Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 268 विशेषा० तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो थोवतरं गिण्हंतो पावए गठिं ॥ १२०६ ॥ यथा कश्चित् कुटुम्बिकोऽतिमहति धान्यभृतपल्ये कदाचित् कथमपि स्तोकस्तोकतरमन्यद् धान्य प्रक्षिपति, बहुतरं तु शोधयति-गृहव्ययाद्यर्थ ततस्तत् समाकर्षति । एवं च सति क्रमशो गच्छता कालेन तस्य धान्यं क्षीयते । प्रस्तुते योजयति- 'तहेत्यादि तथा तेनैव प्रकारेण कर्मैव धान्यभृतपल्या कर्मधान्यपल्यः, तत्र कर्मधान्यपल्ये, चिरसंचितप्रचुरकर्मणीत्यर्थः, कुटुम्बिकस्थानीयो जीवः कदाचित् कथमप्येवमेवाऽनाभोगतो बहुतरं चिरबद्ध कर्म शोधयन् क्षपयन् , स्तोकतरं तु नूतनं गृह्णानो बध्नन् ग्रन्धि यावत् प्राप्नोतिदेशोनकोटीकोटिशेषाण्यायुर्वर्जसप्तकाणि धृत्वा शेष तत् कर्म क्षपयतीत्यर्थः । एष यथामवृत्तकरणस्य व्यापार इति ॥ १२०६ ॥ अत्र कश्चिदाह-नन्वागमविरुद्धमिदम्, यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिरयम् । अस्थ चैवंभूतस्य जन्तोहुतरस्य कर्मणः क्षेपणम् , स्तोकस्य च बन्धोऽन्यत्रागमे निषिद्ध एक, यदाह "पैल्ले महइमहल्ले कुंभ पक्खिबइ सोहए नालिं । असंजए अविरए बहु बंधए निज्जरे थोवं ॥१॥ पल्ले महइमहल्ले कुंभ सोहए पक्खिवे नालि । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ॥२॥ पल्ले महहमहल्ले कुंभ सोहेइ पक्खिवे न किंचि । जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ॥ ३॥" तदेवमिह गाथात्रय आद्यगाथायामसंयता-अविरत-मिथ्यादृष्टेः पतिसमये बन्धस्य बहुत्वम् , निर्जरायास्त्वल्पत्वमुक्तम् । मकद्रिस्त्वेतद्विपरीतमिह प्रतिपाद्यते, इति कथं न विरोधः। - अत्रोच्यते-मायोवृत्तिरेषा यत्- असंयतस्य बहुतरकर्मण उपचयः, अल्पतरस्य चापाय इति । यदि पुनरित्थमेव सर्वदैव स्यात् , तदोपचितबहुकर्मणां जीवानां कदापि कस्यापि सम्यक्त्वादिलाभो न स्यात्, न चैतदस्ति, सम्यग्दृष्टयादीनां प्रत्यक्षत एवोपलम्भात् । किञ्च, यदि सर्वदैव बहुतरस्य कर्मण उपचयः, तदा कालक्रमेण सर्वस्यापि पुद्गलराशेः कर्मतयैव ब्रहणप्रसङ्गः स्यात्, न चैतदप्यस्ति,स्तम्भ कुम्भा-ऽभ्र-भू-भवन-तनु-तरु-गिरि-सरित्-समुद्रादिभावेनापि परिणतानां तेषां सदैव दर्शनात् । तस्मादिह त्रयो १ तथा कर्मधान्यपल्ये जीयोऽनाभोगतो बहुतरम् । शोधयन् स्तोकतरं गृह्वानः प्रामोति प्रन्धिम् ॥ १२०६॥+ चापचय- २ पल्ये महातिमहति कुम्भ प्रक्षिपति शोधयति नाडीम् । असयतोऽविरतो बहु बनाति निर्ज़गाति स्तोकम् ॥1॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति नाडीम् । यः संयतः प्रमतो बहु निज॑णाति बनाति स्तोकम् ॥ २॥ पल्ये महातिमहति कुम्भ शोधयति प्रक्षिपति न किञ्चित् । यः संयतोऽप्रमत्तो बहु निजृणाति बनाति न किञ्चित् ॥३. भङ्गा द्रष्टव्याः , तद्यथा-- कस्यचिद् वन्धहेतूनां प्रकर्षात , पूर्वोपचितकर्मक्षपणहेतूनामपकर्षाच्चोपचयप्रकर्षः, कस्यचित्तु बन्धहेतूनां क्षपणहेतूनां च साम्यादुपचया-ऽपचयसाम्यम् , कस्यचित् पुनर्वन्धहेतूनामपकर्षात् क्षपणहेतूनां च प्रकर्षादपचयप्रकर्षः। तदिह तृतीयभने यदाऽसौ मिथ्यादृष्टिरपि वर्तते तदा ग्रन्थिदेशं प्राप्नोति । इत्युक्तः पत्यदृष्टीतः ॥१२०५ ॥ १२०६ ॥ कथं पुनरनाभोगत एवैतावतः कर्मणोऽपचयः १, इत्याशङ्कय द्वितीयं गिरिसरिदुपलदृष्टान्तमाह 'गिरिनइ-वत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठितिक्खवणमणाभोगओ तस्स॥१२०७॥ गिरिनदीपाषाणानां, तथा, वर्तनी मार्गस्तत्पतितपाषाणानां च लघूपलशकलानां या घटना परस्परादिघर्षणा तदौपम्येन प्रन्थि यावत् कर्मस्थितिक्षपणमनाभोगत एव तस्य जीवस्य प्रथमेन यथाप्रवृत्तकरणेन भवति । अयमभिप्राय:- यथा गिरिनदीपाषाणाः मार्गपतितपाषाणाश्चानाभोगतोऽपि- 'वयमीदृशा भवामः' इत्यध्यवसायमन्तरेणापि, परस्परतो लोकचरणादिना वा घृष्यमाणा घश्चनघोलनान्यायेन केनापि वृत्त-व्यस्र-चतुरस्र-हस्व-दीर्घाधनेकाकारा भवन्ति; एवमिहापि कथमप्येवमेवानाभोगतो यथाप्रवृत्तकरणेन जीवाः कर्म क्षपयित्वा ग्रन्थिदेशमाप्नुवन्ति ।। १२०७ ।। पिपीलिकोदाहरणमधिकृत्याह'खितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा ओरुहणं वा मुइंगाणं ॥१२०८॥ खिइगमणं पिव पढम थाणूसरणं व करणमपुव्वं । उप्पयणं पिव तत्तो जीवाणं करणमनियढेिं ॥१२०९॥ थाणु ब्व गंठिदेसे गंठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो पुणो वि कम्मठिइविवुड्ढी ॥१२१०॥ 'मुइंगाणं ति' कीटिकानामत्र पश्चार्थाः किल विवक्षिताः; तद्यथा-क्षितौ तावत् स्वाभाविकमविशिष्टमितश्चेतश्च गमनं पर्यटनम् । , गिरिनदी-वर्तनीपाषाणघटनौपम्येन प्रथमकरणेन । यावद् प्रन्थि कर्मस्थितिक्षपणमनाभोगतस्तस्य ।। १२०७॥x ठाण-1+प्पुव्यं २ क्षितिस्वाभाविकगमनं स्थाणूल्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वाऽवरोहणं वा कीटिकानाम् ॥ १२०८ ॥ क्षितिगमनमिव प्रथम स्थाणूत्सरणमिव करणमपूर्वम् । उत्पतनमिव ततो जीवानां करणमनिवति ॥ १२०९ ॥ स्थाणाविव प्रन्थिदेशे प्रन्थिकसत्वस्य तत्रावस्थानम् । अवसर्पणमिव ततः पुनरपि कर्मस्थितिविवृद्धिः॥१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339