Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 279
________________ Acharya Shri Kallassagarsun Gyan Manor www.kobatirth.org Shri Mahave Jain Aradhana Kendra 272 विशेषा० कषायाः। ते च बहुवचननिर्देशाचत्वारः क्रोधादयो गम्यन्ते । एवं देशनिरत्याधुत्तरोत्तरगुणघातित्वात् द्वितीय-तृतीय-चतुर्थत्वेन, कषायशब्दादिवाच्यत्वेन च द्वितीयादयोऽपि मताः संमता इति ।। १२२८ ॥ १२२९ ॥ भवसिद्धीया वि' इत्येतद् व्याख्यानयतिभवसिद्धिया वि भणिए नियमा न लहंति तयमभव्वा वि । अविसदेण व गहिया परित्तसंसारियाईया॥१२३०॥ 'भवसिदिकाः' इत्युक्तेऽपिशब्दात 'अभव्यास्तु नैव लभन्ते' इत्यवगम्यत एव । अथवा, अपिशब्दात् 'परीत्तसंसारादयोऽपि न लभन्ते' इति गम्यते ॥ इति गाथाचतुष्टयार्थः ।। उक्ताः सम्यक्त्वस्याऽऽवरणभूताः कषायाः॥१२३०॥ अथ देशविरत्यावरणभूतांस्तानाह__बीयकसायाणुदए अप्पच्चक्खाणनामधेयाणं । सम्मइंसणलंभं विरयाविरई न उ लहंति ॥ १२३१ ॥ सर्वप्रत्याख्यानं देशप्रत्याख्यानं च येषामुदये न लभ्यते, ते प्रत्याख्याना: अकारस्य सर्वप्रतिषेधवचनत्वात् , अप्रत्याख्याना नामधेयं येषां तेऽत्याख्याननामधेयास्तेषामप्रत्याख्याननामधेयानाम् । द्वितीयस्य देशविरतिगुणस्याऽऽवारकत्वाद् द्वितीयाः, तेच ते कषायाश्च द्वितीयकपायास्तेषां द्वितीयकपायाणामुदये 'भव्याः सम्यग्दर्शनलाभ लभन्ते' इति वाक्यशेपः । अयं च वाक्यशेषो 'विरयाविरई न उ लहति' इत्यत्र तुशब्दोपादानाल्लभ्यते, एषामुदये भव्याः सम्यग्दर्शनलाभ लभन्ते, विरताविरतिं देशविरति पुनर्न लभन्त इति वाक्यसंगतेरिति । विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिस्ताम् ॥ इति नियुक्तिगाथार्थः ॥ १२३१ ॥ भाष्यम् सव्वं देसो व जओ पच्चक्खाणं न जेसिमुदएणं । ते अप्पच्चक्खाणा सव्वनिसेहे मओऽकारो ॥१२३२॥ सम्मइंसणलंभ लभंति भविय ति वक्कसेसोऽयं । विरयाविरइविसेसणतुसहसंलक्खिओऽयं च ॥१२३३॥ गाथा १२२६ । २ भवसिद्धिका अपि भणिते नियमाद् न लभन्ते तदभव्या भपि । अपिशब्देन वा गृहतिाः परीत्तसंसारादिकाः ॥ १२३० ।। द्वितीयकपायाणामुदयेऽप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभ विरताविरतिं न तु लभन्ते ॥ १२३॥ सर्व देशो वा यतः प्रत्याख्यानं न येषामुवयेन । तेऽप्रत्याख्यानाः सर्वनिषेधे मतोऽकारः ॥ १२॥२॥ सम्यग्दर्शनलाभ लभन्ते भव्या इति वाक्यशेषोऽयम् । विरताविरतिविशेषणतुशब्दसंलक्षितोऽयं च ॥ १२३३॥ गतार्थे एव ॥ १२३२ ॥ १२३३ ॥ अथ तृतीयस्य सर्वविरतिगुणस्याऽऽवारकांस्तृतीयकषायानाह तैइयकसायाणुदए पञ्चक्खाणावरणनामधेज्जाणं । देसे-कदेसविरई चरित्तलंभं न उ लहंति ॥ १२३४ ॥ . सर्वविरतिलक्षणतृतीयगुणघातित्वात् , क्षपणक्रमाद् वा तृतीयाश्च ते कषायाश्च तृतीयकषायाः क्रोधादयश्चत्वारस्तेषामुदये । कथंभूतानाम् ?, आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं, तस्याऽऽवरणाः प्रत्याख्यानावरणाः, एतदेव नामधेयं येषां ते प्रत्याख्यानावरणनामधेयाः, तेषाम् । आह- ननु 'अप्रत्याख्याननामधेयानामुदये सर्वथा प्रत्याख्यानं नास्ति' इत्युक्तम्, नत्रा प्रतिषि दत्वात् । इहाऽपि चावरणशब्देन प्रत्याख्यानस्य सर्वस्यापि निषेधो गम्यते, इति क एषां प्रतिविशेषः' इति । अत्रोच्यते-तत्र न सनिषेध उक्तः, इह त्वाङ मर्यादे-षदर्थत्वात्, आ- सर्वविरतिप्रत्याख्यानमर्यादया, अथवा, ईषत्- सावद्ययोगानुमतिमात्रविरतिरूपं प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वविरतिरूपप्रत्याख्याननिषेधार्थ एवायं वर्तते, न देशविरतिप्रत्याख्याननिषेध आवरणशब्दः, तथा चाह-देशश्चैकदेशश्च देशै-कदेशौ तत्र देशः स्थूलपाणातिपातादिः, एकदेशस्तु तस्यैव दृश्यवनस्पतिकायायतिपातः, तयोर्देशै-कदेशयोर्विरतिनिवृत्तिस्ता 'लभन्ते' इति वाक्यशेषः । अत्राप्येष वाक्यशेषः 'चरित्तलंभं न उ लहति' इत्यत्र तुशब्दोपादानादेव लभ्यते । चरन्त्यनिन्दितमनेनेति चारित्रम् , अष्टविधकर्मचयरिक्तीकरणाद् वा चारित्रम्, सर्वविरतिक्रियेत्यर्थः, तस्य । लाभस्तम् , एपामुदये न लभन्ते, देशै-कदेशविरतिं पुनर्लभन्ते ॥ इति नियुक्तिगाथार्थः ॥ १२३४ ।। भाष्यम् सव्वं पच्चक्खाणं वरति ते जं न देसमेएणं । पच्चक्खाणावरणा आमज्जादी-सदत्थेसु ॥ १२३५ ॥ यद् यस्मात् सर्वविरतिरूपं सर्व प्रत्याख्यानमावृण्वन्ति ते तृतीयकषायाः, न देशप्रत्याख्यानम् , एतेन कारणेन प्रत्याख्यानावरणा अमी उच्यन्ते, 'न तु प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा इति व्युत्पत्तेः सर्वमपि प्रत्याख्यानमेषामुदये न भवति' इति गम्यते । अयं तु विशेषः कुतः, यत् सर्वविरतिप्रत्याख्यानमावृण्वण्त्यमी, न देशप्रत्याख्यानम् १, इत्याशङ्कयाह- 'आ मज्जादी-सद१.छ. 'तीयाना' । २ तृतीयकषायाणामुदये प्रत्याख्यानावरणनामधेयानाम् । देशै-कदेशविरतिं चारित्रलाभं न तु लभन्ते ॥ १२३४ ॥ ३ सर्व प्रत्याख्यानमावृण्वन्ति ते यद् न देशमेतेन । प्रत्याख्यानावरणा आ मर्यादे-पदर्थयोः ॥ १२३५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339