________________
Acharya Shri Railassarson Gyaan
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
265 विशेषा०
आउस सागराइं तेत्तीसं, अवरओ मुहुत्तंतो । अट्ठ य नामा-गोए वेअणीए बारस मुहुत्ता॥११८८॥
नाम-गोत्रयोविंशतिः सागरोपमकोटाकोट्य उत्कृष्टा स्थितिः, मोहनीयस्य तु सप्ततिः, शेषाणां तु ज्ञानावरण दर्शनावरण-वेदनीया-ऽन्तरायाणां त्रिंशत् , आयुषस्तु त्रयस्त्रिंशत् सागरोपमाण्युत्कृष्टा स्थितिः । अवरतो जघन्यतः पुनर्मुहूर्तान्तः- ज्ञानावरण-दर्शनावरण-ऽऽयु-र्मोहनीया-ऽन्तरायलक्षणानां पञ्चानां कर्मप्रकृतीनामन्तर्मुहूर्त जघन्या स्थितिरित्यर्थः, नाम गोत्रयोरष्टौ मुहूर्ताः, वेदनीयस्य तु द्वादश मुहूर्ता जघन्या स्थितिः।
तत्र मोहनीयस्य जघन्यस्थितिबन्धकोऽनिवृत्तिवादरः, आयुषस्तु मिथ्यादृष्टयस्तिर्यग-मनुष्याः, ज्ञानावरण-दर्शनावरण-वेदनीयमाम-गोत्रा-ऽन्तरायाणां तु मूक्ष्मसंपरायो जघन्यस्थितिबन्धकः । कपायप्रत्यया चेह जघन्या स्थितिर्विवक्षिता, योगप्रत्ययो तूपशान्तमोहादीनां वेदनीयस्य सामयिक्यप्येषा स्यादिति । आह- किमेताः कर्मप्रकृतयो युगपदेवोत्कृष्टस्थितयो भवन्ति, आहोस्विदेकस्या उत्कृष्टस्थितौ जातायां पश्चादन्या उत्कृष्टस्थितयो भवन्ति, अन्यथा वा कथञ्चित् । अत्रोच्यते- वैचित्र्यमत्र ॥ ११८७ ॥ ११८८ ॥
किं पुनस्तत् ?, इत्याह. मोहस्सुकोसाए ठिईए सेसाण छण्हमुक्कोसा । आउस्सुक्कोसा वा मज्झिमिया वा न उ जहण्णा ॥ ११८९ ॥
मोहविवज्जुक्कोसयठिईए मोहरस सेसियाणं च । उक्कोस मज्झिमा वा कासइ व जहणिया होज्जा ॥११९०॥
मोहनीयस्योत्कृष्टायां स्थितौ वध्यमानायां शेषाणां ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्रा-ऽन्तरायलक्षणानां षण्णां कर्मणामुत्कृष्टव स्थितिर्भवति । उत्कृष्टसंक्लेशे हि मोहनीयस्योत्कृष्टा स्थितिबध्यते । तत्र वर्तमानो जन्तुर्मानावरेणादीनामप्युत्कृष्टो स्थिति वध्नातीति सुप्रतीतमेव । आयुषस्तु यदोत्कृष्टस्थितिकेन मोहनीयेन सहोत्कृष्टं नारकायुरपि बद्ध्वा सप्तमपृथिव्यामुत्पद्यते, तदा नारकायुराश्रित्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमलक्षणा स्थितिलभ्यते । यदा तु षष्ठपृथिव्यादिपूत्पद्यते, तदा तस्यैव मध्यमा स्थितिलभ्यते, न तु जघन्या । एतावत्संक्लेशवतो नरक एवोत्पादात , तत्र च क्षुल्लकभवग्रहणलक्षणाया आयुर्जघन्यस्थितेरसंभवात् । यदाऽप्युत्कृष्टसं
1 आयुषः सागरात्रयस्त्रिंशत् , अवरतो मुहूर्तान्तः । अष्ट च नाम-गोत्रयोदनीये द्वादश मुहूर्ताः ॥ ११५८ ॥ २ क. ग. 'या तेषूप'। ३ मोहस्योरकृष्टायां स्थिती शेषाणां षण्णामुत्कृष्टा । आयुष उस्कृष्टा वा मध्यमा वा ने तु जघन्या ॥११८९॥
मोहविवोत्कृष्टस्थिती मोहस्य शेषाणां च । उत्कृष्टा मध्यमा वा कस्यचिद् वा जघन्या भवेत् ॥ ११९० ॥ ४ क. ग. 'रणीयादी'। क्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बवा तिर्यसूत्पद्यते, तदाप्यायुषो जघन्यस्थितिर्न संभवति, क्षुल्लकभवग्रहणलक्षणतज्जघन्यस्थितिषु जीवेषु नारक-देवानामनुत्पादादिति ।
'मो विवज्जुक्कोसयेत्यादि' यदा तु मोहनीयं वर्जयित्वा शेषस्य ज्ञानाबरणाद्यन्यतरस्य कर्मण उत्कृष्टा स्थितिर्वध्यते, तदा मोहनीयस्य, तथा, विवक्षितोत्कृष्टस्थितिकज्ञानावरणादिकर्मणः सकाशादन्यकर्मरकृतीनां चोत्कृष्टा वा, मध्यमा ना स्थितिलभ्यते, न तु जघन्या; तथाहि- यदा सर्वोत्कृष्टसंक्लेशे वर्तमान उत्कृष्टस्थितिकं ज्ञानावरणीयादिकं कर्म बध्नाति, तदा शेषाणां मोहादिकर्मणामुत्कृष्टा स्थितिर्भवतीत्यवगम्यत एव । यदा तु खपायोग्योत्कृष्टसंक्लेश उत्कृष्टस्थितीनि ज्ञानावरणादिकाणि बध्यन्ते, तदाऽसौ ज्ञानावरणादिकर्मोत्कृष्टस्थितिप्रायोग्यः संक्लेशो मोहनीयकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया मध्यम एव भवति; अतस्तत्र वर्तमानो मोहनीयं मध्यमस्थितिकं बनाति, इत्येदपि सुबोधमेव । दर्शनावरण-वेदनीयादिकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया त्वसावुत्कृष्टो वा स्यात् , मध्यमो वा तत्रोत्कृष्ट तस्मिन् दर्शनावरणीयादिकर्माणि तीव्ररसान्युत्कृष्टस्थितीनि बध्यन्ते, मध्यपे तु तस्मिन् मध्यमस्थितीनि तानि बध्यन्ते, इत्येतदपि घटमानक लक्ष्यते । जघन्या तु तस्थितिर्न संभवति । मोहनीय-दर्शनावरणीयादिकर्मणां हि जघन्याऽवर्मुहूर्तादिका स्थितिरुक्ता, तां चानिवृत्तिवादर-सूक्ष्मसंपरायावेव बधीतः, तौ च ज्ञानावरणादिकर्मोत्कृष्टस्थिति कदाचिदपि न निर्वतयतः, किन्तु मिथ्यादृष्टिरेवः इति न ज्ञानावरणाद्युत्कृष्टस्थितौ मोहनीय-दर्शनावरणादिजघन्यस्थितिसंभवः । किं सर्वथा न १, इत्याह'कासइ व जहणिया होज ति' कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात् , यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म वनतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्वन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम्, परमार्थ विह। केवलिना, बहुश्रुता वा विदन्तीति ॥ ११८९ ॥ ११९०॥ . एवं च सति किम् , इत्याह... सम्म-सुय-देस-सव्वव्वयाण सामाइयाणमेकं पि । उक्कोसठिई न लभइ भयाउए पुन्वलद्धाइं ॥११९१॥
सव्वजहण्णठिईउ वि न लभए जेण पुव्वपडिवन्नो।आउयजहण्णठिईओ न पवज्जतो न पडिवन्नो॥११९२॥
सम्यक्त्व-श्रुत-देशव्रत-सर्वव्रतलक्षणानां चतुर्णा सामायिकानामेकमप्युत्कृष्टकर्मस्थितिको जन्तुर्न लभते, पूर्वलब्धानि तूत्कृष्टस्थि१ क. ग. 'रणादि' । २ सम्यक्-श्रुत-देश-सर्वधतानां सामायिकानामेकमपि । उत्कृष्टस्थितिर्न लभते भजाऽऽयुपि पूर्वलब्धानि ॥ ११९१ ॥
सर्वजघन्यस्थितिकोऽपि न लभते येन पूर्वप्रतिपन्नः । आयुर्जघन्यस्थितिको म प्रपद्यमानो न प्रतिपन्नः॥ ११९२ ॥
A
.
For Private and Personal Use Only