Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 279 विशेषा० 'गिम्ह-सिसिर-वासासु चउत्थयाईणि बारसंताई । अड्ढापक्कंतीए जहण्ण-मज्झिमु-क्कोसयतवाणं ॥१२७३॥ सच परिहारस्तपः पुनः परिहारिकाणां प्रस्तुततपो वोदृणां ग्रीष्म-शिशिर-वर्षासु प्रत्येकं जघन्यादित्रिविकल्पश्चतुर्थादि तपो ज्ञेय इति । एतदेव व्यक्तीकरोति- 'गिम्हेत्यादि' ग्रीष्म-शिशिर-वर्षासु चतुर्थादीनि द्वादशान्तानि तपांसि विज्ञेयानि । कया। अर्धापकान्त्या। केषां याऽर्धापक्रान्तिः, इत्याह- जघन्य-मध्यमो-स्कृष्टतपसाम । इदमुक्तं भवति-ग्रीष्मे सामान्येनैवोष्णकाले जघन्य तपश्चतुर्थ ते कुर्वन्ति, मध्यमं तु षष्ठम् , उत्कृष्ट पुनरष्टमम् । स्थापना-१२।३॥ एतदेवार्धापक्रान्त्या शिशिरे कुर्वन्ति । तत्रार्थस्याऽसमयविभागरूपस्यैकदेशस्य बैकादिपदात्मकस्यापक्रमणमषस्थानम् , शेषस्य तुयादिपदसंघातरूपस्यैकदेशस्योगमनं यस्या रचनायो सासमयपरिभाषयार्धापक्रान्तिरुच्यते । तत्र चतुर्थ-षष्ठा-ऽष्टमानि ग्रीष्मे पोक्तानि । एतेषां मध्यादेकदेशश्चतुर्थलक्षणोऽपक्रामत्यवतिष्ठते, शेष तु षष्ठा-ऽष्टमपदद्वयमूर्ध्व शिशिरे गच्छति, तृतीयं तु दशमलक्षणं पदं मील्यते । ततश्च जघन्यतः षष्ठं, मध्यमतोऽष्टमम् , उत्कृष्टतस्तु दशमं शिशिरे कुर्वन्तीति सिद्धं भवति-२।३।४॥ एतेषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति, अष्टम-दशमे तूर्व वर्षासु गच्छता, तृतीयं त्वतनं द्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमतस्तु दशमम् , उत्कृष्टतस्तु द्वादशं तपो वर्षासु कुर्वन्ति-३।४।५॥ तदत्र पदत्रयमध्यादेकदेशापक्रान्त्यार्धापक्रान्तिरुक्ता ॥ १२७२ ॥ १२७३ ॥ ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याह सेसा उ निययभत्ता पायं भत्तं च ताणमायामं । होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं ॥१२७४॥ . शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पञ्चापि पायो नियतभक्ता नित्यभोजिनो भवन्ति । प्रायोग्रहणाद् निजेच्छया कदाचिदपवासमपि कुर्वन्ति । भक्तं च तेषां सर्वदैवाऽनुपरिहारिकल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति । शेषं तु विकृति-लेपकृदादिकं वस्तु सर्व नवानामपि नियमाद्नं कल्पत इति ॥ १२७४ ॥ कियन्ति दिनानि केनेदं तपः कर्तव्यम् , इत्याहपरिहारिया-ऽणुपरिहारियाण कप्पट्ठियस्स विय भत्तं। छ छम्मासा उ तवो अट्ठारसमासिओ कप्पो॥१२७५॥ ग्रीष्म-शिशिर वर्षासु चतुर्थकादीनि द्वादशान्तानि । अर्धापकान्त्या जघन्य-मध्यमो-स्कृष्टतपलाम् ॥ १२७३ ॥ २ शेवास्तु नियतभक्ताः प्रायो भक्तं च तेषामाचाम्लम् । भवति नवानामपि भिरामादून कल्पते शेषकं सर्वम् ॥ १२७१।। । परिहारिका-ऽनुपरिहारिकाणां कल्पस्थितस्यापि च भक्तम् । षट् पद मासांस्तु तपोऽष्टादशमासिकः कल्पः ॥ १२७५ ॥ एवमुक्तप्रकारेण परिहारिकाणाम् , अनुपरिहारिकाणाम् , कल्पस्थितस्यापि च भक्तं भोजनमाचाम्लेन भवतीति शेषः, षद् षट् मासान् यथोक्तरूपं तपश्च यथायोगं वक्तव्यम् । तत्र परिहारिकास्तावद् ग्रीष्मादिषु पारणके आचाम्लपरिगृहीतचतुर्थादिक्रमेण षड् मासान यावत तपः कुर्वन्ति । ततश्चानुपहारिकाः परिहारिकत्वं प्रतिपद्येत्थमेव षड् मासान् यावत् तपः कुर्वन्ति । परिहारिकाश्च विहिततपसस्तेषामनुपरिहारिकत्वमनुचरत्वं प्रतिपद्यन्ते । ततश्च कल्पस्थित एक एव परिहारिकत्वं प्रतिपद्येत्थमेव षट् मासान् यावत् तपः करोति, एकस्त्वितरेषां मध्यात् कल्पस्थितो वाचनाचार्यों भवति, शेषास्तु सप्ताऽनुचरा भवन्ति । एवमयं परिहारविशुद्धिककल्पोऽष्टादशभिर्मासैः समर्थ्यते ॥ १२७५ ।। कल्पसमाप्तौ ते किं कुर्वन्ति ?, इत्याह (चिथ) कैप्पसमत्तीए तयं जिणकप्पं वाउविति गच्छं वा । ठियकप्पे नियमा दो पुरिसजुगाई ते होंति ॥१२७६।। कल्पसमाप्तौ चैषां त्रयी गतिः, तद्यथा- कदाचित् पुनरपि 'तयं ति' तमेव परिहारविशुद्धिककल्पं प्रतिपद्यन्ते, जिनकल्पं वाऽभ्युपगच्छन्ति, गच्छं वा पुनरप्युपयान्ति प्रविशन्ति । ते च परिहारविशुद्धिका नियमेन स्थितिकल्पे भरतै-रावतप्रथमा-ऽन्तिमजिनतीर्थे द्वे एव पुरुषयुगे यावद् भवन्ति, तीर्थकरसमीपे चामुं कल्पं प्रतिपद्यन्ते- तीर्थकरसमीपे प्रतिपन्नः, अन्यसमीपे वा, नान्यत्रेत्यर्थः । तदेवमभिहितं परिहारविशुद्धिकचारित्रम् ॥ १२७६ ॥ अथ सूक्ष्मसंपरायचारित्रमाहकोवाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहुमसंपरायं सुहुमो जत्थावसेसो सो ॥ १२७७ ॥ सेटिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥१२७८॥ क्रोधादिः कषायवर्गः संपराय उच्यते । कुतः१, इत्याह- यतः संपति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् मूक्ष्म संपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति ॥ १२७७ ॥ १२७८ ॥ १ कल्पसमाप्तौ तजिनकल्पं वोपयन्ति गच्छ वा । स्थिनकल्ये नियमाद् द्वे पुरुषयुगे ते भवन्ति ॥ १२७६॥(त) कोपादिः संपरायस्तेन यतः संपर्येति संसारम् । तत् सूक्ष्मसंपरायं सूक्ष्मो यत्रावशेषः सः॥ १२७७ ॥ श्रेणिं विलगतस्तद् विशुध्यमानं ततश्च्यवमानस्य । तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् ॥ १२७८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339