानावरणौ क्रोधौ क्रोधरूपतया सदृशौ सदृशं युगपदन्तर्मुहूर्तेनोपशमयति, ततः संज्वलनं क्रोधमेकाकिनर्मकान्तर्मुहूर्तेनोपशमयति । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानौ मानरूपतया सदृशौ सदृशं युगपदेव, ततः संज्वलनं मानम् , ततोऽपत्याख्यान-प्रत्याख्यानाचरणमायाद्वयं मायारूपतया सदृशम् , ततः संज्वलनां मायाम् । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणलोभद्वयं लोभरूपतया सदृशं युगपदुपशमयति, ततः संज्वलनं लोभम् । अमुं चोपशमयंत्रिधा करोति-द्वौ भागौ युगपदुपशमयतिः तृतीयं तु भार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति । तत एतेषां संख्येयखण्डानां यच्चरम खण्डं तदसंख्येयानि खण्डानि करोति । ततः समये समय एकैकं खण्डमुपशमयति । इह च दर्शनसप्तक उपशान्तेऽपूर्वकरणः, निवृत्तिवादरो वाऽभिधीयते । तत ऊर्ध्वमनिवृत्तिबादरो यावत्संख्येयखण्डानां चरमखण्डम् । चरमसंख्येयखण्डनिष्पन्नानि त्वसंख्येयखण्डान्युपशमयन् सूक्ष्मसंपरायः। तदेवपन्तर्मुहूर्तेन संज्वलनं लोभमपि सर्वमुपशमयति । एवं सर्वत्र प्रत्येकान्तर्मुहूर्तमुपशमकालः । सर्वापि चेयं श्रेणिमहताऽन्तर्मुहर्तेन सपर्थ्यते । अस्याश्च श्रेणेरनन्तानुबन्धिचतुष्टयादीनां प्रत्येक शून्यस्थापनया खरूपं भावनीयम् । तत्रानन्तानुबन्धिचतुष्टयस्थापने चत्वारि शून्यानि तिर्यग् व्यवस्थाप्यन्ते, तद्यथा-००००। एषामुपशमस्य प्रारम्भो निष्ठा च समकालमेव, इति तिर्यकसमतया स्थाप्यन्ते । एवमुत्तरत्रापि तिर्यवसमस्थापनायां भावार्थोऽवसेयः। एतदुपरि तिर्यक्समशून्यत्रयेण दर्शनत्रयं स्थाप्यते-...। एतदुपर्येकस्य वेदकस्यैकं शून्यम् , तदुपरि द्वितीयस्य द्वितीयम्-8। तदुपरि हास्यादिषटुं समश्रेण्या तिर्यक् स्थाप्यते- ००० ० ० ० । एतदुपरि तृतीयवेदशून्यम् , तदुपर्यपि तिर्यक्क्रोधशून्यद्वयम्-..। एतदुपरि संज्वलनक्रोधस्य शून्यम्- ० । एतदुपरि तिर्यग्मानद्यस्य शून्यद्वयम्- ० ० । तदुपरि मानस्यैकं शून्यम्-- ० । तदुपरि मायाद्वयस्य निर्यक् शून्यद्वयम्- ० . । तदुपरि मायायाः शून्यम्- ० । तदुपरि लोभद्वयस्य तिर्यगेव शून्यद्वयम्- . ० । एतदुपरि संज्वलनस्य लोभस्यैकं शून्यम्- ० । एवमूर्ध्वं स्थापना विधाय सर्व भावनीयम् ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १२८४॥ नियर्ति-1 + (संस्थ तम) विस्तरार्थ तु भाष्यकारः प्राह वसामगसेढीए पट्ठवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥१२८५॥ अन्ने भणंति अविरय-देस-पमत्ता-ऽपमत्तविरयाणं । अन्नयरो पडिवज्जइ सणसमणम्मि उ नियट्टी ॥१२८६॥ द्वे अपि गतार्थे, नवरमविरताचप्रमत्तान्तानां मध्यात् केनापि दर्शनसप्तकेनोपशमिते ततो 'नियष्टित्ति' निवृत्तिबादरो भवतीति ॥ १२८५ ॥ १२८६ ॥ 'अण' इत्येतद् व्याख्यातुमाह भवमणुबंधति जओऽणंतमणंताणुबंधिणोऽण त्ति । ते चत्तारि वि समयं समेइ अंतोमुहुत्तेणं ॥ १२८७ ॥ गाथापूर्वार्धस्यान्ते 'अण' इत्येतद्हणवाक्यम् , अतो व्याख्यानयति- 'भवमित्यादि' भवं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनस्तान् प्रशस्तध्यानतोऽन्तर्मुहूर्तेन युगपदुपशमयति, उदयोद्वर्तनादिकरणाऽयोग्यान् सतोऽप्यसत्कल्पान् करोतीति॥१२८७।। शेषावयवव्याख्यामाह तत्तो य दंसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो बीयं छक्कं तओ य वेयं सयमुदिन्नं ॥ १२८८ ॥ ततश्चानन्तानुबन्ध्युपशमानन्तरं मिथ्यात्वादिदर्शनत्रिकम् , ततोऽनुदीर्णस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तमुपशमयति, ततो द्वितीयम् , ततः पदम , ततो यः कश्चिदुदये वर्तते वेदस्तमुपशमयति । इदमुक्तं भवति- यदि पुरुषः श्रेणिपारम्भकः, तदा पुरुष वेदस्तस्योदये वर्तते, स्त्री-नपुंसकवेदौ स्वनुदीी , तयोश्च मध्ये नपुंसकवेदो जघन्यतरः, ततो दर्शनत्रिकादुपरि प्रथम तमुपशमयति, ततः स्त्रीवेदम् , उदीर्ण तु पुंवेदं पटादुपरि पश्चादुपशमयति । अथ स्त्री प्रारम्भिका, तदा स्त्रीवेदस्तस्या उदये, पुं-नपुंसकवेदी त्वनुदयावस्थौ । अनयोरपि नपुंसकवेदो जघन्यतरः, इति तं प्रथममुपशमयति, ततः पुंवेदम् , उदीर्ण तु स्त्रीवेदं पश्चात् पटादुपर्युपशमयति । १ उपशमश्रेणी प्रस्थापकोऽप्रमत्तविरतस्तु । पर्यवसाने स वा भवति प्रमतवाविरतो वा ॥ १२८५॥x सम्र-1 अन्ये भणन्त्यविरत-देश-प्रमत्ता-ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपचते दर्शनशमने तु निवृत्तिः ॥ १२८६॥ २ गाथा १२८४ । ३ भवमनुबन्नन्ति यतोऽनन्तमनन्तानुबन्धिनोऽन इति । तश्चितुरोऽपि समकं शमयत्यन्तर्मुहूर्तेन ॥ १२८७ ॥ ततश्च दर्शनत्रिकं ततोऽनुदीर्णं जघन्यतरवेदम् । ततो द्वितीयं पटकं ततश्च वेई स्वकमुदीर्णम् ॥ १२८८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339