Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 281
________________ Shri Mahavir Jain Aradhana Kendra ' www.kobatirth.org 274 Acharya Shri Kallassagarsuri Gyanmandir विशेषा० ननु रात्रीभोजनविरमणमपि मूलगुणः, तदिह किमिति मूलगुणत्वेन नोपात्तम् । अत्रोत्तरमाह - व्रतधारिणः संयतस्यैव सद् रात्रीभोजनविरमणं मूलगुणः, शेषस्य तु गृहिणी देशविरतस्योत्तरगुण इत्यर्थः । कुतः १, आहारविरमणरूपत्वात्, तपोवत् । अथवा, तप एव वा तद् निशिभोजनविरमणमिति प्रतिज्ञा, यतोऽनशनम् - अशनत्यागरूपत्वादिति हेतुः, चतुर्थादिवत् इत्यनुक्तोऽपि दृष्टान्तः स्वयं दृश्य:, तपोत्तरगुण एवेति भावः । इतवेदमुत्तरगुणः । कुतः १, महाव्रतसंरक्षणात्मकत्वात्, समित्यादिवदिति ॥ १२४०॥१२४१ ॥ अत्राह - ययेवम्, उक्तयुक्तेर्व्रतधारिणोऽपि तद् मूलगुणो न प्रामोति, इत्याह तह वितयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा । मूलगुणगहणम्मि य तं गहियं उत्तरगुण व्व ॥ १२४२ ॥ तथापि प्रतिनस्तन्मूलगुणो भण्यते, समस्तव्रतानुपालनात्, समस्त व्रत संरक्षणेनाऽत्यन्तोपकारित्वात् प्राणातिपात विरमणवत्, मूलगुणग्रहणाच साक्षादनुपात्तमपि तद् गृहीतमेव द्रष्टव्यम्, उत्तरगुणवदिति ॥ १२४२ ॥ कस्माद् मूलग्रहणे तद् गृह्यते १, इत्याह जेम्हा मूलगुणचि न होंति तव्विरहियस्स पडिपुन्ना । तो मूलगुणग्गहणे तग्गहणमिहत्थओ नेयं ॥१२४३|| यस्मात् तद्विरहितस्य रात्रीभोजनविरमणविरहितस्य महाव्रतादयो मूलगुणा एव परिपूर्णा न भवन्ति, अतो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो विज्ञेयम् ; तथाहि - रात्रौ भोजने विधेये रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनाद् वह्निप्रदीपनादिभिः स्पर्शनात् पुरः कर्मपात्कर्माद्यमेषणादोपदुष्टाहारग्रहणादेव प्राणातिपातव्रतविघातः । अन्धकारबलेन च पतितहिरण्यादिद्रविणग्रहणादेः, योषित्परिभोग संभवाच शेपव्रतविलोपः । इत्येवं रात्रिभोजनविरमणमन्तरेण न संभवन्त्येव प्राणातिपात विरत्यादिमूलगुणाः । अत एव तद्ग्रहणेऽत्यन्तोपकारित्वाद् गृहीतमेवार्थतस्तदिति ॥ १२४३ ॥ अत्र प्रेरकः प्राह जै मूलगुणो मूलव्यवगारि ति तं तवाईया । तो सब्बे मूलगुणा जइव न तो, तंपि मा होज्जा ॥१२४४ ॥ (x गुणग्र-1) १ तथापि तद् मूलगुणो भव्यते मूलगुणपालकं यस्मात् । मूलगुणग्रहणे व तद् गृहीतमुसरगुण इव ॥ १२४२ ॥ ( + तस्येत्तर - 1 ) २ यस्माद् मूलगुणा एव न भवन्ति तद्विरहितस्य परिपूर्णाः । ततो मूलगुणग्रहणे तद्ग्रहणमिहार्थतो ज्ञेयम् ॥ १२४३ ॥ ३. यदि मूलगुणो मूलवतोपकारीति तत् तपआदिताः । ततः सर्वे मूलगुणा यदिवा न ते, तदपि मा भूत् ॥ १२४४ ॥ यदि तद् निशिभोजनविरमणं मूलगुणोपकारित्वाद् मूलगुण इष्यते, ततस्तर्हि तपःप्रभृतयः सर्वेऽपि मूलगुणाः प्राप्नुवन्ति, पामपि तदुपकारित्वात् । अतो विशीर्णोत्तरगुणकथा । यदि पुनस्ते तपःप्रभृतयो मूलगुणा न भवन्ति, तर्हि तदपि रात्रीभोजनविरम मूलगुणो मा भूत्, उपकारित्वाविशेषात् । पूर्वापरविरोधचैवमनभ्युपगच्छतो भवतः तथाहि भवतैवानन्तरमुक्तं यथा'महाव्रत संरक्षणादुत्तरगुण इदं, समितिवत्' इति इदानीं त्वभिधत्से- 'महाव्रत संरक्षणाद् मूलगुण एतदिति' । अत्रोच्यते - किमिह विरुद्रम् १, उभयधर्मकं हि रात्रीभोजनविरमणम्, यतो गृहस्थस्य तदुत्तरगुणः, तस्याऽऽरम्भजमाणातिपातादनिवृत्तत्वात्, निशि भोजने - Sपि मूलगुणानामखण्डनात्, अत्यन्तोषकाराभावादिति व्रतिनस्तु तदेव मूलगुणः, तस्याऽऽरम्भजादपि प्राणातिपाताद् निवृत्तत्वात् रजनिभोजने च तत्संभवात्, अतस्तद्विधाने मूलगुणानां खण्डनात्, तद्विरमणे तु तेषां संरक्षणेनात्यन्तोपकारात् तत् तस्य मूलगुणः तपःप्रभृतीनां चेत्थमत्यन्तोपकारित्वाभावादुत्तरगुणत्वमिति ।। १२४४ ।। 1 आह च सेव्वव्वओवगारिं जह तं न तहा तवादओ वीसुं। जंते, तेणुत्तरिया होंति गुणा तं च मूलगुणो ॥ १२१५॥ ‘जं ति' यस्मात् कारणाद् यथा तद् रात्रीभोजनविरमणं सर्वव्रतोपकारकम्, न तथा तपः-समित्यादयो विष्वक् पृथक्, तेन कारणेन त उत्तरिका उत्तरगुणा भवन्ति । तत्तु रात्रीभोजनत्रतं मूलगुणानामत्यन्तोपकारित्वाद् मूलगुणः । यथा हि प्राणातिपातादिपञ्चानामेकस्याप्यभावे शेषाणामभावाद् मूलगुणत्वम् एवं रात्रिभोजनव्रतस्याऽप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वाद् मूलगुणत्वमिति भावः ।। १२४५ ॥ अथ " संजलणाणं उदए' इत्यादिनिर्युक्तिगाथोत्तरार्धव्याख्यामाह * ईसि सराहं वा संपाए वा परीसहाईणं । जलणाओ संजलणा नाहक्खायं तदुदयम्मि | १२४६ ॥ अकसाय महखायं जं संजलणोदए न तं तेण । लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि || १२४७|| १. छ. ' अथवा ' । २ सर्वोपकारि यथा तद् न तथा तपआदयो विश्वक। यत् ते, तेनौतराहा भवन्ति गुणास्तच्च मूलगुणः || १२४५ ॥ ३ गाथा १२३८ । + औतरिका -1 ४] ईषद् समिति वा संपाते वा परपहादीनाम् । ज्वलनात संज्वलना नाऽथाख्यातं तदुदये ॥ १२४६ ॥ ( तरिका -1) अकपायसाव्यातं अन् संज्वलनोदये न तत् तेन । लभ्यते लब्धं च पुनर्भश्यति सर्वे तदुदये ॥ १२४७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339