Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 287
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 280 अपना R विशेषा० अथ यथाख्यातचारित्रं विवृण्वनाह__ अहसदो जाहत्थे आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥१२७९/ 'अर्थ' इत्ययं याथातथ्यार्थे, आङ् अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदयाख्यातं यथाख्यातं चोदितमिति ॥ १२७९ ॥ एतच कतिविधम् , इत्याह'तंदुविगप्पं छउमत्थ-केवलिविहाणओ पुणेक्केकं । खय-समज-सजोगा-ऽजोगिकेवलिविहाणओ दुविहं ॥१२८०॥ तच्च यथाख्यातचारित्रं छद्मस्थ-केवलिस्वामिभेदाद् द्विभेदम् । छगस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभव च । केवलिसंबन्ध्यपि सयोग्य-ऽयोगिकेवलिभेदतो द्विविधमेवेति ॥ १२८०॥ अथ पूर्वोक्तं निगमयन् , उत्तरनियुक्तिगाथा च संबन्धयन्नाह भणियं खओवसमओ अहुणोवसमेणं लहइ जह जीवो । सामइयं तं भण्णइ सो जं च खओवसमपुव्वो॥१२८१॥ म तदेवं 'सत्तहं पयडीणं अभितरओं कोडकोडीए' इत्यादिना भणितःक्षयोपशमात सामायिकलाभः । अधुना तु 'अण-दस-नपुसि-स्थी' इत्यादिना वक्ष्यमाणाद् यथा मोहोपशमात् सामायिकं लभ्यते तद् भण्यते । किमिति प्रथम क्षयोपशमात् तल्लाभ उक्तः, इत्याह- 'सो जं चेत्यादि' स यस्माद् वक्ष्यमाण उपशमः क्षयोपशमपूर्वः। पूर्व हि मोहनीयक्षयोपशमात् सम्यक्त्वादिकं लभ्यते, पश्चायोपशमश्रेणिः । अतोऽनेनैव क्रमेणैतदभिधानम् । इत्येका पातना ॥ १२८१ ॥ अथ पातनान्तरमाह अहवा खओवसमओ चरणतियं उवसमेण खयओ वा।सुहुमा-हक्खायाई तेणोवसम-क्खया कमसो ॥१२८२॥ १क. ग. 'ख्यातं वि'। २ अथशब्दो याथायें आकभिविधी कथितमाख्यातम् । चरणमकषायमुदितं तदयाख्यातं यथाख्यातम् ॥ १२७९॥x(सामाधिक) ३ तद् द्विविकल्प छमस्थ केवलिविधानतः पुनरेकैकम् । क्षयोपशमज-सयोग्य-ऽयोगिकेवलिविधानतो द्विविधम् ॥ १२८॥ ४ भणितं क्षयोपशमतोऽधुनोपशमेन लभते यथा जीवः । सामायिकं तद् भण्यते स यच क्षयोपशमपूर्वः ॥ १२८१॥ ५ गाथा ११९३ । । गाथा १२८४ । ७ अथवा क्षयोपशमतश्चरणत्रिकमुपशमेन क्षयतो वा । सूक्ष्मा-ऽथाख्याते तेनोपशम-क्षयो क्रमशः ॥ १२ ॥ अथवा, आय चारित्रत्रयं कषायाणां क्षयोपशमादुक्तम् , उपलक्षणत्वात् क्षयात् , उपशयाच्चेति । सूक्ष्मसंपराय-यथाख्यातचारित्रद्वयं तु यस्मादुपशमेन, क्षयेण वा लभ्यत इत्युक्तम् , तेन तस्मात् कारणात् तावेवोपशम-क्षयौ क्रमेण भण्येते । यो हि श्रेणिद्वयमुपलप्स्यते स पूर्वमुपशमश्रेणिं करोति, पश्चात्तु क्षपकश्रेणिम् , इत्यमुं क्रममाश्रित्य युगपद् द्वयाभिधाने प्राप्तेऽपि प्रथममत्रोपशमश्रेणी, पश्चात्तु क्षपकश्रेणी वक्ष्यत इति भावः ॥ १२८२ ।। अथ तृतीयामपि पातनामाह सेढिगयस्स सुहुमं सेढीओ निग्गयस्सहक्खायं । सा उवसम-क्खयओ पढमं तत्थोवसमसेढी ॥१२८३॥ . 'वा' इत्यथवा, श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तम् , तद्विनिर्गतस्य तु यथारख्यातम् , अतः श्रेणिद्वयं भणनीयमायातम् , उभयश्रेणिलामे चोपशमश्रेणिमेवादी कुरुते, इति सैव तावत प्रथममुच्यते ॥ इति द्वाविंशतिगाथार्थः ।। १२८३ ॥ तामेव विहितप्रस्तावनामुपश्रेणिमाह अण-दस-नपुंस-त्थीवेय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥१२८॥ इहोपशमश्रेणिपारम्भकोऽप्रमत्तसंयतो भवतीति केचित् । अविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतर इत्यन्ये । श्रेणेः समाप्तौ च निवृत्तोऽप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवेष्वविरतो वा भवति । कार्मग्रन्थिकाभिमायण तु प्रतिपतितोऽसौ मिथ्याष्टिगुणस्थानकमपि यावद् गच्छति । तत्रेत्यमेतामारभते- 'अण ति । 'अण-रण-' इत्यादिदण्डकपातुः । अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यम् , नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणा आधाः क्रोधादयश्चत्वारः कषायाः। अथवा, अण त्ति' प्राकृतत्वेन अनाः, एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिनस्त एवाऽऽद्याः क्रोधादयश्चत्वारः कषाया इत्यर्थः। तत्राऽसौ प्रतिपत्ता प्रशस्तनध्यवसायस्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्तमात्रेण कालेनाऽनन्तानुबन्धिनः क्रोधादीनुपशमयति । 'दंस त्ति' दर्शनं दर्शः, तच्च दर्शनं मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिविधम् । ततोऽनन्तानुबन्ध्युपशमानन्तरमेतदपि युगपदन्तर्मुहूर्तेनोपशमयति । ततो यदा पुरुषः श्रेणिसमारम्भको भवति, तदानुदीर्णमपि 'नपुंस त्ति नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदमन्तर्मुहूर्तेन, १ क.ग. 'यमपि ल' । २ श्रेणिगतस्य सूक्ष्म श्रेणीतो निर्गतस्याऽथाख्यातम् । सोपशम-क्षयतः प्रथमं तत्रोपशमश्रेणिः ॥ १२८३ ॥ (मुपशम) ३ अन-दर्श-नपुंसक-खीवेद-षटकानि च पुरुषवेदं च । द्वौ द्वावेकान्तरितौ सदशौ सदशमुपशमयति ॥ १२८४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339